Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 88
________________ प्रमेयरत्नमाला। ... अभेदे तद्वयवहारानुपपत्तेः ॥ ६७ ॥ - फलमेव प्रमाणमेव वा भवेदिति भावः । व्यावृत्या संवृत्यपरनामधेयया तत्कल्पनाऽस्त्वित्याह--- व्याहत्याऽपि न तत्कल्पना फलान्तराद्यात्याऽफलत्वप्रसङ्गात् ॥ अयमर्थः-यथा फलाद्विजातीयात् फलस्य व्यावृत्त्या फलव्यवहारस्तथा फलान्तरादपि सजातीयाध्यावृत्तिरप्यस्तत्यिफलत्वम् । अत्रैवाभेदपक्षे दृष्टान्तमाह प्रमाणायावृत्त्येवाप्रमाणत्वस्येति ॥ ६९ ॥ अत्रापि प्राक्तन्येव प्रक्रिया योजनीया । अभेदपक्षं निराकृत्य आचार्य उपसंहरति-- तस्मादास्तवोऽभेद इति ॥ ७० ॥ भेदपक्षं दूषयन्नाह भेदे त्वात्मान्तरवत्तदनुपपत्तेः ॥ ७१ ॥ अथ यत्रैवात्मनि प्रमाणं समवेतं फलमपि तत्रैव समवेतमिति समवायलक्षणप्रत्यासत्या प्रमाणफलव्यवस्थितिरिति । नात्मान्तरे तत्प्रसंग इति वेत्तदपि न सूक्तमित्याह-- समवायेऽतिप्रसङ्ग इति ॥ ७२ ॥ समवायस्य नित्यत्वाध्यापकत्वाच्च सर्वात्मनामपि समवायसमानधर्मिकत्वान्न ततः प्रतिनियम इत्यर्थः । इदानीं स्वपरपक्षसाधनदूषणव्यवस्थामुपदर्शयति प्रमाणतदाभासौ दुष्टतयोद्भावितौ परिहतापरिहृतदोषौ वादिनः साधनतदाभासौ प्रतिवादिनो दृषणभूषणे च ॥७३॥ वादिना प्रमाणमुपन्यस्तं तच्च प्रतिवादिना दुष्टतयोद्भावितं पुनर्वादिना . परिहृतं तदेव तस्य साधनं भवति प्रतिवादिनश्च दूषणामिति । यदा तु वादिनी प्रमाणाभासमुक्तं प्रतिवादिना तथैवोद्भावितं वादिना चापरितं तदा

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92