Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 90
________________ प्रमेयरत्नमाला। . इत्याह बालो मन्दमतिः । अनौद्धत्यसूचकं वचनमेतत् । तत्त्वज्ञत्वञ्च प्रारब्धनिर्वहणादेवावसीयते । किं तत् ? परीक्षामुखम् । तदेव निरूपयति आदशमिति । कयोः ? हेयोपादेयतत्वयोः । यथैवादर्श आत्मनोऽलङ्कारमण्डितस्य सौरूप्यं वैरूप्यं वा प्रतिबिम्बोपदर्शनद्वारेण सूचयति तथेदमपि हेयोपादेय तत्त्वं साधनदूषणोपदर्शनद्वारेण निश्चाययतीत्यादर्शत्वेन निरूप्यते । क इव'? परीक्षादक्षवत् परीक्षादक्ष इव, यथा परीक्षादक्षः स्वप्रारब्धशास्त्रं निरूढवाँस्तथाऽहमपीत्यर्थः ॥ अकलङ्कशशांकैर्यत्प्रकटीकृतमखिलमाननिभनिकरम् । तत्संक्षिप्तं मूरिभिरुरुमातिभिर्व्यक्तमेतेन ॥ १ ॥ इति परीक्षामुखलघुवृत्तौ प्रमाणाद्याभाससमुद्देशः षष्ठः ॥ ६ ॥ श्रीमान् वैजेयनामाभूदग्रणीर्गुणशालिनाम् । बदरीपालवंशालिव्योमामाणसर्जितः ॥ १ ॥ तदीयपत्नी भुविविश्रुतासीन्नाणाम्बनाम्ना गुणशीलसीमा । यां रेवतीति प्रथिताम्बिकेति प्रभावतीति प्रवदन्ति सन्तः ॥ २ ॥ तस्यामभूद्विश्वजनीनवृत्तिर्दानाम्बुवाहो भुवि हीरपाख्यः । स्वगोत्रविस्तारनभोंऽशुमाली सम्यक्त्वरत्नाभरणार्चिताङ्गः ॥ ३ ॥ तस्योपरोधवशतो विशदोरुकीर्तेर्माणिक्यनन्दिकृतशास्वमगाधबोधम् । स्पष्टीकृतं कतिपयैर्वचनैरुदौरैर्बालप्रबोधकरमेतदनन्तवीर्यैः ॥ ४ ॥ इति प्रमेयरत्नमालापरनामधेया परीक्षामुखलघुवृत्तिः समाप्ता ॥ SHRA समाप्त । Mor

Loading...

Page Navigation
1 ... 88 89 90 91 92