Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
षष्ठसमुद्देशः ।
अपौरुषेयः शब्दोऽमूर्तत्वादित्यत्रैवासिद्धाः साध्यसाधनोभयव्यतिरेका यत्रेति विग्रहः । तत्रासिद्धसाध्यव्यतिरेकः परमाणुस्तस्यापौरुषेयत्वात् इन्द्रियसुखमसिद्धसाधनव्यतिरेकम् । आकाशं त्वसिद्धोभयव्यतिरेकमिति । साध्याभावे साधनव्यावृत्तिरिति व्यतिरेकोदाहरणप्रघट्टके स्थापितं तत्र तद्विपरीतमपि तदाभासमित्युपदर्शयति-—
विपरीतव्यतिरेकञ्च यन्नामूर्त तन्नापौरुषेयम् ॥ ४५ ॥ बाळव्युत्पत्यर्थं तत्रयोपगम इत्युक्तमिदानीं तान्प्रत्येव कियद्धीनताषा प्रयोगाभासमाह
बालप्रयोगाभासः पञ्चावयवेषु कियद्धीनता ॥ ४६ ॥ तदेवोदाहरति
अग्निमानयं देशो धूमवत्वात् यदित्थं तदित्थं यथा महानस इतेि । इत्यवयवन्त्रयप्रयोगे सतीत्यर्थः । चतुरवयवप्रयोगे तदाभासत्वमाहधूमवांश्चायमिति वा ॥ ४८ ॥
अवयवविपर्ययेऽपि तत्त्वमाह
तस्मादग्निमान् धूमवांश्रायमिति ॥ ४९ ॥ कथमवविपर्यये प्रयोगाभास इत्यारेकायामाह -
स्पष्टतया प्रकृतप्रतिपत्तेरयोगात् ॥ ५० ॥ इदानीमागमाभासमाह -- रागद्वेषमोहाक्रान्त पुरुषवचनाज्जातमागमाभासम् ॥ ५१ ॥
उदाहरणमाह
यथा नद्यास्वीरे मोदकराशयः सन्ति, धावध्वं माणवकाः ॥५२॥ कश्चिन्माणवकैराकुलीकृतचेतास्तत्सङ्गपरिजिहीर्षया प्रतारणवाक्येन नद्या देशं तान् प्रस्थापयतीत्या तोक्तेरन्यत्वादागमाभासत्वम् । प्रथमोदाहरणमात्रे'गातुंष्यन्नुदाहरणान्तरमाह---

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92