Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 87
________________ षष्ठ समुद्देशः । तर्कस्येव व्याप्तिगोचरत्वे प्रमाणान्तरत्वम् अप्रमाणस्याव्यवस्थापकत्वात् ॥ ५९ ॥ सौगतादीनामिति शेषः । किञ्च प्रत्यक्षैकप्रमाणवादिना प्रत्यक्षाद्येकैकाधिक प्रमाणवादिभिश्च स्वसंवेदनेन्द्रियप्रत्यक्ष भेदोऽनुमान दिभेदश्च प्रतिभासभेदेनेव वक्तव्यो गत्यन्तराभावात् । स च तद्भेदो लौकायतिकंप्रति प्रत्यक्षानुमानयोरितरेषां व्याप्तिज्ञानप्रत्यक्षादिप्रमाणेष्विति सर्वेषां प्रमाणसंख्या विघटते । तदेव दर्शयति- ८५ प्रतिभासभेदस्य च भेदकत्वात् ॥ ६० ॥ इदानीं विषयाभासमुपदर्शयितुमाह- विषयाभासः सामान्यं विशेषो द्वयं वा स्वतंत्रम् ॥ ६१ ॥ कथमेषां तदाभासतेत्याह तथाऽप्रतिभासनात्कार्याकरणाच्च ।। ६२ ।। किञ्च तदेकान्तात्मकं तत्त्वं स्वयं समर्थमसमर्थं वा कार्यकारि स्यात् ? प्रथमपक्षे दूषणमाह समर्थस्य करणे सर्वदोत्पत्तिरनपेक्षत्वात् ॥ ६३ ॥ सहकारिसान्निध्यात् तत्करणान्नेति चेदाह - परापेक्षणे परिणामित्वमन्यथा तदभावात् ॥ ६४ ॥ वियुक्तावस्थायामकुर्वतः सहकारिसमवधानवेलायां कार्यकारिणः पूर्वोत्तराकारपरिहारावाप्तिस्थितिलक्षणपरिणामोपपत्तेरित्यर्थः । अन्यथा कार्यकारणाभावात् । प्रागभावावस्थायामेवेत्यर्थः । अथ द्वितीयपक्षदोषमाहस्वयमसमर्थस्य अकारकत्वात्पूर्ववत् ।। ६५ ।। अथ फलाभासं प्रकाशयन्नाह- फलाभासं प्रमाणादभिन्नं भिन्नमेव वा ॥ ६६ ॥ कुतः पक्षद्वयेऽपि तदाभासतेत्याशङ्कायामाद्यपक्षे तदाभासत्वे हेतुमाह -

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92