Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 86
________________ प्रमेयरत्नमाला। _____ अंगुल्यग्रे हस्तियूथशतमास्त इति च ॥ ५३॥ अत्रापि सांख्यपशुः स्वदुरागमजनितवासनाहितचेता दृष्टेष्टविरुद्धं सर्वे सर्वत्र विद्यत इति मन्यमानस्तथोपदिशतीत्यनाप्तवचनत्वादिदमाप तथेत्यर्थः । कथमनन्तरयोर्वाक्ययोस्तदाभासत्वमित्यारेकायामाह----. विसंवादात् ॥ ५४॥ अविसंवादरूपप्रमाणलक्षणाभावान्न तद्विशेषरूपमपीत्यर्थः । इदानीं संख्याभासमाह प्रत्यक्षमेवैकं प्रमाणमित्यादि संख्याभासम् ॥ ५५ ॥ प्रत्यक्षपरोक्षभेदात् द्वैविध्यमुक्तं तद्वैपरीत्येन प्रत्यक्षमेव, प्रत्यक्षानुमाने एवेत्याद्यवधारणं संख्याभासम् । प्रत्यक्षमेवैकमिति कथं संख्याभासमित्याह लोकायतिकस्य प्रत्यक्षतः परलोकादिनिषेधस्य परबुद्ध्यादेश्वासिद्भरतद्विषयत्वात् ॥५६॥ ___अतद्विषयत्वात् अप्रत्यक्षविषयत्वादित्यर्थः । शेषं सुगमम् । प्रपञ्चितमे वैतत्संख्याविप्रतिपत्तिनिराकरण इति नेह पुनरुच्यते । इतरवादिप्रमाणेयत्तावधारणमपि विघटत इति लौकायतिकदृष्टान्तद्वारेण तन्मतेऽपि संख्याभासमिति दर्शयति सौगतसांख्ययोगमाभाकरजैमिनीयानां प्रत्यक्षानुमानागमोपमानार्थापत्त्यभावैरेकैकाधिकैर्व्याप्तिवत् ॥ ५७ ॥ यथा प्रत्यक्षादिभिरेकैकाधिकैाप्तिः प्रतिपत्तुं न शक्यते सौगतादिमिस्तथा प्रत्यक्षेण लौकायतिकैः परबुद्धयादिरपीत्यर्थः। अथ परबुद्धयादिप्रतिपत्तिः प्रत्यक्षेण माभूदन्यस्माद्भविष्यतीत्याशङ्कयाह अनुमानादेस्तद्विषयत्वे प्रमाणान्तरत्वम् ॥ ५८ ॥ तच्छब्देन परबुद्धयादिरभिधीयते । अनुमानादेः परबुद्धयादिविषयत्वे प्रत्यक्षकप्रमाणवादो हीयत इत्यर्थः । अत्रोदाहरणमाह--

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92