Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
षष्ठसमुद्देशः ।
तद्वादिनः साधनाभासो भवति प्रतिवादिनश्च भूषणमिति । अथोक्तप्रकारेणाशेषविप्रतिपत्तिनिराकरणद्वारेण प्रमाणत्वं स्वप्रतिज्ञातं परीक्ष्य नयादितत्वमन्यत्रोक्तमिति दर्शयन्नाह -
सम्भवदन्यद्विचारणीयमिति ॥ ७४ ॥
सम्भवद्विद्यमानमन्यत्प्रमाणतत्त्वान्नयस्वरूपं शास्त्रान्तरप्रसिद्धं विचारणीयमिह युक्त्या प्रतिपत्तव्यम् । तत्र मूलनयौ द्वौ द्रव्यार्थिक पर्यायार्थिकभेदात् । तत्र द्रव्यार्थिकस्त्रेधा नैगमसंग्रहव्यवहारभेदात् । पर्यायार्थिकश्चतुर्धा ऋजुसूत्रशब्दसमभिरूढैवम्भूतभेदात् । अन्योऽन्यगुणप्रधानभूतभेदाभेद प्ररूपणो नगमः । नैकं गमो नैगम इति निरुक्तेः । सर्वथाऽभेदवादस्तदाभासः । प्रतिपक्षव्यपेक्षः सन्मात्रग्राही संग्रहः । ब्रह्मवादस्तदामासः । संग्रहगृहीतमेदको व्यवहारः । काल्पनिको भेदस्तदाभासः । शुद्धपर्यायग्राही प्रतिपक्षसापेक्ष ऋजुसूत्रः । क्षणिकैकान्तनयस्तदाभासः । कालकारकलिङ्गानां भेदाच्छब्दस्य कथञ्चिदर्थमेदकथनं शब्दनयः । अर्थभेदं विना शब्दानामव नानात्वैकान्तस्तदाभासः । पर्यायभेदात्पदार्थनानात्त्वनिरूपकः समभिरूढः । पर्यायनानात्वमन्तरेणापीन्द्रादिभेदकथनं तदाभासः । क्रियाश्रयेण भेदप्ररूपणमित्थम्भावः । क्रियानिरपेक्षत्वेन क्रियावाचकेषु काल्पनिको व्यवहारस्तदाभास इति । इति नयतदाभासलक्षणं संक्षेपेणोक्तं विस्तरेण नयचक्रात्प्रतिपत्तव्यम् । अथवा सम्भवद्विद्यमानमन्यद्वादलक्षणं पत्रलक्षणं वाऽन्यत्रोक्तमिह द्रष्टव्यं तथाचाह । समर्थवचनं वाद इति, प्रसिद्धावयवं वाक्यं स्वष्टस्यार्थस्य साधकम् । साधुगूढपदप्रायं पत्रमाहुरनाकुलम् ॥ १ ॥ इति ॥
परीक्षामुखमादर्श हेयोपादेयतस्त्वयोः ।
संविदे मादृशो बालः परीक्षादक्षवद्वयधाम् ॥ १ ॥ व्यधामकृतवानस्मि । किमर्थे ? संविदे । कस्य ! मादृशः । अहं च कथंभूत
८७

Page Navigation
1 ... 87 88 89 90 91 92