Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay
Catalog link: https://jainqq.org/explore/022451/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ DOOSE0D00000= Rohindon 30000 नमोऽनेकांताय। श्रीमदनंतवीर्यविरचिताप्रमेयरत्नमाला। (परीक्षामुखस्य टीका) HEEEK प्रकाशक: 0000000000000000000 00000000000000000000000 जैनसाहित्यप्रसारककार्यालयस्य सच्चाधिकारी बिहारीलाल कठनेरा जैनः। प्रथमावृत्तिः । श्रावण, वीर नि० सं०२४५३ ।। जुलाई, सन् १९२७ ई। मूल्यं द्वादशाणक.म्। Page #2 -------------------------------------------------------------------------- ________________ ०००००००G00000000000000000000००००००००००००००००००००००००००००००० ०००००००6००००००००G००००००००G००००००००G०००००००, सब जगहके छपे हुए सब तरहके जैनशास्त्र और हिन्दी पुस्तकें मिलनेका पता: बिहारीलाल कठनेरा जैन, मालिक-जैनसाहित्यप्रसारक कार्यालय, हीराबाग, पोष्ट गिरगांव, बम्बई । ००००००००००००००००G००००००००००००००००००००००० ०००००० 000000000000000०००००००००००००००००००००००००००००००००००००००० Page #3 -------------------------------------------------------------------------- ________________ प्रमेयरत्नमाला नतामरशिरोरत्न-प्रमाप्रोतनखत्विषे । नमो जिनाय दुवारमार्रवीरमदच्छिदे ॥ १ ॥ अकलङ्कवचोऽम्भोधेरुद्दधे येन धीमता । न्यायविद्यामृतं ___१ मंगलं द्विविधं मुख्यममुख्यं चेति । मुख्यमंगलं जिनेन्द्रगुणस्तोत्रममुख्यमंगलं दध्यक्षतादि । तत्र मुख्यमंगलं द्वधा निबद्धमनिबद्धं चति । तत्र निबद्धं स्वेन कृतमनिबद्धं परकृतम् । तदपि द्विविधं परापरभेदात् । आप्तनमस्कारः परमंगलं गुरुपरम्परानमस्कारोऽपरमंगलम् । २ जिनाय समस्तभगवदर्हत्परमेश्वरनिकुरम्बाय । नमो भूयात् । बहुविधविषमभवगहनभ्रमणकारणं दुष्कृतगणं जयतीति जिनः । त्रिकालगोचरपरमजिन इत्यर्थस्तस्मै । ३ दुर्वारमारवीरमदच्छिदे–मां लक्ष्मी "रातीति मारः लक्ष्मीदायकः मोक्षमार्गस्य नेतेति यावत् । विशेषेण ईर्ते सकलपदार्थजातं प्रत्यक्षीकरोतीति वीरः सर्वज्ञः विश्वतत्त्वानां ज्ञातेति यावत् । मारश्चासौ वीरश्च मारवीरः । मदं मानकषायं छिनत्ति विदारयतीति मदच्छित् । उपलक्षणमिदं कर्मभूभृतां भेत्तेत्ति यावत् । (मारवीरश्चासौ मदच्छिच्च मारवीरमदच्छित् । दुर्वारो वादिभिरजय्योऽप्रतिहतशक्तिरिति यावत् । दुर्वारश्चासौ मारवीरमदच्छिच्च दुरिमारवीरमदच्छित्तस्मै ) अथवा, मा प्रमेयपरिच्छेदकं केवलज्ञानमेव रविः अशेषप्रकाशकत्वात् । इरा मृदुमधुरगम्भीरनिरुपमहितदिव्यध्वनिः । मारविश्च इरा च मारवारे । दुर्वारे कुहेतुदृष्टान्तैर्निवारयितुमशक्ये मारवारे यस्य स तथोक्तः । मदेनोपलक्षिता रागादयस्तेन मदच्छिद्रागाद्यशेषदोषच्छिदिति निश्चीयते । ४ अकलंको भट्टोकलंकस्वामी अथवा न विद्यते अज्ञानादिकलंको यस्यासौ । अथवा अकलंकं च तद्वचन अकलंकवचः दिव्यध्वनिरित्यर्थः । ५ प्रशस्तविशालातिशयितज्ञानवता । प्रत्यक्षादिप्रमाणं न्यायः । अथवा, नयनिक्षेपप्रमाणात्मको न्यायः। Page #4 -------------------------------------------------------------------------- ________________ प्रमेयरत्नमाला। तस्मै नमो माणिक्यनन्दिने ॥ २ ॥ प्रभेन्दुवचनोदारचन्द्रिकाप्रसरे सति । मादृशाः क नु गण्यन्ते ज्योतिरिङ्गणसन्निभाः ॥ ३ ॥ तथाऽपि तद्वचोऽपूर्वरचनारुचिरं सताम् । चेतोहरं भृतं यद्वन्नद्या नवघटे जलम् ॥ ४ ॥ वैनेयप्रियपुत्रस्य हीरपस्योपरोधतः । शान्तिषेणार्थमारब्धा परीक्षामुखपञ्चिका ॥ ५ ॥ श्रीमन्न्यायावारपारस्यामेयप्रमेयरत्नसारस्यावगाहनमव्युत्पन्नैः कर्तुं न पार्यत इति तदवगाहनाय पोतप्रायमिदं प्रकरणमाचार्यः प्राह । तत्प्रकरणस्य च सम्बन्धादित्रयापरिज्ञाने सति प्रेक्षावती प्रवृत्तिनस्यादिति तत्रयानुवादपुरःसरं वस्तुनिर्देशपरं प्रतिज्ञोश्लोकमाह प्रमाणादर्थसंसिद्धिस्तदाभासाँद्विपर्ययः॥ इति वक्ष्ये तयोर्लक्ष्म सिद्धमल्प लधीयसः ॥ १॥ १ अहमिव दृश्यन्ते इति मादृशाः । २ खद्योतसदृशाः। ३ लक्षितस्य लक्षणमुपपद्यते न वेति विचारः परीक्षा । अथवा, स्वरूपं तदाभासः संख्या तदाभासः परीक्षा । अथवा, विरुद्धनानायुक्ति प्राबल्यदौर्बल्यावधारणाय प्रवर्तमानो विचारः परीक्षा । कारिका खल्पवृत्तिस्तु, सूत्रं सूचनकं स्मृतम् । टीका निरन्तरं व्याख्या, पञ्चिका पदभग्जिका ॥ १ ॥ ४ पूर्वापरविवररहितत्त्वलक्षणा श्रीः न्यायः प्रमाणात्मिका युक्तिः । ५ प्रमाणगोचरा जीवादिपदार्थाः । प्रमेयमेव रत्नानि प्रमेयरत्नानि । ६ परीक्षामुखस्य । ७ विचारवताम् । ८ उक्तस्य सार्थ पुनर्वचनमनुवादः। ९ प्रमाणतदाभासलक्षणाभिधेयकथनपरम् । १० वर्तमानस्याङ्गीकारः प्रतिज्ञा । ११ अत्र प्रमाणशब्दः कर्तृकरणभावसाधनः । तत्र प्रतिबन्धविगमविशेषवशात्स्क परप्रमेयस्वरूपं प्रमीयते यथावज्जानातीति प्रमाणमात्मा । साधकतमत्वादिति विवक्षायां तु प्रमीयते येन तत्प्रमाणं । प्रमितिमातं वा प्रमाणम् प्रतिबन्धापाये प्रादुर्भूतज्ञानपर्यायस्य प्राधान्येनाश्रयणात्प्रदीपादेः प्रभाभारात्मकप्रकाशवत् । १२ अर्थः स्याद्विषये मोक्षे शब्दवाच्ये प्रयोजने । व्यवहारे धने शास्त्रे वस्तुहेतुनिवृत्तिषु ॥१॥ अर्यते गम्यते ज्ञायते यः सोऽर्थः । १३ सम्यग्ज्ञानात्तन्न भवति इति तथापि -तदिवाभासते प्रतिभातीति तदाभासः । १४ स्वरुचिविरचितत्त्वदूषणपरिहारार्थ सिद्ध. मित्युच्यते । १५ कनिष्ठान्मन्दमतीनिति यावत् । । Page #5 -------------------------------------------------------------------------- ________________ प्रथमसमुद्देशः। - इत्यस्यार्थः---अहं वक्ष्ये प्रतिपादयिष्ये । किं तल्लक्ष्म, लक्षणम् । किं विशिष्टं लक्ष्म ? सिद्धं, पूर्वाचार्यप्रसिद्धत्वात् । पुनरपि कथंभूतं ? अल्पमल्पग्रन्थवाच्यत्वात् । ग्रन्थतोऽल्पमर्थतस्तु महदित्यर्थः । कान् ? लघीयसो विनेयानुद्दिश्य । लाघवं मतिकृतमिह गृह्यते न परिमाणकृतं नाऽपि कालकृतं तस्य प्रतिपाद्यत्वव्यभिचारात् । कयोस्तलक्ष्म ? तयोः प्रमाणतदाभासयोः । कुतः यतोऽर्थस्य परिच्छेद्यस्य संसिद्धिः संप्राप्ति तिर्वा भवति । कस्मात् ? प्रमाणात् । न केवलं प्रमाणादर्थसंसिद्धिर्भवति । विपर्ययो भवति । अर्थसंसिद्धयभावो भवति । कस्मात्तदाभासात् प्रमाणाभासात् । इतिशब्दो हेत्वर्थे इति हेतोः । अयमत्र समुदायार्थः । यतः कारणात्प्रमाणादर्थसंसिद्धिर्भवति । यस्माच्च तदाभासाद्विपर्ययो भवति । इति हेतोस्तयोः प्रमाणतदाभासयोर्लक्ष्म लक्षणमहं वक्ष्ये इति ॥ ननु सम्बन्धाभिधेयशक्यानुष्ठानेष्टप्रयोजनवन्ति हि शास्त्राणि भवन्ति । तत्रास्य प्रकरणस्य यावदभिधेयं सम्बन्धो वा नाभिधीयते न तावदस्योपादेयत्वं भवितुमर्हति । एष वन्ध्यासुतो यातीत्यादिवाक्यवत् । दशदाडिमादिवाक्यवच्च । तथा शक्यानुष्ठानेष्टप्रयोजनमपि शास्त्रादाववश्यं वक्तव्यमेव । अशक्यानुष्ठानस्येष्टप्रयोजनस्य सर्वज्वरहरतक्षचूडारस्नालङ्कारोपदेशस्येव प्रेक्षावद्भिरनादरणीयत्वात् । तथा शक्यानुष्ठानस्याप्यनिष्टप्रयोजनस्य विद्वद्भिरवधीरणान्मातृविवाहादिप्रदर्शकवाक्यवदिति । सत्यं, प्रमाण १ शिष्यत्व । २ प्रकृतस्यार्थस्यानुरोधेनोत्तरोत्तरस्य विधानं सम्बन्धः । सिद्धार्थ सिद्धसम्बन्धं श्रोतुं श्रोता प्रवर्तते । शास्त्रादौ तेन वक्तव्यः सम्बन्धः सप्रयोजनः ॥१॥ व्याख्याशुद्धिस्त्रिधा शास्ने स्थानमार्गप्रमेयतः । स्थानं त्रिधा द्विधा मार्गः प्रमेयं च त्रिधा विदुः॥२॥श्लोकस्यास्य व्याख्यानम्- तत्र पातनिकस्थानं द्विविधं सूत्रपातनिका ग्रन्थपातनिकेति । समर्थनस्थानं । विवरणस्थानमिति विधा । अन्वयमार्गः व्यतिरेकमार्ग इति मार्गो द्विधा । प्रकृतप्रमेय, प्रासंगिकप्रमेयं, भानुषंगिकप्रमेयमिति विधा। Page #6 -------------------------------------------------------------------------- ________________ प्रमेमरत्वयाला । तदामासपदोपादानादमिधेयममिहितमेव । प्रमाणतदाभासयोरनेन प्रकरणे. नामिधानात् । सम्बन्धश्चार्थायातः प्रकरणतदभिधेययोर्वाच्यवाचकमावलक्षणः प्रतीयत एव । तथा प्रयोजनं चोक्तलक्षणमादिश्लोकेनैव संलक्ष्यते, प्रयोजनं हि द्विधा मिद्यते । साक्षात्परम्परयति । तत्र साक्षात्प्रयोजनं वक्ष्ये इत्यनेनाभिधीयते । प्रथमं शास्त्रव्युत्पत्तरेव विनयैरन्वेषणात् । पारम्पर्येण तु प्रयोजनमर्थसंसिद्धिरित्यनेनोच्यते शास्त्रव्युत्पत्त्यनन्तरमावित्वादर्थसंसिद्धेरिति ॥ ननु निःशेषविघ्नोपशमनायेष्टदेवतानमस्कारः शास्त्रकृता कथं न कृत इति न वाच्यम् । तस्य मनःकायाभ्यामपि सम्भवात् । अथवा वाचनिकोऽपि नमस्कारोऽनेनैवादिवाक्येनाभिहितो वेदितव्यः । केषाञ्चिद्वाक्यानामुमयार्थप्रतिपादनपरत्वेनापि दृश्यमानत्वात् । यथा श्वेतो धावतीत्युक्ते वा इतो धावति श्वेतगुणयुक्तो धावति इत्यर्थद्वयप्रतीतिः । तत्रादिवाक्यस्य नमस्कारपरताभिधीयते । अर्थस्य हेयोपादेयलक्षणस्य संसिद्धिप्तिर्मवति । कस्मात् ? प्रमाणात्। अनन्तचतुष्टयस्वरूपान्तरङ्गलक्षणा, समवसरणादिस्वभावा बहिरङ्गलक्षणा लक्ष्मीर्मा इत्युच्यते । अणनर्माणः शब्दः मा च आणश्च माणौ प्रकृष्टौ माणौ यस्यासौ प्रमाणः । हरिहराद्यसम्मविविभूतियुक्तो दृष्टेष्टाविरुद्धवाक्च भगवानहन्नेवाभिधीयत इत्यसाधारणगुणोपदर्शनमेव भगवंतः संस्तवनमभिधीयते । तस्मात्प्रमाणादवधिभूतादर्थसंसिद्धिर्भवति तदाभासाच्च हरिहरादेरर्थसंसिद्धिर्न भवति । इति हेतोः सर्वज्ञतदाभासयोर्लक्ष्म लक्षणमहं वक्ष्ये- सामग्रीविशेषेत्यादिना । अथेदानीमुपक्षिप्तप्रमाणतत्त्वे १ अण्यते शब्द्यते येनासावाणः दिव्यध्वनिरित्यर्थः । प्रत्यक्ष परोक्षे अविरुद्धवाक यस्य सः । अर्थद्वारेण साधितभगवतोऽईत्साशात्सर्वशात्प्रथमकरणभूतात् फलमिति प्रतिपत्तिर्यथा प्रमाणाद्भिनमिति कापिलाः प्रमाणात्फलमभिन्नमिति सौगताः प्रमाणात्कथंचित्फलमभिन्नभिन्नमिति जैनाः। Page #7 -------------------------------------------------------------------------- ________________ प्रथमसमुरेशः। स्वरूपसंख्याविषयफललक्षणासु चतसृषु विप्रतिपत्तिषु मध्ये स्वरूपविप्रत्तिनिराकारणार्थमाह स्वापूर्वार्थव्यवसायात्मकं ज्ञानं प्रमाणमिति ॥१॥ प्रकर्षेण संशयादिव्यवच्छेदेन मीयते परिच्छिद्यते वस्तुतत्त्वं येन तत्प्रमाणम् । तस्य च ज्ञानमिति विशेषणमज्ञानरूपस्य सन्निकर्षादेनैयायि. कादि-परिकल्पितस्य प्रमाणत्वव्यवच्छेदार्थमुक्तम् । तथा ज्ञानस्यापि स्वसंवेदनेन्द्रियमनोयोगिप्रत्यक्षस्य निर्विकल्पकस्य प्रत्यक्षत्वेन प्रामाण्यं सौगतैः परिकल्पितं तन्निरासार्थ व्यवसायात्मकग्रहणम् । तथा बहिरापहोतॄणां विज्ञानाद्वैतवादिनां पुरुषाद्वैतवादिनां पश्यतोहराणां शून्यैकान्तवादिनां च विपर्यासव्युदासार्थमर्थग्रहणम् । अस्य चापूर्वविशेषणं गृहीतग्राहिधारावाहि . .. १ स्वरूपसंख्याविषयफललक्षणाश्चतस्रो विप्रतिपत्तयः । सम्प्रति तासां मध्ये स्वरूपविप्रतिपत्तिर्यथा स्वापूर्वार्थव्यवसायात्मकं ज्ञानं प्रमाणमित्याहताः । इन्द्रियप्रवृत्तिः प्रमाणमिति कापिलाः । प्रमातृव्यापारः प्रमाणमिति प्राभाकराः । अनधिगतार्थ प्रमाणमिति भाटाः । अविसंवादि विज्ञानं प्रमाणमिति सौगताः । प्रमाकरण प्रमाणमिति यौगाः । कारकसाकल्यं प्रमाणमिति जयन्ताः । ___ संख्याविप्रतिपत्तिर्यथा—प्रत्यक्षमेकं चार्वाकाः कारणात्सौगताः पुनः । अनुमान च तच्चैव सांख्याः शब्दं च ते अपि ॥ १॥ न्यायैकदेशिनोऽप्येवमुपमानं च केन च। अर्थापत्या सहैतानि चत्वार्याहुः प्रभाकराः ॥ २ ॥ अभावषष्ठान्येतानि भाहा वेदान्तिनस्तथा। सम्भवैतिह्ययुक्तानि तानि पौराणिका जगुः ॥ ३ ॥ एतत्सर्वे युकं. सम्भवति प्रत्यक्षपरोक्षभेदात् द्विविधं प्रमाणमिति जैना वदन्ति । विषयविप्रतिपत्तिर्यथा-प्रमाणतत्वस्य सामान्यमेव विषयो न पुनर्विशेष इति कापिलाः पुरुषाद्वैतवादिनश्च । विशेषमेव विषयो न पुनः सामान्यमिति बौद्धाः । सामान्यं विशेषश्च द्वयमपि स्वतन्त्रभावेन विषय इति योगाः । सामान्यं विशेषश्चाभेदेन विषय इति मीमांसकाः । २ ज्ञायतेऽनेनेति ज्ञानं शप्तिर्वा ज्ञानम् । ३ षष्ठी वा नादरे इति षष्ठी । Page #8 -------------------------------------------------------------------------- ________________ 2 प्रमेयरत्नमाला | ज्ञानस्य प्रमाणतापरिहारार्थमुक्तम् । तथा परोक्षज्ञानवादिनां मीमांसकानामस्वसंवेदनज्ञानवादिनां सांख्यानां ज्ञानान्तर प्रत्यक्षज्ञानवादिनां यौगानां च मतमपाकर्तुं स्वपदोपादानमित्यव्यात्यतिव्याप्त्यसम्भवदोषपरिहारात् सुव्यवस्थितमेव प्रमाणलक्षणम् । अस्य च प्रमाणस्य यथोक्तलक्षणत्वे साध्ये प्रमाणत्वादिति हेतुरत्रैव द्रष्टव्यः । प्रथमान्तस्यापि हेतुपरत्वेन निर्देशोपपत्तेः । प्रत्यक्षं विशदं ज्ञानमित्यादिवत् । तथाहि — प्रमाणं स्वापूर्वार्थव्यवसायात्मकं ज्ञानं भवति प्रमाणत्वात् । यत्तु स्वापूर्वार्थव्यवसायात्मकं ज्ञानं न भवति न तत्प्रमाणम् । यथा संशयादिर्घटादिश्च । प्रमाणं च विवादापन्नम् । तस्मात्स्वाषूर्वार्थव्यवसायात्मकं ज्ञानमेव भवतीति । न च प्रमाणत्वमसिद्धम् । सर्वप्रमाणस्वरूपवादिनां प्रमाणसामान्ये विप्रतिपत्त्यभावात् । अन्यथा स्वेष्टानिष्टसाधनदूषणायोगात् । अथ धर्मिण एव हेतुत्वे प्रतिज्ञार्थैकदेशासिद्धो हेतुः स्यादिति चेन्न । विशेषं धर्मिणं कृत्वा सामान्य हेतुं ब्रुवतां दोषाभावात् । एतेनापक्षधर्मत्वमपि प्रत्युक्तम् । सामान्यस्याशेषविशेषनिष्ठत्वात् । न च पक्षधर्मताबलेन हेतोर्गमकत्वमपि त्वन्यथानुपपत्तिबलेनेति । सा चात्र नियमवती विपक्षे बाधकप्रमाणबलान्निश्चितैव । एतेन विरुद्धत्वमनैकान्तिकत्वं च निरस्तं बोद्धव्यम् । विरुद्धस्य व्यभिचारिणश्चाविनाभांवनियमनिश्चयलक्षणत्वायोगादतो भवत्येव साध्यसिद्धिरिति केवलव्यतिरेकिणोऽपि हेतोर्गमकत्वात् । सात्मकं जीवच्छरीरं प्राणादिमत्वादितिवत् ॥ अथेदानीं स्वोक्तप्रमाणलक्षणस्य ज्ञानमिति विशेषणं समर्थयमानः प्राहहिताहितप्राप्तिपरिहारसमर्थ हि प्रमाणं, ततो ज्ञानमेव तदिति । २ । w हितं सुखं तत्कारणं च । अहितं दुःखं तत्कारणं च । हितं चाहितं च हिताहिते । तयोः प्राप्तिश्च परिहारश्च तत्र समर्थम् । हिशब्दो यस्मादर्थे । तेनायमर्थः सम्पादितो भवति । यस्माद्धिताहितप्राप्तिपरिहारसमर्थ प्रमाणं Page #9 -------------------------------------------------------------------------- ________________ प्रथमसमुद्देशः । ततस्तत्प्रमाणत्वेनाभ्युपगतं वस्तु ज्ञानमेव भवितुमर्हति नाज्ञानरूपं सन्निकर्षादि । तथा च प्रयोगः प्रमाणं ज्ञानमेव हिताहितप्राप्तिपरिहारसमर्थत्वात् ॥ यत्तु न ज्ञानं तन्न हिताहितप्राप्तिपरिहारसमर्थम् । यथा घटादि । हिताहितप्राप्तिपरिहारसमर्थं च विवादापन्नम् । तस्मात् ज्ञानमेव भवतीति । नचैतदसिद्धं । हितप्राप्तयेऽहितपरिहाराय च प्रमाणमन्वेषयन्ति प्रेक्षापूर्वकारिणो न व्यसनितया सकलप्रमाणवादिभिरभिमतत्त्वात् । अत्राह सौगतः -- भवतु नाम सन्निकर्षादिव्यवच्छेदेन ज्ञानस्यैव प्रामाण्यं न तदस्माभिर्निषिध्यते । तत्तु व्यवसायात्मकमेवेत्यत्र न युक्तिमुत्पश्यामः । अनुमानस्यैव व्यवसायात्मनः प्रामाण्याभ्युपगमात् । प्रत्यक्षस्य तु निर्विकल्पhasta विसंवादकः न प्रामाण्योपपत्तेरिति तत्राह - तनिश्चयात्मकं समारोपविरुद्धत्वादनुमानवदिति ॥ ३ ॥ तत् प्रमाणत्वेनाभ्युपगतं वस्त्विति धर्मिनिर्देशः । व्यवसायात्मकमिति साध्यम् । समारोपविरुद्धत्वादिति हेतुः । अनुमानवदिति दृष्टान्त इति ॥ अयमभिप्रायः—–संशयविपर्यासानध्यवसायस्वभावसमारोपविरोधिग्रहणलक्षणव्यबसायात्मकत्वे सत्येवाविसंवादित्वमुपपद्यते । अविसंवादित्वे च प्रमाणत्वमिति चतुर्विधस्यापि समक्षस्य प्रमाणत्वमभ्युपगच्छता समारोपविरोधिग्रहणलक्षणं निश्चयात्मकमभ्युपगन्तव्यम् ॥ ननु तथापि समारोपविरोधिव्यवसायात्मकत्वयोः समानार्थकत्वात् कथं साध्यसाधनभाव इति न मन्तव्यम् । ज्ञानस्वभावतया तयोरभेदेऽपि व्याप्यव्यापकत्वधर्माधारतया भेदोपपत्तेः । शिशपात्ववृक्षत्ववत् ॥ अथेदानीं सविशेषणमर्थग्रहणं समर्थयमानस्तदेव स्पष्टीकुर्वन्नाह - 'अनिश्चितोऽपूर्वार्थ इति ॥ ४ ॥ यः प्रमाणान्तरेण संशयादिव्यवच्छेदेनानध्यवसितः सोऽपूर्वार्थः । तेनेहादिज्ञानविषयस्यावग्रहादिगृहीतत्वेऽपि न पूर्वार्थत्वम् । अवग्रहादिविषय Page #10 -------------------------------------------------------------------------- ________________ प्रमेयरलमाला भूतावान्तरविशेषनिश्चयाभावात् ॥ अथोक्तप्रकार एवापूर्वार्थः किमन्योऽप्यस्तीत्याह दृष्टोऽपि समारोपात्तागिति ॥५॥ दृष्टोऽपि गृहीतोऽपि न केवलमनिश्चित एवेत्यपिशब्दार्थः । तादृगपूर्वार्थों मवति । समारोपादिति हेतुः । एतदुक्तं भवति-गृहीतमपि ध्यामालिताकारतया यनिर्णेतुं न शक्यते तदपि वस्त्वपूर्वमिति व्यपदिश्यते प्रवृत्तसमारोपाव्यवच्छेदात् ॥ ननु भवतु नामापूर्वार्थव्यवसायात्मकत्वं विज्ञानस्य स्वव्यवसायं तु न विन इत्यत्राह स्वोन्मुखतया प्रतिभासनं स्वस्य व्यवसाय इति ॥६॥ स्वस्योन्मुखता स्वोन्मुखता तया स्वोन्मुखतया स्वानुभवतया प्रतिमासनं स्वस्य व्यवसायः ॥ अत्र दृष्टान्तमाह . अर्थस्येव तदुन्मुखतयेति ॥ ७॥ तच्छब्देनार्थोऽमिधीयते । यथाऽर्थोन्मुखतया प्रतिभासनमर्थव्यवसायस्तथा स्वोन्मुखतया प्रतिभासनं स्वस्य व्यवसायो भवति ॥ अत्रोल्लेखमाह ___ . घटमहमात्मना वेग्रीति ॥ ८॥ ननु ज्ञानमर्थमेवाध्यवस्यति न स्वात्मानम् । आत्मानं फलं वेति केचित् । कर्तृकर्मणोरेव प्रतीतिरित्यपरे । कर्तृकर्मक्रियाणामेव प्रतीतिरित्यन्ये । तेषां मतमखिलमपि प्रतीतिबाधितामति दर्शयन्नाह कर्मवत्कर्तृकरणक्रियामतीतेरिति ॥ ९॥ ज्ञानविषयभूतं वस्तु कर्माभिधीयते । तस्यैव ज्ञप्तिक्रियया व्याप्यत्वात् । तस्येव तद्वत् । कर्ता आत्मा । करणं प्रमाणम् । क्रिया प्रमितिः । कर्ता च करणं च क्रिया च तासां प्रतीतिः तस्या इति हेतो का, प्रागुक्तानुभवो Page #11 -------------------------------------------------------------------------- ________________ लेखे यथाक्रमं तत्प्रतीतिर्द्रष्टव्या ॥ ननु शब्दपरामर्शसचिवेयं प्रतीतिर्न वस्तुत्वबलोपजातेत्यत्राह शब्दानुच्चारणेऽपि स्वस्पानुभवनमर्थवदिति ॥ १० ॥ __ यथा घटादिशब्दानुच्चारणेऽपि घटाद्यनुभवस्तथाऽहमहमिकया योऽयमन्तर्मुखाकारतयावमासः स शब्दानुच्चारणेऽपि स्वयमनुभ्यत इत्यर्थः ॥ अमुमेवार्थमुपपत्तिपूर्वकं परंप्रति सोल्लुण्ठमाचष्टेको वा तत्सतिभासनमर्थमध्यक्षमिच्छंस्तदेव तथा नेच्छेत् ॥११॥ __ को वा लौकिकः परीक्षको वा । तेन ज्ञानेन प्रतिमासितुं शीलं यस्य स तथोक्तस्तं प्रत्यक्षविषयमिच्छन् विषयिधर्मस्य विषये उपचारात् तदेव ज्ञानमेव तथा प्रत्यक्षत्वेन नेच्छेत् अपि विच्छेदेव । अन्यथा अप्रामाणिकत्वप्रसङ्गः स्यादित्यर्थः ॥ अत्रोदाहरणमाह प्रदीपवदिति ॥ १२॥ इदमत्र तात्पर्यम्-ज्ञानं स्वावभासने स्वातिरिक्तसजातीयार्थान्तरानपेक्षं प्रत्यक्षार्थगुणत्वे सति अदृष्टानुयायिकरणत्वात्प्रदीपमासुराकारवत् ॥ अथ भवतु नामोक्तलक्षणलक्षितं प्रमाणं, तथापि तत्प्रामाण्यं स्वतः परतो वा ? न तावत्स्वतः अविप्रतिपत्तिप्रसङ्गात् । नापि परत:-अनवस्थाप्रसङ्गादिति मतद्वयमाशंक्य तन्निराकरणेन स्वमतमवस्थापयन्नाह तत्मामाण्यं स्वतः परतश्चेति ॥ १३॥ सोपस्काराणि हि वाक्यानि भवन्ति । तत इदं प्रतिपत्तव्यं अभ्यासदशायां स्वतोऽनभ्यासदशायां च परत इति । तेन प्रागुक्तैकान्तद्वयनिरासः। नचानभ्यासदशायां परतः प्रामाण्येऽप्यनवस्था समाना, ज्ञानान्तरस्याभ्यस्तविषयस्य स्वतः प्रमाणभूतस्याङ्गीकरणात् । अथवा प्रामाण्यमुत्पत्तौ परत एव । विशिष्टकारणप्रमत्त्वाद्विशिष्टकार्यस्योत । विषयपरिच्छत्तिलक्षणे प्रवृत्ति Page #12 -------------------------------------------------------------------------- ________________ प्रमेयरत्नमाला। लक्षणे वा स्वकाय अभ्यासेतरदशापेक्षया कचित्स्वतः परतश्चेति निश्चीयते ॥ ननूत्पत्तौ विज्ञानकार णातिरिक्तकारणान्तरसव्यपेक्षत्वमसिद्धम् । प्रामाण्यस्य तदितरस्यैवाभावात् । गुणाख्यमस्तीति वाङ्मात्रं, विधिमुखेन कार्यमुखेन वा गुणानामप्रतीतेः । नाप्यप्रामाण्यं स्वत एव प्रामाण्यं तु परत एवेति विपर्ययः शक्यते कल्पयितुम् । अन्वयव्यतिरेकाभ्यां हि त्रिरूपालिङ्गादेव केवलात् प्रामाण्यमुत्पद्यमानं दृष्टम् । प्रत्यक्षादिष्वपि तथैव प्रतिपत्तव्यं नान्यथेति । तत एवाऽऽप्तोक्तत्वगुणसद्भावेऽपि न तत्कृतमागमस्य प्रामाण्यम् । तत्रहि गुणेभ्यो दोषाणामभावस्तदभावाच्च संशयविपर्यासलक्षणाप्रामाण्यद्वयासत्त्वेऽपि प्रामाण्यमौत्सर्गिकमनपादितमास्त एवेति । ततः स्थितं प्रामाण्यमुत्पत्तौ न सामग्र्यन्तरसापेक्षमिति । नापि विषयपरिच्छित्तिलक्षणे स्वकार्ये स्वगृहणसापेक्षम् । अगृहीतप्रामाण्यादेव ज्ञानाद्विषयपरिच्छित्तिलक्षणकार्यदर्शनात् ॥ ननु न परिच्छित्तिमात्रं प्रमाणकार्य तस्य मिथ्याज्ञानेऽपि सद्भावात् । परिच्छित्तिविशेषं तु नागृहीतप्रामाण्यं विज्ञानं जनयतीति । तदपि बालविलसितम् । नहि प्रामाण्यग्रहणोत्तरकालमुत्पत्त्यवस्थातः परिच्छित्तेर्विशेषोऽवभासते, गृहीतप्रामाण्यादपि विज्ञानान्निविशेषविषयपरिच्छेदोपलब्धेः ॥ ननु परिच्छत्तिमात्रस्य शुक्तिकायां रजतज्ञानेऽपि सद्भावात्तस्यापि प्रमाणकार्यत्वप्रसङ्ग इति चेत्- मवेदेवं, यद्यर्थान्यथात्वप्रत्ययस्वहेतूत्थदोषज्ञानाभ्यां तनापोद्यत । तस्माद्यत्र कारणदोषज्ञानं बाधकप्रत्ययो वा नोदेति, तत्र स्वत एव प्रामाण्यमिति । नचैवमप्रामाण्येऽप्याशङ्कनीयं, तस्य विज्ञानकारणातिरिक्तदोषस्वभावसामग्रीसव्यपेक्षतयोत्पत्तेः निवृत्तिलक्षणे च स्वकार्ये स्वग्रहणसापेक्षत्वात् । तद्धि यावन्न ज्ञानं न तावत्स्वविषयात्पुरुषं निवर्तयतीति ॥ तदेतत्सर्वमनल्पतमोविलसितम् । तथाहि- न तावत्प्रामाण्यस्योत्पत्तौ सामग्रयन्तरापेक्षत्वमसिद्धम् । आप्तप्रणीतत्वलक्षणगुणसन्निधाने सत्येवाप्त Page #13 -------------------------------------------------------------------------- ________________ प्रथमसमुद्देशः। प्रणीतवचनेषु प्रामाण्यदर्शनात् । यद्भावाभावाभ्यां यस्योत्पत्यनुत्पत्ती तत् तत्कारणकमिति लोकेऽपि सुप्रसिद्धत्वात् । यदुक्तम्-" विधिमुखेन कार्यमुखेन वा गुणानामप्रतीतिरिति” तत्र तावदाप्तप्रणीतशब्दे न प्रतीतिगुणानामित्ययुक्तं आप्तप्रणीतत्त्वहानिप्रसङ्गात् । अथ चक्षुरादौ गुणानामप्रतीतिरित्युच्यते तदप्ययुक्तम् । नैर्मल्यादिगुणानामबलाबालादिभिरप्युपलब्धेः । अथ नैर्मल्यं स्वरूपमेव न गुणः तर्हि हेतोरविनाभाववैकल्यमपि स्वरूपविकलतैव न दोष इति समानम् । अथ तद्वैकल्यमेव दोषः तर्हि लिङ्गस्य चक्षुरादेर्वा तत्स्वरूपसाकल्यमेव गुणः कथं न भवेत् ? आप्तोक्तेऽपि शब्दे मोहादिलक्षणस्य दोषस्यामावमेव यथार्थज्ञानादिलक्षणगुणसद्भावमभ्युपगच्छन्नन्यत्र तथा नेच्छतीति कथमनुन्मत्तः ? अथोक्तमेव- शब्दे गुणाः सन्तोऽपि न प्रामाण्योत्पत्तौ व्याप्रियन्ते किन्तु दोषाभाव एवेति । सत्यमुक, किन्तु न युक्तमेतत् । प्रतिज्ञामात्रेण साध्यसिद्धरयोगात् । नहि गुणेभ्यो दोषाणामभाव इत्यत्र किञ्चिन्निबन्धनमुत्पश्यामोऽन्यत्र महामोहात् । अथानुमानेऽपि त्रिरूपलिङ्गमात्रजनितप्रामाण्योपलब्धिरेव तत्र हेतुरिति चेन्न । उक्तोत्तरत्वात् । तत्र हि त्रैरूप्यमेव गुणो यथा तद्वैकल्यं दोष इति नासमतो हेतुः । अपि चाप्रामाण्येऽप्येवं वक्तुं शक्यत एव । तत्र हि दोषेभ्यो गुणानामभावस्तदभावाच्च प्रामाण्यासत्त्वे अप्रामाण्यमौत्सर्गिकमास्त इत्यप्रामाण्यं स्वत एवेति तस्य मिन्नकारणप्रभवत्ववर्णनमुन्मत्तभाषितमेव स्यात् । किञ्च गुणेभ्यो दोषाणामभाव इत्यभिदधता गुणेभ्यो गुणा एवेत्यभिहितं स्यात् । भावान्तरस्वभावत्वादभावस्य । ततोऽप्रामाण्यसत्त्वं प्रामाण्यमेवेति नैतावता परपक्षप्रतिक्षेपः । अविरोधकत्त्वात् । तथा अनुमानतोऽपि गुणाः प्रतीयन्त एव, तथाहि- प्रामाण्यं विज्ञानकारणातिरिक्तकारणप्रभवं, विज्ञानान्यत्त्वे सति कार्यत्वात् अप्रामाण्यवत् । तथा प्रमाणप्रामाण्ये भिन्नकारण Page #14 -------------------------------------------------------------------------- ________________ १२ प्रमेवरत्नमाला। जन्ये, मिन्नकार्यत्वात् । घटवस्त्रवदिति च । ततः स्थित प्रामाण्यमुत्पत्तौ परापेक्षामिति । तथा विषयपरिच्छित्तिलक्षणे प्रवृत्तिलक्षणे वा स्वकार्ये स्वग्रहणं नापेक्षत इति नैकान्तः कचिदभ्यस्तविषय एव परानपेक्षत्व. व्यवस्थानात् । अनभ्यस्ते तु जलमरीचिकासाधारणप्रदेशे जलज्ञान परापेक्षमेव । सत्यमिदं जलं, विशिष्टाकारधारित्वात् घटचेटिकापेटकदर्दुरारावसरोजगन्धवत्त्वाच्च, परिदृष्टजलवदित्यनुमानज्ञानादर्थक्रियाज्ञानाच, स्वतःसिद्धप्रामाण्यात्प्राचीनज्ञानस्य यथार्थत्वमाकल्पमवकल्प्यत एव ॥ यदप्यभिहितं प्रामाण्यग्रहणोत्तरकालमुत्पत्त्यवस्थातः परिच्छित्तेर्विशेषो नावभासंत इति । तत्र यद्यभ्यस्तविषये नावभासत इत्युच्यते तदा तदिष्यत एव । तत्र प्रथममेव निःसंशयं विषयपरिच्छत्तिविशेषाभ्युपगमात् । अनभ्यस्तविषये तु तद्ग्रहणोत्तरकालमस्त्येव विषयावधारणस्वभावपरिच्छत्तिविशेषः । पूर्व प्रमाणाप्रमाणसाधारण्या एव परिच्छित्तेरुत्पत्तेः । ननु प्रामाण्यपरिच्छित्त्यारेभेदात्कथं पौर्वापमिति ? नैवम् । नहि सर्वाऽपि परिच्छित्तिः प्रामाण्यामिका, प्रामाण्यं तु परिच्छित्त्यात्मकमेवेति न दोषः । यदप्युक्तम्- बाधककारणदोषज्ञानाभ्यां प्रामाण्यमपोद्यत इति- तदपि फल्गुभाषितमेव । अप्रामाण्येऽपि तथा वक्तुं शक्यत्वात् । तथाहिप्रथममप्रमाणमेव ज्ञानमुत्पद्यते पश्चादबाधबोधगुणज्ञानोत्तरकालं तदपोद्यत इति । तस्मात्प्रामाण्यमप्रामाण्यं वा स्वकार्ये कचिदभ्यासानभ्यासापेक्षया स्वतः परतश्चेति निर्णेतव्यमिति ॥ देवस्य सम्मतमपास्तसमस्तदोषं वीक्ष्य प्रपञ्चरुचिरं रचितं समस्य । माणिक्यनन्दिविभुना शिशुबोधहेतोर्मानस्वरूपममुना स्फुटमभ्यधायि ॥ १॥ इति परीक्षामुखलघुवृत्तौ प्रमाणस्य स्वरूपोद्देशः ॥ १॥ Page #15 -------------------------------------------------------------------------- ________________ अथ प्रमाणस्वरूपविप्रतिपत्तिं निरस्येदानी संख्याविप्रतिपर्ति प्रतिक्षिपन्सकलप्रमाणमेदसन्दर्मसंग्रहपरं प्रमापोयत्ताप्रतिपादकं वाक्यमाह क्षेति ॥१॥ तच्छब्देन प्रमाणं परामृश्यते । तत्प्रमाणं स्वरूपेणावगतं द्वधा छिप्रकारमेव । सकलप्रमाणभेदानामत्रैवान्तावात् ॥ तद्वित्त्वमध्पक्षानुमानप्रकारेणापि सम्भवतीति तदाशकानिराकरणार्थ सकलप्रमाणमेदसंग्रहशालिनी संख्या प्रत्यक्तीकरोति . प्रत्यक्षतरभेदादिति ॥ २॥ प्रत्यक्षं वक्ष्यमाणलक्षणं, इतरत्परोक्षं, ताभ्यां भेदात्प्रमाणस्येति शेषः । न हि परपरिकल्पितैकद्वित्रिचतुःपञ्चषट्प्रमाणसंख्यानियमे निखिलप्रमाणमेदानामन्तर्भावविभावना शक्या कर्तुम् । तथाहि-प्रत्यक्षैकप्रमाणवादिनश्चावाकस्य नाध्यक्षे लैङ्गिकस्यान्तर्भावो युक्तः तस्य तद्विलक्षणत्वात् । सामग्रीस्वरूपभेदात् ॥ अथ नाप्रत्यक्षं प्रमाणमस्ति विसंवादसम्भवात् । निश्चिताविनाभावाल्लिङ्गालिङ्गिनि ज्ञानमनुमानमित्यानुमानिकशासनं, तत्र च स्वभावलिङ्गस्य बहुलमन्यथाऽपि भावो दृश्यते । तथाहि कषायरसोपेतानामामलकानामेतद्देशकालसम्बधिनां दर्शनेऽपि देशान्तरे कालान्तरे द्रव्यान्तरसम्बन्धे च अन्यथाऽपि दर्शनात्स्वभावहेतुर्व्यभिचार्येव लताच्यूतवल्लताशिंशपादिसम्भावनाच ॥ तथा कार्यलिङ्गमपि गोपालघटिकादौ धूमस्य शक्रमूर्ध्नि चान्यथाऽपि मावात्पावकव्यभिचार्येव । ततः प्रत्यक्षमेवैकं प्रमाणमस्यैवाविसंवादकत्त्वादिति । तदेतद्बालविलसितमिवाभात्युपपत्तिशून्यत्त्वात् । तथाहि- किमप्रत्यक्षस्योत्पादककारणाभावादालम्बनामावाद्वा प्रामाण्यं निषिध्यते ? तत्र न तावत्प्राक्तनः पक्षः। तदुत्पादकस्य सुनिश्चितान्यथानुपपत्तिनियतनिश्चयलक्षणस्य साधनस्य सद्भावात् । नो खल्वप्युदीचीनः पक्षः । तदालम्ब Page #16 -------------------------------------------------------------------------- ________________ १४ प्रमेयरत्नमाला। नस्य पावकादेः सकलविचारचतुरचेतास सर्वदा प्रतीयमानत्त्वात् ॥ यदपि स्वभावहेतोर्व्यभिचारसम्भावनमुक्तम् । तदप्यनुचितमेव- स्वभावमात्रस्याहेतुत्त्वात् । व्याप्यरूपस्यैव स्वभावस्य व्यापकम्प्रति गमकत्वाभ्युपगमात् । न च व्याप्यस्य , व्यापकव्याभिचारित्वं व्याप्यत्त्वविरोधप्रसङ्गात् ॥ किञ्च एवं-वादिनो नाध्यक्ष प्रमाणं व्यवतिष्ठते । तत्राप्यसंवादस्यागौणत्त्वस्य च प्रामाण्याविनामावित्वेन निश्चेतुमशक्यत्त्वात् । यच्च कार्यहेतोरप्यन्यथापि सम्भावनं तदप्यशिक्षितलक्षितं सुविवेचितस्य कार्यस्य कारणव्यभिचारित्त्वात् । यादृशो हि धूमो ज्वलनकार्य भूधरनितम्बादावतिबहलधवलतया प्रसर्पन्नुपलभ्यते, न तादृशो गोपालघटिकादाविति ॥ यदप्युक्तम् “ शक्रमूर्द्धनि धूमस्यान्यथापि भाव इति" तत्र किमयं शक्रमूर्धा अग्निस्वभावोऽन्यथा वा ? यद्यग्निस्वभावस्तदाग्निरेवेति कथं तदुद्भूतधूमस्यान्यथाभावः शक्यते कल्पयितुम् । अथानग्निस्वभावस्तदा तदुद्भवो धूम एव न भवतीति कथं तस्य तद्व्यभिचारित्वमिति । तथाचोक्तम्-अग्निस्वभावः शक्रस्य मूर्द्धा चेदग्निरेव सः । अथानग्निस्वभावोऽसौ धूमस्तत्र कथं भवेदिति ॥ १ ॥ किञ्च प्रत्यक्षं प्रमाणमिति कथमयं परं प्रतिपादयेत् । परस्य प्रत्यक्षेण गृहीतुमशक्यत्वात् । व्याहारादिकार्यप्रदर्शनात्तं प्रतिपद्यतेति चेत्-आयातं तर्हि कार्यात्करणानुमानम् । अथ लोकव्यवहारापेक्षयेष्यत एवानुमानमपि, परलोकादावेवानभ्युपगमात्तदभावादिति । कथं तदभावोऽनुपलब्धेरिति चेत्- तदाऽनुपलब्धिलिङ्गजनितमनुमानमपरमापतितमिति ॥ प्रत्यक्षप्रामाण्यमपि स्वभावहेतुजातानुमितिमन्तरेण नोपपत्तिमियर्तीति प्रागेवोक्तमित्युपरम्यते ॥ यदप्युक्तं धर्मकीर्तिना-प्रमाणेतरसामान्यस्थितेरन्यधियो गतः । प्रमाणान्तरसद्भावः प्रतिषेधाच्च कस्यचिदिति ॥ २ ॥ ततः प्रत्यक्षमनुमानमिति प्रमाणद्वयमेवेति सौगतः । सोऽपि न युक्तवादी । स्मृतेरविसं Page #17 -------------------------------------------------------------------------- ________________ द्वितीयसमुद्देशः। वादिन्यास्तृतीयायाः प्रमाणयतायाः सद्भावात् । न च तस्या विसंवादादप्रामाण्यम् । दत्तग्रहादिविलोपापत्तेः । अथानुभूयमानस्य विषयस्याभावात् स्मृतेरप्रामाण्यं, न, तथापि अनुभूतेनार्थेन सालम्बनत्वोपपत्तेः । अन्यथा प्रत्यक्षस्याप्यनुभूतार्थविषयत्वादप्रामाण्यमनिवार्य स्यात् स्वविषयावभासनं स्मरणे - प्यवशिष्टमिति । किञ्च स्मृतरप्रामाण्येऽनुमानवार्ताऽपि दुर्लभा । तया व्याप्तेरविषयीकरणे तदुत्थानायोगादिति ॥ तत इदं वक्तव्यम्--" स्मृतिः प्रमाणम् , अनुमानप्रामाण्यान्यथानुपपत्तेरिति” सैव प्रत्यक्षानुमानस्वरूपतया प्रमाणस्य द्वित्वसंख्यानियमं विघटयतीति किं नश्चिन्तया ॥ तथा प्रत्यभिज्ञानमपि सौगतीयप्रमाणसंख्यां विघटयत्येव । तस्यापि प्रत्यक्षानुमानयोरनन्तर्भावात् । ननु तदिति स्मरणमिदमिति प्रत्यक्षमिति ज्ञानद्वयमेव । न ताभ्यां विभिन्न प्रत्यभिज्ञानाख्यं वयं प्रतिपद्यमानं प्रमाणान्तरमुपलभामहे । ततः कथं तेन प्रमाणसंख्याविघटनमिति तदप्यघटितमेव । यतः स्मरणप्रत्यक्षाभ्यां प्रत्यभिज्ञानविषयस्यार्थस्य गृहीतुमशक्यत्वात् । पूर्वोत्तरविवर्तवर्येकद्रव्यं हि. प्रत्यभिज्ञाविषयः । न च तत्स्मरणेनोपलभ्य(क्ष्य)ते तस्यानुभूतविषयत्वात् । नापि प्रत्यक्षेण तस्य वर्तमानविवर्तवर्तित्वात् ॥ यदप्युक्तम्-" ताभ्यां भिन्नमन्यत् ज्ञानं नास्तीति ।" अभेदपरामर्शरूपतया भिन्नस्यैवावमासनात् । न च तयोरन्यतरस्य वा भेदपरामर्शकत्वमस्ति विभिन्नविषययत्वात् । न चैतत्प्रत्यक्षेऽ. न्तर्भवत्यनुमाने वा तयोः पुरोऽवस्थितार्थविषयत्वेनाविनाभूतलिङ्गसम्मावितार्थविषयत्वेन च पूर्वापरविकारव्याप्येकत्वाविषयत्वात् । नापि स्मरणे, तेनापि तदेकत्वस्याविषयीकरणात् ॥ अथ संस्कारस्मरणसहकृतमिन्द्रियमेव प्रत्यभिज्ञानं जनयतीन्द्रियजं चाध्यक्षमेवेति न प्रमाणान्तरमित्यपरः । सोऽप्यतिबालिश एव । स्वविषयाभिमुख्येन प्रवर्त्तमानस्येन्द्रियस्य सहकारिशतसमवधानेऽपि विषयान्तरप्रवृत्तिलक्षणातिशयायोगात् । विषयान्तरं चातीतसाम्प्रति Page #18 -------------------------------------------------------------------------- ________________ प्रमेयवतमाला। कावस्थाव्याप्येकदन्यमिन्द्रियाणां - रूपादिगोचरचारित्वेन चरितार्थत्वाच्च ।। नाप्यदृष्टसहकारिसव्यपेक्षमिन्द्रियमेकत्वविषयं । उक्तदोषादेव ॥ किञ्चादृष्टसंस्कारादिसव्यपेक्षादेवात्मनस्तद्विज्ञानमितिकिन्न कल्प्यते ? दृश्यते हि स्वप्नसारस्वतचाण्डालिकादिविद्यासंस्कृतादात्मनो विशिष्टज्ञानोत्पत्तिरिति ॥ नन्वञ्जनादि संस्कृतमपि चक्षुः सातिशयमुपलभ्यते इति चेत् न, तस्य स्वार्थानतिक्रमेणैवातिशयोपलब्धेर्न विषयान्तरग्रहणलक्षणातिशयस्य । तथाचोक्तम्यत्राऽप्यतिशयो दृष्टः स स्वार्थानतिलंघनात् । दूरसूक्ष्मादिदृष्टौ स्यान्न रूपे श्रोत्रवृत्तित इति ॥ ३॥ नन्वस्य वार्तिकस्य सर्वज्ञप्रतिषेधपरत्वाद्विषमो दृष्टान्त इतिचेन-इन्द्रियाणां विषयान्तरप्रवृत्तावतिशयामावमात्रे सादृश्यात् दृष्टान्तत्वोपपत्तेः। न हि सर्वो दृष्टान्तधर्मो दार्टान्तिके भवितुमर्हति । अन्यथा दृष्टान्त एव न स्यादिति। ततः स्थित प्रत्यक्षानुमानाभ्यामर्थान्तरं प्रत्यभिज्ञानं सामग्रीस्वरूपमेदादिति। न चैतदप्रमाणं ततोऽर्थ परिच्छिद्य प्रवर्त्तमानस्यार्थक्रियायामविसंवादात् प्रत्यक्षवदिति । नचैकत्वापलापेबन्धमोक्षादिव्यवस्था अनुमानव्यवस्था वा । एकत्वाभावे बद्धस्यैव मोक्षादेर्गृहीतसम्बन्धस्यैव लिङ्गस्यादर्शनादनुमानस्य च व्यवस्थायोगादिति । नचास्य विषये बाधकप्रमाणसद्भ वादप्रामाण्यं तद्विषये प्रत्यक्षस्य लैङ्गिकस्य चाप्रवृत्तेः। प्रवृत्तौ वा प्रत्युत साधकत्वमेव न बाधकत्वमित्यलमतिप्रसंगेन । तथा सौगतस्य प्रमाणसंख्याविरोधिविध्वस्तबाधं तर्काख्यमुपढौकत एव । नचैतत्प्रत्यक्षेऽन्तर्भवति । साध्यसाधनयोाप्यव्यापकभावस्य साकल्येन प्रत्यक्षाविषयत्वात् । न हि तदियतो व्यापारान्कर्तुं शक्नोति । अविचारकत्वात् सन्निहितविषयत्त्वाच्च । नाप्यनुमाने, तस्यापि देशादिविषयविशिष्टत्त्वेन व्याप्त्यविषयत्त्वात् । तद्विषयत्त्वे वा प्रकृतानुमानान्तरावंकल्पद्वयानतिक्रमात् । तत्र प्रकृतानुमानेन व्याप्तिप्रतिपत्तावितरेतर.श्रयत्वप्रसङ्गः । व्याप्तौ हि प्रतिपन्नायामनुमानमात्मानमासादयति । Page #19 -------------------------------------------------------------------------- ________________ द्वितीयसमुद्देशः। तदात्मलाभे च व्याप्तिप्रतिपत्तिरिति, अनुमानान्तरेणाविनाभावप्रतिपत्तावनवस्थाचमूरी परपक्षचमू चञ्चमीति इति नानुमानगम्या व्याप्तिः । नापि सांख्यादिपरिकल्पितैरागमोपमानार्थापत्त्यभावः साकल्येनाविनाभावावगतिः । तेषां समयसंगृहीतसादृश्यान्यथाऽनन्यथाभूताभावविषयत्त्वेन व्याप्त्यविषयत्वात् । परैस्तथाऽनभ्युपगमाच्च । अथ प्रत्यक्षपृष्ठभाविविकल्पात् साकल्येन साध्यसाधनभावप्रतिपत्तेर्न प्रमाणान्तरं तदर्थ मृग्यमित्यपरः । सोऽपि न युक्तवादीविकल्पस्याध्यक्षगृहीतविषयस्य तदगृहीतविषयस्य वा तद्वयवस्थापकत्वम् ! आये, पक्षे दर्शनस्येव तदनन्तरभाविनिर्णयस्यापि नियतविषयत्वेन व्याप्त्यगोचरत्वात् । द्वितीयपक्षेऽपि विकल्पद्वयमुपढौकत एव । तद्विकल्पज्ञानं 'प्रमाणमन्यथा वेति ? प्रथमपक्षे प्रमाणान्तरमनुमन्तव्यं, प्रमाणद्वयेऽनन्त र्भावात् । उत्तरपक्षे तु न ततोऽनुमानव्यवस्था । न हि. व्याप्तिज्ञानस्याप्रामाण्ये तत्पूर्वकमनुमानं प्रमाणमास्कन्दति सन्दिग्धादिलिङ्गादप्युत्पद्यमानस्य प्रामाण्यप्रसङ्गात् । ततो व्याप्तिज्ञानं सविकल्पमविसंवादकं च प्रमाणं प्रमाणद्वयादन्यदभ्युपगम्यामेति न सौगताभिमतप्रमाणसंख्यानियमः । एतेनानुपलम्भात्कारणव्यापकानुपलम्भाच्च कार्यकारणव्याप्यव्यापकमावसंवित्तिरितिवदन्नपि प्रत्युक्तः । अनुपलम्भस्य प्रत्यक्षविषयत्वेन कारणाद्यनुपलम्भस्य च लिंगत्वेन तजनितस्यानुमानत्वात् प्रत्यक्षानुमानाभ्यां व्याप्तिग्रहणपक्षोपक्षिप्तदोषानुषंगात् । एतेन प्रत्यक्षफलेनोहापोहविकल्पज्ञानेन व्याप्तिप्रतिपत्तिरित्यप्यपास्तम् । प्रत्यक्षफलस्यापि प्रत्यक्षानुमानयोरन्यतरत्वे व्याप्तेरविषयीकरणात् तदन्यत्वे च प्रमाणान्तरत्वमनिवार्यमिति । अथ व्याप्तिविकल्पस्य फलत्वान्न प्रामाण्यमिति न युक्तम् । फलस्याप्यनुमानलक्षणफलहेतुतया प्रमाणत्वाविरोधात् । तथा सन्निकर्षफलस्यापि विशेषणज्ञानस्य विशेष्यज्ञानलक्षणफलापेक्षया प्रमाणत्वमिति न वैशेषिकाभ्युपगतोहापोहविकल्पः प्रमा Page #20 -------------------------------------------------------------------------- ________________ प्रमेयरत्नमाला। णान्तरत्वमतिवर्त्तते । एतेन त्रिचतुःपञ्चषट्प्रमाणवादिनोऽपि सांख्याक्षपादप्रमाकरजैमिनीयाः स्वप्रमाणसंख्यां न व्यवस्थापयितुं क्षमा इति प्रतिपादितमवगन्तव्यम् । उक्तन्यायेन स्मृतिप्रत्यभिज्ञानतर्काणां तदभ्युपगतप्रमाण संख्यापरिपंथित्वादिति प्रत्यक्षतरभेदात् द्वे एव प्रमाणे इति स्थितम् । अथेदानी प्रथमप्रमाणभेदस्य स्वरूपं निरूपयितुमाह विशदं प्रत्यक्षमिति ॥३॥ ज्ञानमिति वर्तते । प्रत्यक्षमिति धर्मिनिर्देशः । विशदज्ञानात्मकं साध्यम् । प्रत्यक्षत्त्वादिति हेतुः । तथाहि-प्रत्यक्षं विशदज्ञानात्मकमेव प्रत्यक्षत्त्वात् । यन्न विशदज्ञानात्मकं तन्न प्रत्यक्षं, यथा परोक्षम् । प्रत्यक्षं च विवादापन्नं, तस्माद्विशदज्ञानात्मकमिति । प्रतिज्ञार्थंकदेशासिद्धो हेतुरिति चेत् का पुनः प्रतिज्ञा तदेकदेशो वा ? धर्मिधर्मसमुदायः प्रतिज्ञा । तदेकदेशो धर्मों धर्मी वा ? हेतुः प्रतिज्ञार्थंकदेशासिद्ध इति चेन्न-धर्मिणो हेतुत्वे असिद्धत्वायोगात्। तस्य पक्षप्रयोगकालवद्धेतुप्रयोगेऽप्यसिद्धबायोगात् । धर्मिणो हेतुत्त्वे अनन्वयदोष इति चेत् न-विशेषस्य धर्मित्वात् । सामान्यस्य च हेतुःवात् तस्य च विशेषेष्वनुगमो विशेषनिष्ठत्वात्सामान्यस्य । अथ साध्यधर्मस्य हेतुत्वें प्रतिज्ञार्थंकदेशासिद्धत्वमिति तदप्यसम्मतम् । साध्यस्य स्वरूपेणैवासिद्धत्वात् । न प्रतिज्ञार्थंकदेशासिद्धत्वेन तस्यासिद्धत्वं, धर्मिणा व्यभिचारात् । सपक्षे वृत्त्यभावाद्धेतोरनन्वय इत्यप्यसत् । सर्वभावानां क्षणभङ्गसङ्गममेवाङ्गशृङ्गारमङ्गीकुर्वतां ताथागतानां सत्त्वादिहेतूनामनुदयप्रसङ्गात् । विपक्षे बाधकप्रमाणाभावात् । पक्षव्यापकत्वाच्चान्वयवत्वं प्रकृतेऽपि समानम् । इदानी स्वोक्तमेव विशदत्वं व्याचष्टे प्रतीत्यन्तराव्यवधानेन विशेषवत्तया वा प्रतिभासनं वैशद्यमिति ॥ ४ ॥ Page #21 -------------------------------------------------------------------------- ________________ द्वितीय समुद्देशः । १९ एकस्याः प्रतीतेरन्या प्रतीतिः प्रतीत्यन्तरम् । तेनाव्यवधानं तेन प्रतिभासनं वैशद्यम् । यद्यप्यवायस्यावग्रहेहा प्रतीतिभ्यां व्यवधानं, तथापि न परोक्षत्वं विषयविषयिणोर्भेदेनाप्रतिपत्तेः । यत्र विषयविषयिणोर्भेदे सति व्यवधानं तत्र परोक्षत्वम् । तर्ह्यनुमानाध्यक्षविषयस्यैकात्मग्राह्यस्याग्नेरभिन्नस्योपलम्भादव्यक्षस्य परोक्षतेति तदप्ययुक्तम् । भिन्नविषयत्वाभावात् । विसदृशसामग्रीजन्यभिन्नविषया प्रतीतिः प्रतीत्यन्तरमुच्यते नान्यदिति न दोषः । न केवलमेतदेव । विशेषवत्तया वा प्रतिभासनं सविशेषवर्णसंस्थानादिग्रहणं वैशद्यम् । " तच्च प्रत्यक्षं द्वेधा मुख्यसंव्यवहारभेदादिति " मनसिकृत्य प्रथमं सांव्यवहारिक प्रत्यक्षस्योत्पादिकां सामग्री तद्भेदं च प्राह इन्द्रियानिन्द्रियनिमित्तं देशतः सांव्यवहारिकमिति ॥ ५ ॥ विशदं ज्ञानमिति चानुवर्तते । देशतो विशदं ज्ञानं सांव्यवहारिकमित्यर्थः । समीचीनः प्रवृत्तिनिवृत्तिरूपो व्यवहारः तत्र भवं सांव्यवहारिकम् । भूयः किंभूतमिन्द्रियानिन्द्रियनिमित्तम् । इन्द्रियं चक्षुरादि, अनिन्द्रियं मनः ते निमित्तं कारणं यस्य । समस्तं व्यस्तं च कारणमभ्युपगन्तव्यम् । इन्द्रियप्राधान्यादनिन्द्रियबलाधानादुपजातामिन्द्रियप्रत्यक्षम्, अनिन्द्रियादेव विशुद्धिसव्यपेक्षादुपजायमानमनिन्द्रियप्रत्यक्षम् । तत्रेन्द्रियप्रत्यक्षमवग्रहादिधारणापर्यन्ततया चतुर्विधमपि बह्रादिद्वादशभेदमष्टचत्वारिंशत्संख्यं प्रतीन्द्रियं प्रतिपत्तव्यम् । अनिन्द्रियप्रत्यक्षस्य चोक्तप्रकारेणाष्टचत्वारिंशद्भेदेन मनोनयनरहितानां चतुर्णामपीन्द्रियाणां व्यञ्जनावग्रहस्याष्टचत्वारिंशद्भेदेन च समुदितस्येन्द्रियानिन्द्रियप्रत्यक्षस्य षट्त्रिंशदुत्तरा विशती संख्या प्रतिपत्तव्या । ननु स्वसंवेदन भेदमन्यदपि प्रत्यक्षमस्ति, तत्कथं नोक्तमिति न वाच्यम् । तस्य सुखादिज्ञानस्वरूपसंवेदनस्य मानसप्रत्यक्षत्वात् । इन्द्रियज्ञानस्त्ररूप संवेदनस्य चेन्द्रियसमक्ष Page #22 -------------------------------------------------------------------------- ________________ प्रमेयरत्नमाला। वादन्यथा तस्य स्वव्यवसायायोगात् । स्मृत्यादिस्वरूपसंवेदनं मानसमेवेति नापरं स्वसंवेदनं नामाध्यक्षमस्ति ॥ ननु प्रत्यक्षस्योत्पादकं कारणं वदता ग्रन्थकारणेन्द्रियानिन्द्रियवदर्थालोकावपि किं न कारणत्वेनोक्तौ ? तदवचने कारणानां साकल्यस्यासंग्रहाद्विनेयव्यामोह एव स्यात् । तदियत्ताऽनवधारणात् । न च भगवतः परमकारुणिकस्य चेष्टा तद्व्यामोहाय प्रभवतीत्याशङ्कायामुच्यते नार्थालोको कारणं परिच्छेद्यत्त्वात्तमोवत् ॥ ६॥ सुगममेतत् । ननु बाह्यालोकाभावं विहाय तमसोऽन्यस्याभावात्साधनविकलो दृष्टान्त इति । नैवम् । एवं सति बाह्यालोकस्यापि तमोऽभावादन्यस्यासम्भवात्तेजोद्रव्यस्यासम्भव इति विस्तरेणैतदलङ्कारे प्रतिपादितं बोद्धव्यम् । अत्रैव साध्ये हेत्वन्तरमाह तदन्वयव्यतिरेकानुविधानाभावाच्च केशोण्डुकज्ञानवनक्तंचरज्ञानवच्च ॥ ७॥ अत्र व्याप्तिः । यद्यस्यान्वयव्यतिरेको नानुविदधाति न तत्तत्कारणकं, यथा केशोंडुकज्ञानं, नानुविधत्ते च ज्ञानमर्थान्वयव्यतिरेकाविति । तथा आलोकेऽपि । एतावान् विशेषस्तत्र नक्तंचरदृष्टान्त इति । नक्तंचरा मार्जारादयः । ननु विज्ञानमर्थजनितमर्थाकारं चार्थस्यप्राहकम् । तदुत्पत्तिमन्तरेण विषयंप्रति नियमायोगात् । तदुत्पत्तेरालोकादावविशिष्टत्त्वात्ताद्रूप्यसहिताया एव तस्यास्तंप्रति नियमहेतुत्त्वात् भिन्नकालत्वेऽपि ज्ञानज्ञेययो ह्यग्राहकभावाविरोधात् । तथाचोक्तम्- भिन्नकालं कथं ग्राह्यमितिचेद्ग्राह्यतां विदुः । हेतुत्वमेव युक्तिज्ञास्तदाकारार्पणक्षमम् । इत्याशङ्कायामिदमाह-- अतजन्यमपि तत्पकाशकं प्रदीपवत् ॥ ८ ॥ अर्थाजन्यमप्यर्थप्रकाशकमित्यर्थः । अतज्जन्यत्वमुपलक्षणम् । तेनातदाकारमपीत्यर्थः । उभयत्रापि प्रदीपो दृष्टान्तः । यथा प्रदी Page #23 -------------------------------------------------------------------------- ________________ २१ द्वितीय समुद्देशः। पस्यातजन्यस्याऽतदाकारधारिणोऽपि तत्प्रकाशकत्वं, तथा ज्ञानस्यापीत्यर्थः । ननु यद्यर्थादजातस्यार्थरूपाननुकारिणो ज्ञानस्यार्थसाक्षात्कारित्वं तदा नियतदिग्दशकालवर्तिपदार्थप्रकाशप्रतिनियमे हेतोरभावात्सर्व विज्ञानमप्रतिनियतविषयं स्यादिति शङ्कायामाह स्वावरणक्षयोपशमलक्षणयोग्यतया हि प्रतिनियतमर्थ व्यवस्थापयति ॥ ९ ॥ स्वानि च तान्यावरणानि च स्वावरणानि तेषां क्षय उदयाभावः । तेषामेव सदवस्था उपशमः तावेव लक्षणं यस्या योग्यतायास्तया हेतुभूतया प्रतिनियतमर्थ व्यवस्थापयति प्रत्यक्षमिति शेषः । हि यस्मादर्थे । यस्मादेवं ततो नोक्तदोष इत्यर्थः । इदमत्र तात्पर्यम् , कल्पयित्त्वाऽपि ताद्रूप्यं तदुत्पत्तिं तदध्यवसायं च योग्यताऽवश्याऽभ्युपगन्तव्या । ताद्रूप्यस्य समानार्थस्तदुत्पत्तेरिन्द्रियादिभिस्तव्यस्यापि समानार्थसमनन्तरप्रत्ययैस्तत्रितयस्यापि शुक्ले शंखे पीताकारज्ञानेन व्यभिचाराद्योग्यताश्रयणमेव श्रेय इति । एतेन यदुक्तं परेण-" अर्थेनघटयत्येनां नहि मुक्त्वार्थरूपताम् । तस्मात्प्रमेयाधिगतौ प्रमाणं मेयरूपतेति" तन्निरस्तम् । समानार्थाकारनानाज्ञानेषु मेयरूपतायाः सद्भावात् । न च परेषां सारूप्यं नामास्ति वस्तुभूतामिति योग्यतयैवार्थप्रतिनियम इति स्थितम् । इदानीं कारणत्वात्परिच्छेद्योऽर्थ इति मतं निराकरोति कारणस्य च परिच्छेद्यत्त्वे करणादिना व्यभिचार इति ॥ १० ॥ करणादिकारणं परिच्छेद्यमिति तेन व्यभिचारः । न ब्रूमः कारणत्त्वात्परिच्छेद्यत्वमपितु परिच्छेद्यत्त्वात्कारणत्वमिति चेन्न । तथापि केशोंडुकादिना व्यभिचारात् । इदानीमतीन्द्रियप्रत्यक्षं व्याचष्टे Page #24 -------------------------------------------------------------------------- ________________ प्रमेयरत्नमाला | सामग्रीविशेषविश्लेोषिताखिलावरणमतीन्द्रियमशेषतो मुख्यम् ॥ ११ ॥ सामग्री द्रव्यक्षेत्रकालभावलक्षणा, तस्या विशेषः समग्रतालक्षणः । तेन विश्लेषितानि अखिलान्यावरणानि येन तत्तथोक्तम् । किं विशिष्टं ? अतीन्द्रियमिन्द्रियाण्यतिक्रान्तम् । पुनरपि कीदृशमशेषतः सामस्त्येन विशदम् । अशेषतो वैशद्ये किं कारणमिति चेत् - प्रतिबन्धाभाव इति ब्रूमः । तत्रापि किं कारणमिति चेत्-अतीन्द्रियःवमनावरणत्वं चेति ब्रूमः । एतदपि कुत इत्याह सावरणत्त्वे करणजन्यत्वे च प्रतिबन्धसम्भवात् ॥ १२ ॥ " नन्ववधिमनःपर्यययोरनेनासंग्रहाद व्यापकमेतल्लक्षणमिति न वाच्यम् । तयोरपि स्वविषयेऽशेषतो विशदत्वादिधर्मसम्भवात् । नचैव मतिश्रुतयोरित्यतिव्याप्तिपरिहारः । तदेतदतीन्द्रियमवधिमनः पर्यय केवलप्रभेदात्रिविधमपि मुख्यं प्रत्यक्षमात्मसन्निधिमात्रापेक्षत्त्वादिति । नन्वशेषविषयविशदावभासि ज्ञानस्य तद्वतो वा प्रत्यक्षादिप्रमाणपञ्चकाविषयत्वेनाभावप्रमाणविषमविषधरविध्वस्तसत्ताकत्त्वात् कस्य मुख्यत्वम् ? तथाहि -नाध्यक्षमशेषज्ञविषयं तस्य रूपा - दिनियतगोचरचारित्त्वात् सम्बद्भवर्तमानविषयत्वाच्च । न चाशेषवेदी सम्बद्धो वर्तमानश्चेति । नाप्यनुमानात्तत्सिद्धिः । अनुमानं हि गृहीतसम्बन्धस्यैकदेशदर्शनादसन्निकृष्टे बुद्धिः । न च सर्वज्ञसद्भावाविनाभाविकार्यलिङ्गं स्वभावलिङ्ग वा सम्पश्यामः। तद्ज्ञप्तेः पूर्वं तत्स्वभावस्य तत्कार्यस्य वा तत्स्वभावाविनाभा विनो निश्चेतुमशक्तेः । नाप्यागमात्तत्सद्भावः । स हि नित्योऽनित्यो वा तत्सद्भावं भावयेत् । न तावन्नित्यः तस्यार्थवादरूपस्य कर्मविशेषसंस्तवनपरत्वेन पुरुषविशेषावबोधकत्वायोगात् । अनादेरागमस्यादिमत्पुरुषवाचकत्वाघटनाच्च । नाप्यनित्य आगमः सर्वज्ञं साधयति । तस्यापि तत्प्रणीतस्य तन्निश्चयमन्तरेण प्रामाण्य: २२ Page #25 -------------------------------------------------------------------------- ________________ द्वितीयसमुद्देशः। २३ निश्चयादितरेतराश्रयत्वाच्च । इतरप्रणीतस्य त्वनासादितप्रमाणभावस्याशेषज्ञप्ररूपणपरत्वं नितरामसम्भाव्यमिति । सर्वज्ञसदृशस्यापरस्य ग्रहणासम्भवाच्च नोपमानम् । अनन्यथाभूतस्यार्थस्याभावान्नार्थापत्तिरपि सर्वज्ञावबोधिकेति 'धर्माद्युपदेशस्य व्यामोहादपि सम्भवात् । द्विविधो ह्युपदेशः सम्यङिमथ्योपदेशभेदात् ; तत्र मन्वादीनां सम्यगुपदेशो यथार्थज्ञानोदयवेदमूलत्वात् । बुद्धादीनां तु व्यामोहपूर्वकः तदमूलत्वात् तेषामवेदार्थज्ञत्वात् । ततः प्रमाणपञ्चकाविषयत्वादभावप्रमाणस्यैव प्रवृत्तिस्तेन चाभाव एव ज्ञायते । भावांशे प्रत्यक्षादिप्रमाणपञ्चकस्य व्यापारादिति । अत्र प्रतिविधीयते । यत्तावदुक्तम्-प्रत्यक्षादिप्रमाणाविषयत्वमशेषज्ञस्येति तदयुक्तं, तद्ग्राहकस्यानुमानस्य सम्भवात् । तथाहि-कश्चित्पुरुषः सकलपदार्थसाक्षात्कारी । तद्ग्रहणस्वमाबत्वे सति प्रक्षीणप्रतिबन्धप्रत्ययत्वात् । यद्यद्ग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्धप्रत्ययं तत्तत्साक्षात्कारि । यथाऽपगततिमिरं लोचनं रूपसाक्षात्कारि । तद्ग्रहणस्वभावत्त्वे सति प्रक्षीणप्रतिबन्धप्रत्ययश्च विवादापन्नः कश्चिदिति सकलपदार्थग्रहणस्वभात्वं नात्मनोऽसिद्धं चोदनातः सकलपदार्थपरिज्ञानस्यान्यथायोगादन्धस्येवादर्शाद्रूपप्रतिपत्तेरिति । व्याप्तिज्ञानोत्पत्तिवलाच्चाशेषविषयज्ञानसम्भवः केवलं वैशये विवादः । तत्र चावरणापगम एव कारणं रजोनीहाराद्यावृतार्थज्ञानस्येव तदपगम इति । प्रक्षीणप्रतिबन्धप्रत्ययत्वं कथमिति चेदुच्यते-दोषावरणे कचिन्निर्मूलं प्रलयमुपव्रजतः प्रकृष्यमाणहानिकत्त्वात् । यस्य प्रकृष्यमाणहानिः । स कचिन्निमूलं प्रलयमुपव्रजति । यथाऽग्निपुटपाकापसारितकिट्टकालिकाद्यन्त रङ्गबहि रङ्गमलद्वयात्मनि हेम्नि मलमिति निर्हासातिशयवती च दोषावरणे इति । कथं पुनर्विवादाध्यासितस्य ज्ञानस्यावरण सिद्धं ? प्रतिषेधस्य विधिपूर्वक. त्वात् इति। अत्रोच्यते-विवादापन्नं ज्ञानं सावरणं, विशदतया स्वविषयानवबोधकत्वाद्रजोनीहाराद्यन्तरितार्थज्ञानवदिति। न चात्मनोऽमूर्त्तत्वादावारकावृत्त्ययोगः। Page #26 -------------------------------------------------------------------------- ________________ २४ प्रमेयरत्नमाला । अमूर्तीया अपि चेतनाशक्तेमदिरामदनकोद्रवादिभिरावरणोपपत्तेः । न चेन्द्रियस्य तैरावरणं, इन्द्रियाणामचेतनानामप्यनावृतप्रख्यत्वात् । स्मृत्यादिप्रतिबन्धायोगात् । नापि मनसस्तैरावरणमात्मव्यतिरेकेणापरस्य मनसो निषेत्स्य मानत्वात् । ततो नामूर्तस्यावरणाभावः । अतो नासिद्धं तद्ग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्धप्रत्ययत्वम् । नापि विरुद्ध विपरीतनिश्चितावेनाभावात् । नाप्यनैकान्तिकं देशतः सामस्त्येन वा विपक्षेवृत्त्यभावात् । विपरीतार्थोपस्थापकप्रत्यक्षागमासम्भवान्नकालात्ययापदिष्टत्वम् । नापि सत्प्रतिपक्षं प्रतिपक्षसाधनस्यहेतोरभावात् । अथेदमस्त्येव विवादापन्नः पुरुषो नाशेषज्ञो वक्तृत्वात्पुरुषत्वात्पाण्यादिमत्वाच्च । रथ्यापुरुषवदिति । नैतचारु वक्तृत्वादेरसम्यग्धेतुत्वात् । वक्तृत्वं हि दृष्टेष्टविरुद्धार्थवक्तृत्वं तदविरुद्ववक्तृत्वं वक्तृत्वसामान्य वा गत्यन्तराभावात् । न तावत् प्रथमः पक्षः सिद्धसाध्यतानुषङ्गात् । नापि द्वितीयः पक्षः विरुद्धत्वात् । तदविरुद्धवक्तृत्वं हि ज्ञानातिशयमन्तरेण नोपपद्यत इति । वक्तृत्वसामान्यमपि विपक्षाविरुद्धत्वान्न प्रकृतसाध्यसाधनायालं, ज्ञानप्रकर्षे वक्तृत्वापकादर्शनात्प्रत्युत ज्ञानातिशयवतो वचनातिशयस्यैव सम्भवात् । एतेन पुरुषत्वमपि निरस्तं-पुरुषत्वं हि रागादिदोषदूषित, तदा सिद्धसाध्यता, तददूषितं तु विरुद्धं वैराग्यज्ञानादिगुणयुक्तपुरुषत्वस्याशेषज्ञत्वमन्तरेणायोगात् । पुरुषत्वसामान्यं तु सन्दिग्धविपक्षव्यावृत्तिकमिति सिद्ध सकलपदार्थसाक्षात्कारित्वं कस्यचित्पुरुषस्य । अतोऽनुमानादिति न प्रमाणपञ्चकाविषयत्वमशेषज्ञस्य ॥ अथास्मिन्ननुमानेऽर्हतः सर्ववित्तमनहतो वा? अनर्हतश्चेदर्हद्वाक्यप्रमाणं स्यात् । अर्हतश्चेत्सोऽपि न श्रुत्या सामर्थ्येन वाऽवगन्तुं पार्यते । स्वशक्त्या दृष्टान्तानुग्रहेण वा हेतोः पक्षान्तरेऽपि तुल्यवृत्तिवादिति । तदेतत्परेषां स्ववधाय कृत्योत्थापनं, एवंविधविशेषप्रश्नस्य सर्वज्ञ सामान्याभ्युपगमपूर्वकत्वात् । अन्यथा न कस्याप्यशेषज्ञत्वमित्येवं वक्तव्यम् । Page #27 -------------------------------------------------------------------------- ________________ द्वितीयसमुद्देशः। प्रसिद्धानुमानेऽप्यस्य दोषस्य सम्भवेन, जात्युत्तरत्वाच्च । तथाहि-नित्यः शब्दः प्रत्यभिज्ञायमानत्वादित्युक्ते व्यापकः शब्दो नित्यः प्रसाध्यते अव्यापको वा । यद्यव्यापकः तदा व्यापकत्वेनोपकल्प्यमानो न कञ्चिदर्थं पुष्णाति । अथ व्यापकः सोऽपि न । श्रुत्या सामर्थेन वाऽवगम्यते स्वशक्त्या दृष्टान्तानुग्रहेण वा । पक्षान्तरेऽपि तुल्यवृत्तित्वादिति सिद्धमतो निर्दोषात्साधनादशेषज्ञत्वमिति । यच्चाभावप्रमाणकवलितसत्ताकत्वमशेषज्ञस्योति तदयुक्तमेवानुमानस्य तद्ग्राहकस्य सद्भावे सति प्रमाणपञ्चकामावमू टस्याभावप्रमाणस्यापस्थापनायोगात् “ गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् । मानसं नास्तिताज्ञानं जायतेऽक्षानपेक्षयेति" च भावत्कं दर्शनम् । तथा च कालत्रयात्रिलोकलक्षणवस्तुसद्भावग्रहणेऽन्यत्रान्यदा गृहीतस्मरणे च सर्वज्ञनास्तिताज्ञानमभावप्रमाण युक्तम् । नापरथा । न च कस्यचिदग्दिर्शिनास्त्रिजगत्रिकालज्ञानमुपपद्यते सर्वज्ञस्यातीन्द्रियस्य वा । सर्वज्ञत्त्वं हि चेतोधर्मतयाऽतीन्द्रियं तदपि न प्रकृतपुरुषविषयमिति कथमभावप्रमाणमुदयमासादयेत्। असर्वज्ञस्य तदुत्पादसामग्र्या असम्भवात् । सम्भवे वा तथाज्ञातुरेव सर्वज्ञत्वमिति । अत्राधुना तदभावसाधनमित्यपि न युक्तं सिद्धसाध्यतानुषगात् । ततः सिद्धं मुख्यमतीन्द्रियज्ञानमशेषतो विशदम् । सार्वज्ञज्ञानस्याती. न्द्रियत्त्वादशुच्यादिदर्शनं तद्रसास्वादनदोषोऽपि परिहृत एव । कथमतीन्द्रियज्ञानस्य वैशद्यमिति चेत् । यथा सत्यस्वप्नज्ञानस्य भावनाज्ञानस्य चेति । दृश्यते हि भावनाबलादतद्देशवस्तुनोऽपि विशददर्शनमिति । “पिहिते कारागारे तमसि च सूचीमुखाग्रहदुर्भेद्य । मयि च निमीलितनयने तथापि कान्ताननं व्यक्तमिति” बहुलमुपलम्भात् । ननु च नावरणविश्लेषादशेषज्ञत्वमपि तु तनुकरणभुवनादिनिमित्तत्वेन । न चात्र तन्वादीनां बुद्धिमद्धेतुकत्वमसिद्धमनुमानादेस्तस्य सुप्रसिद्धत्वात् । तथाहि- विमत्यधिकरणभावापन्नं उर्वीपर्वततरुतन्वादिकं बुद्धिमद्धतुकं कार्यत्वादचेतनोपादानत्वात्सान्नवेशविशिष्ट Page #28 -------------------------------------------------------------------------- ________________ प्रमेयरत्नमाला। त्वाद्वा वस्त्रादिवदिति । आगमोऽपि तदावेदकः श्रूयते- " विश्वतश्चक्षुरुत विश्वतोमुखो विश्वताबाहुरुत विश्वतः पात् । सम्बाहुभ्यां धमतिसम्पतत्रै वाभूमी जनयन्देव एकः " तथा व्यासवचनं च “अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव वा ॥१॥" न चाचेतनैरेव परमाण्वादिकारणैः पर्याप्तत्त्वाद्बुद्धिमतः कारणस्यानर्थक्यम् । अचेतनानां स्वयंकार्योत्पत्तौ व्यापारायोगात्तुर्यादिवत् । न चैव चेतनस्यापि चेतनान्तरपूर्वकत्त्वादनवस्था । तस्य सकलपुरुषज्येष्ठत्वान्निरतिशयत्वात्सर्वज्ञबीजस्य " क्लेशकर्मविपाकाशयैरपरामृष्टत्वादनादिभूतानश्वरज्ञानसम्भवाच्च । यदाह पतञ्जलि:- “क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषः सर्वज्ञः स पूर्वेषामपि गुरुः कालेनाविच्छेदादिति " च " ऐश्वर्यमप्रतिहतं सहजो विरागस्तृप्तिनिसर्गजनिता वशितेन्द्रियेषु । आत्यन्तिकं सुखमनावरणा च शक्तिर्ज्ञानं च सर्वविषयं भगवंस्तवैव " इत्यवधूतवचनाच्च । न चात्र कार्यत्वमसिद्धम् । सावयवत्वेन कार्यत्वसिद्धः । नापि विरुद्धं, विपक्ष एव वृत्त्यभावात् । नाप्यनैकान्तिकं,, विपक्षे परमाण्वादावप्रवृत्तेः । प्रतिपक्षसिद्धिनिबन्धनस्य साधनान्तरस्याभावान्न प्रकरणसमम् । अथ तन्वादिकं बुद्धिमद्धतुकं न भवति दृष्टकर्तृकप्रासादादिविलक्षणत्वादाकाशवदित्यस्त्येव प्रतिपक्षसाधनमिति । नैतद्युक्तं, हेतोरसिद्धत्वात् । सन्निवेशविशिष्टत्वेन प्रासादादिसमानजातीयत्वेन तन्वादीनामुपलम्भात् । अथ यादृशः प्रासादादौ सन्निवेशविशेषो दृष्टो न तादृशस्तन्वादावितिचेन्न सर्वात्मना सदृशस्य कस्यचिदप्यभावात् । सातिशयसन्निवेशो हि सातिशयं कर्तार गमयति प्रासादादिवत् । न च दृष्टकर्तृकत्वादृष्टकर्तृकत्वाभ्यां बुद्धिमन्निमित्ते तरत्वसिद्धिः । कृत्रिमैमणिमुक्ताफलादिभिर्व्यभिचारात् । एतेनाचेतनोपादानत्यादिकमपि समर्थितमिति सूक्तं बुद्धिमद्धेतुकत्वं ततश्च सर्ववेदित्वमिति ॥ Page #29 -------------------------------------------------------------------------- ________________ द्वितीयसमुद्देशः । २७ तदेतत्सर्वमनुमानमुद्रादविणदरिद्रवचनमेव कार्यत्वादेरसम्यग्घेतुत्त्वेन तजनित ज्ञानस्य मिथ्यारूपत्वात् । तथाहि-कार्यत्वं स्वकारणसत्तासमवायः स्यादभूत्वा भावित्वमक्रियादर्शिनोऽपि कृतबुद्धयुत्पादकत्वं कारणव्यापारानुविधायित्वं वा स्याद्गत्यन्तराभावात् । अथाद्यः पक्षस्तदा योगिनामशेषकर्मक्षये पक्षान्तःपातिनि हेतौ कार्यत्वलक्षणस्याप्रवृत्ते गासिद्धत्वम् । न च तत्र सत्तासमवायः स्वकारणसमवायो वा समस्ति, तत्प्रक्षयस्य प्रध्वंसरूपत्वेन सत्तासमवाययोरभावात् सत्ताया द्रव्यगुणक्रियाधारत्वाभ्यनुज्ञानात् समवायस्य च परैर्द्रव्यादिपञ्चपदार्थवृत्तित्वाभ्युपगमात् । अथाभावपरित्यागेन भावस्यैव विवादाध्यासितस्य पक्षीकरणान्नायं दोषः प्रवेशमागिति चेत् तर्हिमुक्त्यर्थिनां तदर्थः मीश्वराराधनमनर्थकमेव स्यात् । तत्र तस्याकिञ्चित्करत्वात् सत्तासमवायस्य विचारमधिरोहतः शतधा विशीर्यमाणत्वात् स्वरूपासिद्धं च कार्यत्वम् । स हि समुत्पन्नानां भवेदुत्पद्यमानानां वा ? यद्युत्पन्नानां, सतामसतां ? न तावदसतां खरविषाणादेरपि तत्प्रसङ्गात् । सतां चेत् सत्तासमवायात्स्वतो वा ? न तावत्सत्तासमवायादनवस्थाप्रसङ्गात् प्रागुक्तविकल्पद्वयाऽनतिवृत्तेः । स्वतःसतां तु सत्तासमवायानर्थक्यम् । अथोत्पद्यमानानां सत्तासम्बन्धो निष्ठासम्बन्धयोरेककालत्याभ्युपगमादिति मतम् । तदा सत्तासम्बन्ध उत्पादाद्भिन्नः किं वा अभिन्न इति । यदि भिन्नस्तदोत्पत्तेरसत्त्वाविशेषादुत्पत्त्यभावयोः किंकृतो भेदः । अथोत्पत्तिसमाक्रान्तवस्तुसत्त्वेनोत्पत्तिरपि तथाव्यपदिश्यते इति मतम् । तदपि अतिजाड्यवल्गितमेव । उत्पत्तिसत्त्वप्रतिविवादे वस्तुसत्त्वस्यातिदुर्घटत्त्वात् । इतरेतराश्रयदोषश्च । इत्युत्पत्तिसत्त्वे वस्तुनि तदेककालीनसत्तासम्बन्धावगमस्तदवगमे च तत्रत्यसत्त्वेनोत्पत्तिसत्त्वनिश्चय इति । अथैतद्दोष परिजिहीर्षया तयोरैक्यममभ्यनुज्ञायते, तर्हि तत्सम्बन्ध एव कार्यत्वमिति । ततो बुद्धिमद्धेतुकत्त्वे गगनादिभिरनेकान्तः । एतेन स्वकारणसम्बन्धोऽपि Page #30 -------------------------------------------------------------------------- ________________ २८ प्रमेयरत्नमाला। चिन्तितः । अथोमयसम्बन्धो कार्यत्वमिति मतिः सापि न युक्ता । तत्सम्बन्धस्यापि कादाचित्कत्त्वे समवायस्यानित्यत्वप्रसङ्गात् घटादिवत् अकादाचिस्कत्त्वे सर्वदोपलम्भप्रसङ्गः । अथ वस्तूत्पादककारणानां सन्निधानाभावान्न सर्वदोपलम्भप्रसंगः । ननु वस्तूत्पत्त्यर्थं कारणानाम् व्यापारः । उत्पादश्च स्वकारणसत्तासमवायः स च सर्वदाप्यस्ति, इति तदर्थं कारणोपादानमनर्थकमेव स्यात् । अभिव्यक्त्यर्थं तदुपादानमित्यपि वार्तं वस्तूत्पादापेक्षया अभिव्यक्तरघटनात् । वस्त्वपेक्षपाऽभिव्यक्ती कारणसम्पातात्प्रागपि कार्यवस्तुसद्भावप्रसङ्गात् । तल्लक्षणत्वाद्वस्तुसत्त्वस्य प्राक् सत एव हि केनचित् तिरोहितस्याभिव्यञ्जकेनाभिव्यक्तिस्तमस्तिरोहितस्य घटस्येव प्रदीपादिनेति । तन्नाभिव्यक्त्यर्थं कारणोपादानं युक्तं, तन्न स्वकारणसत्तासम्बन्धः कार्यत्वम् ॥ नाप्यभूत्वाभावित्वम् । तस्यापि विचारासहत्वात् । अभूत्वाभावित्वं हि भिन्नाकालक्रियाद्वयाधिकरणभूते कर्तरि सिद्ध सिद्रिमध्यास्ते । क्त्वान्तपदविशेषितवाक्यार्थत्वाद्भुक्त्वा व्रजतीत्यादिवाक्यार्थवत् । न चात्र भवनाभवनयोराधारभूतस्य कर्तुरनुभवोऽस्ति । अभवनाधारस्याविद्यमानत्वेन भवनाधारस्य च विद्यमानतया भावाभावयोरेकाश्रयविरोधात् । आवरोधे च तयोः पर्यायमात्रेणैव भेदो न वास्तव इति । अस्तु वा यथाकथंचिदभूत्वाभावित्वं, तथापि तन्वादौ सर्वत्रानभ्युपगमाद्भागासिद्धम् ।न हि महीमहीधराकूपारारामादयः प्रागभूत्वाभवन्तोऽभ्युपगम्यन्ते परैः । तेषां तैः सर्वदावस्थानाभ्युपगमात् । अथ सावयवत्त्वेन तेषामपि सादित्वं प्रसाध्यते, तदप्यशिक्षितलक्षितम् । अवयवेषु वृत्तरेवयवैरारभ्यत्वेन च सावयवत्वानुपपत्तेः । प्रथमपक्षे सावयव. सामान्येनानेकान्तात् । द्वितीयपक्षे साध्याविशिष्टत्वात् । अथ सन्निवेश एव सावयवत्वं तच्च घटादिवत् पृथिव्यादावुपलभ्यते इत्यभूत्वाभावित्वमभिधीयते तदप्यपेशलम् । सन्निवेशस्यापि विचारासहत्वात् । स ह्यवयवसम्बन्धो भवे Page #31 -------------------------------------------------------------------------- ________________ द्वितीयसमुद्देशः। द्रचनाविशेषो वा । यद्यवययसम्बन्धस्तदा गगनादिनानेकान्तः सकलमूर्तिमद्द्रव्यसंयोगनिबन्धनप्रदेशनानात्वस्यसद्भावात् । अथोपचरिता एव तत्र प्रदेशा इति चेत् तर्हि सकलमूर्तिमद्रव्यसम्बन्धस्याप्युपचरितत्वात्सर्वगतत्वमप्युपचरितं स्यात् । श्रोत्रस्यार्थक्रियाकारित्वं च न स्यात् । उपचरितप्रदेशरूपत्वात् । धर्मादिना संस्कारात्ततः सेत्ययुक्तम् । उपचरितस्यासद्रूपस्य तेनोपकारायोगात्। खरविषाणस्येव ततो न किञ्चिदेतत् । अथ रचनाविशेषस्तदा परम्प्रतिभागासिद्धत्वं तदवस्थमेवेति नाभूत्वाभावित्वं विचारं सहते । नाप्यक्रियादर्शिनोऽपि कृतबुद्धयुत्पादकत्वम् । तद्धि कृतसमयस्याकृतसमयस्य वा भवेत् । कृतसमयस्य चेत् गगनादेरपि बुद्धिमद्धेतुकत्वं स्यात् । तत्रापि खननोत्संचनात् कृतमितिगृहीतसङ्केतस्य कृतबुद्धिसम्भवात् । सा मिथ्यति चेत् भवदीयापि किं न स्यात् । बाधासद्भावस्य प्रतिप्रमाणविरोधस्य चान्यत्रापि समानत्वात् । प्रत्यक्षेणोभयत्रापि कर्तुरग्रहणात् । क्षित्यादिकं बुद्धिमद्धेतुकं न भवति अस्मदाद्यनवग्राह्यपरिमाणाधारत्त्वात् गगनादिवदिति प्रमाणस्य साधारणत्वात्। तन्न कृतसमयस्य कृतबुद्ध्युत्पादकत्वम् । नाप्यकृतसमयस्याऽसिद्धत्वादविप्रतिपत्तिप्रसङ्गाच्च । कारणव्यापारानुविधायित्वं च कारणमात्रापेक्षया यदीष्यते तदा विरुद्ध साधनम् । कारणविशेषापेक्षया चेदितरेतराश्रयत्वम् । सिद्धे हि कारणविशेषे बुद्धिमति तदपेक्षया कारणव्यापारानुविधायित्वं कार्यत्वम् । ततस्तद्विशेषसिद्धिरिति सन्निवेशविशिष्टत्वमचेतनोपादानत्वं चोक्तदोषदुष्टत्वान्न पृथक् चिन्त्यते । स्वरूपभागासिद्धत्वादेस्तत्रापि सुलभत्वात् । विरुद्धाश्चामी हेतवो दृष्टन्तानुग्रहेण सशरीरासर्वज्ञपूर्वकत्वसाधनात् । न धूमात्पावकानुमानेऽप्ययं दोषः । तत्र तार्णपार्णादिविशेषाधाराग्निमात्रव्याप्तधूमस्य दर्शनात् । नैवमत्र सर्वज्ञासर्वज्ञकर्तविशेषाधिकरणतत्सामान्येन कार्यत्वस्य व्याप्तिः सर्वज्ञस्य कर्तुरतोऽनुमानात्प्रागसिद्धत्वात् । व्यभिचारिणश्चामी हेतवो बुद्धिमत्कारण Page #32 -------------------------------------------------------------------------- ________________ ३० प्रमेयरत्नमाला। मन्तरेणापि विद्युदादीनां प्रादुर्भावसम्भवात् । सुप्ताद्यवस्थायामबुद्धिपूर्वकस्यापि कार्यस्य दर्शनात् । तदवश्यं तत्रापि भर्गाख्यं कारणमित्यतिमुग्धविलसितं, तद्वयापारस्याप्सम्भवादशरीरत्वात् । ज्ञानमात्रेण कार्यकारित्वाघटनादिच्छाप्रयत्नयोः शरीराभावेऽसम्भवात्तदसम्भवश्च पुरातनैर्विस्तरेणाभिहित आप्तपरीक्षादौ । अतः पुनरत्र नोच्यते । यच्च महेश्वरस्य क्लेशादिभिरपरामृष्टत्वं निरतिशयत्वमैश्वर्याद्यपेतत्वं तत्सर्वमपि गगनाब्जसौरभव्यावर्णनमिव निर्विषयत्वादुपेक्षामर्हति । ततो न महेश्वरस्याशेषज्ञत्वम् । नापि ब्रह्मणः । तस्यापि सद्भावावेदकप्रमाणाभावात् । न तावत्प्रत्यक्षं तदावेदकमविप्रतिपत्तिप्रसङ्गात्। न चानुमानमविनामाविलिङ्गाभावात् । ननु प्रत्यक्षं तद्ग्राहकमस्त्येव, आक्षिविस्फालनानन्तरं निर्विकल्पकस्य सन्मात्रविधिविषयतयोत्पत्तेः । सत्तायाश्च परमब्रह्मरूपत्वात् । तथाचोक्तम्-अस्ति ह्यालोचनाज्ञानं प्रथम निर्विकल्पकम् । बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् ॥ १ ॥ न च विधिवत् परस्परव्यावत्तिरप्यध्यक्षतः प्रतीयत इति द्वैतसिद्धिः । तस्य निषेधाविषयत्त्वात् । तथा चोक्तम् । आहुर्विधातृप्रत्यक्षं न निषेधृविपश्चितः । नैकत्वे आगमस्तेन प्रत्यक्षेण प्रवाध्यते ॥ १ ॥ अनुमानादपि तत्सद्भावो विभाव्यत एव । तथाहिग्रामारामादयः पदार्थाः प्रतिभासान्तःप्रविष्टाः प्रतिभासमानत्वात् । यत्प्रतिभासते तत्प्रतिभासान्तःप्रविष्टम् । यथा प्रतिभासस्वरूपं प्रतिभासन्ते च विवादापन्ना इति । तदागमानामपि पुरुष एवेदं यद्भूतं यच्च भाव्यमिति बहुलमुपलम्भात् । सर्व वै खल्विदं ब्रह्म नेह नानास्ति किञ्चन । आरामं तस्य पश्यन्ति न तं पश्यति कश्चन । इति श्रुतेश्च ॥ १ ॥ ननु परमब्रह्मण एव परमार्थसत्त्वे कथं घटादि भेदोऽवभासत इति न चोद्यम् । सर्वस्यापि तद्विवर्ततयावभासनात् । न चाशेषभेदस्य तद्विवर्तत्वमासिद्धं प्रमाणप्रसिद्धत्वात् । तथाहि-विवादाध्यासितं विश्वमेककारणपूर्वकमेकरूपान्वितत्वात् । घटघटी Page #33 -------------------------------------------------------------------------- ________________ द्वितीयसमुद्देशः। सरावोदञ्चनादीनां मृद्रूपान्वितानां यथा मृदेककारणपूर्वकत्वं, सद्रूपेणान्वितं च निखिलं वस्विति । तथाऽऽगमोऽप्यस्ति-" ऊर्णनाभ इवांशूनां चंद्रकांत इवाम्भसाम् । प्ररोहाणामिव प्लक्षः स हेतुः सर्वजन्मिनामिति ॥ १॥" तदेतन्मदिरारसास्वादगद्गदोदितमिव मदनकोद्रवाद्युपयोगजनितव्यामोहमुग्धविलसितमिव निखिलमवभासते विचारासहत्वात् । तथा हि-यत्प्रत्यक्षसत्ताविषयत्वमभिहितं तत्र किं निर्विशेषसत्ताविषयत्त्वं सविशेषसत्तावबोधकत्त्वम् वा? न तावत्पौरस्त्यः पक्षः । सत्तायाः सामान्यरूपत्वात् । विशेषनिरपेक्षतयाऽनवभासनात् । शाबलेयादिविशेषानवभासने गोत्त्वाऽनवमासनवत् । 'निर्विशेषं हि सामान्यं भवेच्छशविषाणवदि'त्यभिधानात् । सामान्यरूपत्वं च सत्तायाः सत्सदित्यन्वयबुद्धिविषयत्वेन सुप्रसिद्धमेव । अथ पाश्चात्यः पक्षः कक्षीक्रियते, तदा न परमपुरुषसिद्धिः । परस्परव्यावृत्ताकारविशेषाणामध्य. क्षतोऽवभासनात् । यदपि साधनमभ्यधायि प्रतिभासमानत्वं तदपि न साधु, विचारासहत्वात् । तथाहि प्रतिभासमानत्वं स्वतः परतो वा ? न तावत्स्वतोऽसिद्धत्वात् । परतश्चेद्विरुद्धम् । परतः प्रतिभासमानत्वं हि परं विना नोपपद्यते प्रतिभासनमात्रमपि न सिद्धिमधिवसति । तस्य तद्विशेषान्तरीयकत्वात्तद्विशेषाभ्युपगमे च द्वैतप्रसक्तिः किञ्च धर्मिहेतुदृष्टान्ता अनुमानोपायभूताः प्रतिभासन्ते न वेति । प्रथमपक्षे प्रतिभासान्तःप्रविष्टाः प्रतिमासबहिर्भूता वा । यद्याद्यः पक्षस्तदा साध्यान्तःपातित्वान्न ततोऽनुमानम् । तद्बहिर्भावे तैरेव हेतोयभिचारः । अप्रतिभासमानत्वेऽपि तद्वयवस्थाभावात् ततो नानुमानमिति । अथानाद्यविद्याविजृम्भितत्वात्सर्वमेतदसम्बद्धमित्यनल्पतमोविल सितम् । अविद्यायामप्युक्तदोषानुषङ्गात् । सकलविकल्पविकलत्वात्तस्या नैष दोष इत्यप्यतिमुग्धभाषितम् । केनापि रूपेण तस्याः प्रतिभासाभावे तत्स्वरूपानवधारणात् । अपरमप्यत्र विस्तरेण देवागमालङ्कारे चिन्तितमिति नेह Page #34 -------------------------------------------------------------------------- ________________ ३२ प्रमेयरत्नमाला। प्रतन्यते । यच्च परमब्रह्मविवर्त्तत्त्वमखिलभेदानामित्युक्तं । तत्राप्येकरूपेणान्वितत्वं हेतुरन्वेत्रन्वीयमानद्वयाविनामावित्वेन पुरुषाद्वैतं प्रतिबध्नातीति स्वेष्टविघातकारिवाद्विरुद्धः । अन्वितत्वमेकहेतुके घटादावनेकहेतुके स्तम्भकुम्भाम्भोरुहादावप्युपलभ्यत इत्यनैकान्तिकश्च । किमर्थं चेदं कार्यमसौ विदधाति ? अन्येन प्रयुक्तत्वात्, कृपावशात् क्रीडावशात्, स्वभावाद्वा ? अन्येन प्रयुक्तत्वे स्वातन्त्र्यहानिदैतप्रसङ्गश्च । कृपावशादिति नोत्तरम् । कृपायां दुःखिनामकारुणप्रसङ्गात् । परोपकारकरणनिष्ठत्वात्तस्याः सृष्टेः प्रागनुकम्पा विषयप्राणिनामभावाच्च न सा युज्यते । कृपापरस्य प्रलयविधानायोगाच्च । अदृष्टवशात्तद्विधाने स्वातन्त्र्यहानिः कृपापरस्य पीडाकारणादृष्टव्यपेक्षायोगाच्च । क्रीडावशात्प्रवृत्तौ न प्रभुत्वं क्रीडोपायव्यपक्षणाद्वालकवत् । क्रीडोपायस्य तत्साध्यस्य च युगपदुत्पत्तिप्रसङ्गश्च । सति समर्थे कारणे कार्यस्यावश्यम्भावात् । अन्यथा क्रमेणापि सा ततो न स्यात् । अथ स्वभावादसौजगन्निार्मिनोति यथाग्निर्दहति वायुयंतीति मतं, तदपि बालभाषितमेव पूर्वोक्तदोषानिवृत्तेः । तथाहि-क्रमवर्तिविवर्तजातमखिलमपि युगपदुत्पद्येत । अपेक्षणीयस्य सहकारिणोऽपि तत्साध्यत्वेन योगपद्यसम्मवात् उदाहरणवैषम्यं च । वन्ह्यादेः कादाचित्कस्वहेतुजनितस्य नियतशक्त्यात्मकत्वोपपत्तेरन्यत्र नित्यव्यापिसमर्थं कस्वभावकारणजन्यत्वेन देशकालप्रतिनियमस्य कार्ये दुरुपपादात् । तदेवं ब्रह्मणोऽसिद्धौ वेदानां तत्सुप्तप्रबुद्धावस्थात्वप्रतिपादनं परमपुरुषाख्यमहाभूतनिः श्वसिताभिधानं च गगनारविन्दमकरन्दव्यावर्णनवदनवधेयाविषयत्वादुपेक्षामर्हति । यच्चागमः प्रमाणं " सर्व वै खल्विदं ब्रह्मेत्यादि ” “ ऊर्णनाम इत्यादि " च तत्सर्वमुक्तविधिना अद्वैतविरोधीति नावकाशं लभते । न चापौरुषेयं आगमोऽस्तीत्यरोप्रापञ्चयिष्यते । तस्मान्न पुरुषोत्तमोऽपि विचारणां प्राञ्चति ॥ Page #35 -------------------------------------------------------------------------- ________________ ३३: तृतीयसमुद्देशः। प्रत्यक्षतरभेदभिन्नममलं मानं द्विधैवोदितम् । देवैर्दीतगुणैर्विचार्य विधिवत्संख्याततेः संग्रहात् ॥ मानानामिति तदिगप्यभिहितं श्रीरत्ननन्याह्वयै-। स्तद्वयाख्यानमदो विशुद्धधिषणैर्बोद्धव्यमव्याहतम् ॥ १ ॥ मुख्यसंव्यवहाराभ्यां प्रत्यक्षमुपदर्शितम् । देवोक्तमुपजीवद्भिः सूरिभि पितं मया ॥ २॥ इति परीक्षामुखस्य लघुवृत्तौ द्वितीयः समुद्देशः ॥ २ ॥ अथेदानीमुद्दिष्टे प्रत्यक्षतरभेदेन प्रमाणद्वित्त्वे प्रथमभेदं व्याख्याय, इतरद्व्याचष्टे परोक्षमितरदिति ॥ १॥ उक्तप्रतिपक्षमितरच्छब्दो ब्रूते । ततः प्रत्यक्षादितरदिति लभ्यते, तच्च परोक्षमिति । तस्य च सामग्रीस्वरूपे निरूपयन्नाहप्रत्यक्षादिनिमित्तं स्मृतिपत्यभिज्ञानतर्कानुमानागमभेदमिति ॥२॥ प्रत्यक्षादिनिमित्तमित्यत्रादिशब्देन परोक्षमपि गृह्यते । तच्च यथावसरं निरूपयिष्यते । प्रत्यक्षादिनिमित्तं यस्य इति विग्रहः । स्मृत्यादिषु द्वंद्वः । ते मेदा यस्य इति विग्रहः । तत्र स्मृति क्रमप्राप्तां दर्शयन्नाह संस्कारोदाधनिबन्धना तदित्याकारा स्मृतिरिति ॥ ३ ॥ संस्कारस्योद्बोधः प्राकश्यं स निबन्धनं यस्याः सा तथोक्ता । तदित्याकारा तदित्युल्लेखिनी, एवम्भूता स्मृतिर्भवतीति शेषः । उदाहरणमाह . स देवदत्ता ययेति ॥४॥ प्रत्यमिज्ञानं प्राप्तकालमाह-- . . . Page #36 -------------------------------------------------------------------------- ________________ ३४ प्रमेयरत्नमाला। दर्शनस्मरणकारणकं सङ्कलनं प्रत्यभिज्ञानं । तदेवेदं तत्सदृशं तद्विलक्षणं तत्प्रतियोगीत्यादि ॥ ५ ॥ ___ अत्र दर्शनस्मरणकारणकत्वात् सादृश्यादिविषयस्यापि प्रत्यभिज्ञानत्त्वमुक्तम्। येषां तु सादृश्यविषयमुपमानाख्यं प्रमाणान्तरं तेषां वैलक्षण्यादिविषयं प्रमाणान्तरमनुषज्येत । तथा चोक्तम्-" उपमानं प्रसिद्धार्थसाधर्म्यात्साध्यसाधनम् । तद्वैधात्प्रमाणं किं स्यात्संज्ञिप्रतिपादनम् ॥ १ ॥ इदमल्पं महद्दूरमासन्नं प्रांशु नैति वा । व्यपेक्षातः समक्षेऽर्थे विकल्यः साधनान्तर मिति ॥ २ ॥" ऐषां क्रमेणोदाहरणं दर्शयन्नाह___ यथा स एवायं देवदत्तः ॥६॥ गोसदृशो गवयः ॥७॥ गोविलक्षणो महिषः ॥ ८॥ इदमस्मादरम् ॥ ९॥ वृक्षोऽयमित्यादि ॥१०॥ ___ आदिशब्देन—“ पयोम्बुभेदी हंसः स्यात् षट्पादर्भमरः स्मृतः । सप्तपर्णैस्तु तत्त्वज्ञैर्विज्ञेयो विषमच्छदः ॥ १ ॥ पञ्चवर्ण भवेद्रत्नं मेचकाख्यं पृथुस्तनी । युवतिश्चैकश्रृंङ्गोऽपि गण्डकः परिकीर्तितः ॥ २ ॥ शरभोऽप्यष्टभिः पादैः सिंहश्चारुसटान्वितः ।" इत्येवमादिशब्दश्रवणात्तथाविधानेव सरालदीनवलोक्य तथा सत्यापयति यदा तदा तत्सङ्कलनमपि प्रत्यभिज्ञानमुक्तं, दर्शनस्मरणकारणत्वाविशेषात् । परेषां तु तत्प्रमाणन्तरमेवोपपद्यते उपमानाद! तस्यान्तर्भावाभावात् । अथोहोऽवसरप्राप्त इत्याह उपलम्भानुपलम्भनिमित्तं व्याप्तिज्ञानमूहः ॥ ११ ॥ इदमस्मिन्सत्येव भवत्यसति न भवत्यवति च ।। १२ ।। उपलम्मः प्रमाणमात्रमंत्र गृह्यते । यदि प्रत्यक्षमेवोपलम्भशब्देनोच्यते. तदा साधनेष्वनुमेयेषु व्याप्तिज्ञानं न स्यात् । अथ व्याप्तिः सर्वोपसंहारेण प्रतीयते, सा कथमतीन्द्रियस्य साधनस्यातीन्द्रियेण साध्येम भवेदिति । मैवं Page #37 -------------------------------------------------------------------------- ________________ तृतीयसमुद्देशः। प्रत्यक्षविषयेष्विवानुमानविषयेष्वपि व्याप्तेरविरोधात् । तज्ज्ञानस्याप्रत्यक्षत्त्वाभ्युपगमात् । उदाहरणमाह यथानावेव धुमस्तदभाव न भवत्येवेति च ॥ १३॥ इदानीमनुमान क्रमायातमिति तल्लक्षणमाह साधनात्साध्यविज्ञानमनुमानम् ॥ १४ ॥ साधनस्य लक्षणमाह साध्याविनामावित्वेन निश्चितो हेतुः ॥ १५ ॥ ननु त्रैरूप्यमेव हेतोर्लक्षणं, तस्मिन्सत्येव हेतोरसिद्धादिदोष परिहारोपपत्तेः । तथाहि - पक्षवर्मत्वमसिद्धत्त्वव्यवच्छेदार्थमभिधीयते । सपक्षे सत्त्वं तु विरुद्धत्त्वापनोदार्थम् । विपक्षे चासत्त्वमेवानकान्तिकव्युदासार्थमिति । तदुक्तम् “ हेतोस्त्रिष्वषिरूपेषु निर्णयस्तेन वर्णितः । असिद्धविपरीतार्थव्याभि-- चारिविपक्षतः ” इति ॥ १ ॥ तदयुक्तं--अविनामावनियमनिश्चयादेव दोषत्रयपरिहारोपपत्तेः। अविनाभावो ह्यन्यथानुपपन्नत्त्वं, तच्चासिद्धस्य न सम्भवत्येव । अन्यथानुपपन्नत्वमसिद्धस्य सिद्धवतीत्यभिधानात् । नापि विरुद्धस्य तल्लक्षणत्वोपपत्तिविपरीतनिश्चिताविनाभाविनि यथोक्तसाध्याविनामावनियमलक्षणस्यानुपपत्तेविरोधात् व्यभिचारिण्यपि न प्रकृतलक्षणावकाशः । तत एव ततोऽन्यथाऽनुपपत्तिरेव श्रेयसी । न त्रिरूपता । तस्यां सायामपि यथोक्तलक्षणाभावे हेतोर्गमकत्वादर्शनात् । तथाहि-स श्यामस्तस्त्रत्वादितरतत्तुत्रवदित्यत्र त्रैरूप्यसम्भवेऽप्यगमकत्वमुपलक्ष्यते । अथ विपक्षायावृत्तिनियमवती तत्र न दृश्यते । ततो न गमकत्वमिति । तदपि मुग्धविलासित. मेव । तस्या एवाविनाभावरूपत्वात् । इतररूपसद्भावेऽपि तदभावे हेतोः स्वसाध्यसिद्धिम्प्रति गमकत्वानिष्टौ सैव प्रधानं लक्षणमक्षणमुपलक्षणीयमिति । तत्सद्भावें चेतररूपद्वयंनिरपेक्षतया गमकत्वोपपत्तेश्च । यथा सन्त्यद्वैतवादित . Page #38 -------------------------------------------------------------------------- ________________ ३६ प्रमेयरत्नमाला। नोऽपि प्रमाणानीष्टानिष्टसाधनदूषणाऽन्यथाऽनुपपत्तेः । नचात्र पक्षधर्मत्वं सपक्षान्वयो वाऽस्ति । केवलमविनाभावमात्रेण गमकत्वप्रतीतेः। यदप्यपरमुक्तं परैः पक्षधर्मताभावेऽपि काकस्य कार्णोद्धवलः प्रासाद इत्यस्यापि गमकत्वापत्तिरिति तदप्यनेन निरस्तम् । अन्यथानुपपत्तिबलेनैव पक्षधर्मस्यापि साधुत्त्वाभ्युपगमात् । न चेह साऽस्ति । ततोऽविनाभाव एव हेतोः प्रधान लक्षणमभ्युपगन्तव्यम् । तस्मिन्सत्यसति त्रिलक्षणत्त्वेऽपिहेतोर्गमकत्त्वदर्शनादिति न रूप्यं हेतुलक्षणमव्यापकत्वात् । सर्वेषां क्षणिकत्त्वे साध्ये सत्त्वादेः साधनस्य सपक्षे सतोऽपि स्वयं सौगतैर्गमकत्वाभ्युपगमात् ।एतेन पञ्चलक्षणत्त्वमपि योगपरिकल्पितं न हेतोरुपपत्तिमियीत्यभिहितं बोद्धव्यम् । पक्षधमत्वे सत्यन्वयव्यतिरेकावबाधितविषयत्त्वमसत्प्रतिपक्षत्वं चेति पञ्चलक्षणानि, तेषामप्यविनाभावप्रपञ्चतैवाबाधितविषयस्याविनाभावायोगात् । सत्प्रतिपक्षस्येकति साध्यामासविषयत्त्वेनासम्यग्घेतुत्वाच्च । यथोक्तपक्षविषयत्वाभावात्तदोषेणैव दुग्छत्यत् । अतः स्थितं साध्याविनाभावित्वेन निश्चितो हेतुरिति । इदानीमविनाभावभेदं दर्शयन्नाह-- सहक्रमभावनियमोऽविनाभावः ॥ १६ ॥ तत्र सहभावनियमस्य विषयं दर्शयन्नाह-- सहचारिणोव्याप्यव्यापकयोश्च सहभावः ॥ १७॥ सहचारिणो रूपरसयोाप्यव्यापकयोश्च वृक्षत्वशिंशपात्वयोरिति । सप्तम्या विषयो निर्दिष्टः । क्रममावनियमस्य विषयं दर्शयन्नाह पूर्वोत्तरचारिणोः कार्यकारणयोश्च क्रमभावः ॥१८॥ पूर्वोत्तरचारिणोः कृत्तिकोदयशकटोदययोः कार्यकारणयोश्च धूमधूमध्वजयोः गवः । नन्वेवम्भूतस्याविनामावस्य न प्रत्यक्षेण ग्रहणं, तस्य सन्निहित। गत् । नाप्यनुमानेन, प्रकृतापरानुमानकल्पनायामितरेतराश्रयत्वान Page #39 -------------------------------------------------------------------------- ________________ तृतीयसमुद्देशः। वस्थावतारात् । आगमादेरपि भिन्नविषयत्वेन सुप्रसिद्धत्वान्न ततोऽपि तत्प्रतिपत्तिरित्यारेकायामाह-- तत्तिनिर्णयः ॥ १९ ॥ तर्काद्यथोक्तलक्षणादूहात्तन्निर्णय इति । अथेदानीं साध्यलक्षणमाह--- ___ इष्टमबाधितमसिद्धं साध्यम् ॥ २० ॥ अत्रापरे दूषणमाचक्षते--आसनशयनभोजनयाननिधुवनादेरपीष्टत्त्वात्त. दपि साध्यमनुषज्यत इति । तेऽप्यतिबालिशा अप्रस्तुतप्रलपित्वात् । अत्र हि साधनमधिक्रियते । तेन साधनविषयत्वेनेप्सितमिष्टमुच्यते । इदानीं स्वाभिहितसाध्यलक्षणस्य विशेषणानि सफलयन्नसिद्धविशेषणं समर्थयितुमाह संदिग्धविपर्यस्ताव्युत्पन्नानां साध्यत्वं यथा स्यादित्यसिद्धपदम् ॥ २१ ॥ तत्र सन्दिग्धं स्थाणुर्वापुरुषो वेत्यनवधारणेनोभयकोटिपरामर्शसंशयाकलितं वस्तु उच्यते । विपर्यस्तं तु विपरीतावमासिविपर्पयज्ञानविषयभूतं रजतादि । अव्युत्पन्नं तु नामजातिसंख्यादिविशेषापरिज्ञानेनानिीतविषयानध्यवसायग्राह्यम् । एषां साध्यत्वप्रतिपादनार्थमसिद्धपदोपादानमित्यर्थः । अधुनेष्टाबाधित विशेषणद्वयस्य साफल्यं दर्शयन्नाहअनिष्टाध्यक्षादिबाधितयोः साध्यत्वं माभू. दितीष्टाबाधितवचनम् ॥ २२ ॥ अनिष्टो मीमांसकस्यानित्यः शब्दः प्रत्यक्षादिबाधितश्चाश्रावणत्वादिः । आदिशब्देनानुमानागमलोकस्ववचनबाधितानां ग्रहणम् । तदुदाहरणं चाकिञ्चित्करस्य हेत्वाभासस्य निरूपणावसरे स्वयमेव ग्रन्थकारः प्रपञ्चयिष्यतीत्युपरम्यते । तत्रासिद्धपदं प्रतिवाद्यपेक्षयैव, इष्टपदं तु वाद्यपेक्षयति विशेषमुपदर्शयितुमाह Page #40 -------------------------------------------------------------------------- ________________ ३८. प्रमेयरत्नमाला। नचासिद्ध्वदिष्टं प्रतिवादिनः ॥ २३ ॥ अयमर्थः-न हि सर्व सर्वापेक्षया विशेषणमपि तु किञ्चित्कमप्युद्दिश्य भवतीति । असिद्धवदिति व्यतिरेकमुखेनोदाहरणम् । यथा असिद्धं प्रति. वाद्यपेक्षया न तथेष्टमित्यर्थः । कुत एतदित्याह प्रत्यायनाय हीच्छा वक्तुरेव ॥ २४ ॥ इच्छायाः खल्लु विषयीकृतमिष्टमुच्यते । प्रत्यायनाय हीच्छा वक्तुरेवेति । तच साध्यं धर्मः किं वा तद्विशिष्टो धर्मीति प्रश्ने तद्भेदं दर्शयन्नाह___ साध्यं धर्मः कचित्तद्विशिष्टो वा धर्मीति ॥ २५ ॥ सोपस्काराणि वाक्यानि भवन्ति । ततोऽयमर्थों लभ्यते-व्याप्तिकालापेक्षया तु साध्यं धर्मः । कचित्प्रयोगकालापेक्षया तु तद्विशिष्टो धर्मी साध्यः । अस्यैव धर्मिणो नामान्तरमाह पक्ष इति यावत् ॥ २६ ॥ ननु धर्मर्भिसमुदायः पक्ष इति पक्षस्वरूपस्य पुरातनैर्निरूपितत्वाद्धर्मिणस्तद्वचने कथं न राद्धान्तविरोध इति । नैवं-साध्यधर्माधारतया विशेषितस्य धर्मिणः पक्षत्ववचनेऽपि दोषानवकाशात् । रचनावैचित्र्यमात्रेण तात्पर्यस्यानिराकृतत्वात्सिद्धान्ताविरोधात् । अत्राह सौगतः भवतु नाम धर्मी पक्षंव्यपदेशभाक् तथापि सविकल्पबुद्धौ परिवर्तमान एव न वास्तवः ! सर्व एवानुमानानुमेयव्यवहारो बुद्धयारूढेन धर्मधर्मिन्यायेन बहिःसदसत्वमपेक्षत इत्य. भिधानादिति तन्निरासार्थमाह-- प्रसिद्धो धर्मीति ।। २७ ॥ अयमर्थः-नेयं विकल्पबुद्धिर्बहिरन्तर्वाऽनासादितालम्बनभावा धर्मिणं व्यवस्थापयति । तदवास्तवत्वेन तदाधारसाध्यसाधनयोरपि वास्तवत्वानुपपत्तेस्तद्बद्धेः पारंपर्येणापि वस्तुव्यवस्थानिबन्धनत्त्वायोगात् । ततो विकल्पेना Page #41 -------------------------------------------------------------------------- ________________ - तृतीयसमुद्देशः । ३९ न्येन वा व्यवस्थापितः पर्वतादिर्विषयभावं भजन्नेव धर्मितां प्रतिपद्यत इति स्थितं प्रसिद्ध धर्मीति । तत्प्रसिद्धिश्च कचिद्विकल्पतः कचित्प्रमाणतः कचिचोभयत इति नैकान्तेन विकल्पाधिरूढस्य प्रमाणप्रसिद्धस्य वा धर्मित्वम् । ननु धर्मिणो विकल्पात्प्रतिपत्तौ किं तत्र साध्यमित्याशङ्कायामाह - विकल्पसिद्धे तस्मिन्सत्तेतरे साध्ये ॥ २८ ॥ तस्मिन्धर्मिणि विकल्पसिद्धे सत्ता च तदपेक्षयेतराऽसत्ता च ते द्वे अपि साध्ये, निर्णीतासम्भवद्वाधकप्रमाणत्रलेन योग्यानुपलब्धिबलेन चेति शेषः । अत्रोदाहरणमाह अस्ति सर्वज्ञो नास्ति खरविषाणमिति ॥ २९ ॥ सुगमम् । ननु धर्मिण्यसिद्धसत्ता के भावाभावोभयधर्माणामसिद्धविरुद्धानैकान्तिकत्त्वादनुमानविषयत्वायोगात् कथं सत्तेतरयोः साध्यत्त्वम् ? तदुक्तम्—असिद्धो भावधर्मश्चेव्यभिचार्युभयाश्रितः । विरुद्धो धर्मों भावस्य सा सत्ता साध्यते कथम् । इति तदयुक्तम् - मानसप्रत्यक्षे भावरूपस्यैव धर्मिणः प्रतिपन्नत्वात् । न च तत्सिद्धौ तत्सत्त्वस्यापि प्रतिपन्नत्वाद्वयर्थमनुमानम् । तदभ्युपेतमपि वैय्यात्याद्यदा परो न प्रतिपद्यते तदाऽनुमानस्य साफल्यात् । न च मानसज्ञानाद्गगनकुसुमादेरपि सद्भावसम्भावनाऽतोऽतिप्रसङ्गः । तज्ज्ञानस्य वाधकप्रत्ययव्यपाकृतसत्ताकवस्तुविषयतया मानसप्रत्यक्षाभासत्त्वात् । कथं तर्हि तुरगशृङ्गादेर्धर्मिश्वमिति न चोद्यम्---धर्मिप्रयोगकाले बाधकप्रत्ययानुदयात्सत्त्वसम्भावनोपपत्तेः । न च सर्वज्ञादौ साधकप्रमाणासवेन सत्त्वप्रति संशीतिः सुनिश्चितासम्भवद्बाधकप्रमाणत्वेन मुखादाविव सत्वनिश्चयात्तत्र संशयायोगात् । इदानीं प्रमाणोभयसिद्धे धर्मिणि किं साध्यमित्याशङ्कायामाह - प्रमाणोभयसिद्धे तु साध्यधर्मविशिष्टता ॥ ३० ॥ Page #42 -------------------------------------------------------------------------- ________________ ४० प्रमेयरत्नमाला। साध्ये इति शब्दः प्राक् द्विवचनान्तोऽप्यर्थवशादेकवचनान्ततया सम्बध्यते । प्रमाणं चोभयं च विकल्पप्रमाणद्वयं, ताभ्यां सिद्ध धर्मिणि साध्यधमविशिष्टता साध्या । अयमर्थः--प्रमागप्रतिपन्नमपि वस्तु विशिष्टधर्माधारतया विवादपदमारोहतीति साध्यतां नातिवर्तत इति । एवमुभयसिद्वेऽपि योज्यम् । प्रमाणोभयसिद्धं धर्मिद्वयं क्रमेण दर्शयन्नाह-~ अग्निमानयं देशः परिणामी शब्द इति यथा ॥ ३१ ॥ देशो हि प्रत्यक्षेण सिद्धः शब्दस्तुभयसिद्धः । नहि प्रत्यक्षेणाग्दिार्शभिरनियतदिग्देशकालावच्छिन्नाः सर्वे शब्दा निश्चेतुं पर्यन्ते । सर्वदर्शिनस्तु तन्निश्चयेऽपि के प्रत्यनुमानानर्थक्यात् । प्रयोगकालापेक्षया धर्मावेशिष्टधर्मिणः साध्यत्त्वमभिधाय व्यातिकालापेक्षया साध्यनियमं दर्शयन्नाह ___ व्याप्तौ तु साध्यं धर्म एवेति ॥ ३२ ॥ सुगमम् । धर्मिणोऽपि साध्यत्त्वे को दोष इत्यत्राह ___ अन्यथा तदघटनादिति ॥ ३३ ॥ उक्तविपर्ययेऽन्यथाशब्दः । धर्मिणः साध्यत्वे तदघटनात् व्याप्त्यबटनादिति हेतुः । न हि धूमदर्शनात्सर्वत्र पर्वतोऽग्निमानिति व्याप्तिः शक्या कर्तुं प्रमाणविरोधात् । नन्वनुमाने पक्षप्रयोगस्यासम्भवात् प्रसिद्धो धर्मीत्यादिवचनमयुक्तम् । तस्य सामर्थ्यलब्धत्वात् । तथापि तद्वचने पुनरुक्तताप्रसङ्गात् । अर्थादापन्नस्यापि पुनर्वचनं पुनरुक्तमित्यभिधानादिाते सौगतस्तत्राह-- साध्यधर्माधारसन्देहापनोदाय गम्यमान स्यापि पक्षस्य वचनम् ।। ३४ ॥ साध्यमेव धर्मस्तस्याधारस्तत्र सन्देहो महानसादिः पर्वतादिति । तस्यापनोदो व्यवच्छेदस्तदर्थ गम्यमानस्यापि साध्यसाधनयोाप्यव्यापकभावप्रदर्शनान्यथानुपपत्तेस्तदाधारस्य गम्यमानस्यापि पक्षस्य वचनं प्रयोगः । अत्रोदाहरणमाह Page #43 -------------------------------------------------------------------------- ________________ तृतीयसमुद्देशः। ४१ साध्यधर्मिणि साधनधर्मावबोधनाय पक्षधर्मोपसंहारवत् ॥ ३५॥ - साध्येन विविष्टो धर्मी पर्वतादिस्तत्र साधनधर्मावबोधनाय पक्षधर्मोपसंहारवत् । पक्षधर्मस्य हेतोरुपसंहार उपनयस्तद्वदिति । अयमर्थः- साध्यव्याप्तसाधनप्रदर्शनेन तदाधारावगतावपि नियतधार्मिसम्बन्धिताप्रदर्शनार्थ यथोपनयस्तथा साध्यस्य विशिष्टधर्मिसम्बन्धितावबोधनाय पक्षवचनमपीति । किञ्च हेतुप्रयोगेऽपि समर्थनमवश्यं वक्तव्यम् । असमर्थितस्य हेतुत्वायोगात् । तथा च समर्थनोपन्यासादेव हेतोः सामर्थ्यसिद्धत्वाद्धेतुप्रयोगोऽनर्थकः स्यात् । हेतुप्रयोगाभावे कस्य समर्थनमिति चेत् —पक्षप्रयोगाभावे व हेतुवर्ततामिति समानमेतत् । तस्मात्कार्यस्वभावानुपलम्भभेदेन पक्षधर्मत्वादिभेदेन च त्रिधा हेतुमुक्त्वा समर्थयमानेन पक्षप्रयोगोऽप्यभ्युपगन्तव्य एवेति । अमुमेवार्थमाहको वा त्रिधा हेतुमुक्त्वा समर्थयमानो न पक्षयति ॥ ३६॥ __को वा वादी प्रतिवादी चेत्यर्थः । किलार्थे वा शब्दः । युक्त्या पक्षप्रयोगस्यावश्यंभावे कः किल न पक्षयति ? पक्ष न करोत्यपि तु करोत्येव । किं कुर्वन्समर्थयमानः । किं कृत्वा हेतुमुक्त्वैव । न पुनरनुक्त्वेत्यर्थः । समर्थनं हि हेतोरसिद्धत्वादिदोषपरिहारेण स्वसाध्यसाधनसामर्थ्यप्ररूपणप्रवणं वचनम् । तच्च हेतुप्रयोगोत्तरकालं परेणाङ्गीकृतमित्युक्त्वेति वचनम् । ननु भवतु पक्षप्रयोगस्तथापि पक्षहेतुदृष्टान्तभेदेन त्र्यवयवमनुमानमिति सांख्यः । प्रतिज्ञाहेतूदाहरणोपनयभेदेन चतुरवयवमिति मीमांसकः । प्रतिज्ञाहेतूदाहरणोपनयनिगमनभेदात्पञ्चावयवामिति यौगः । तन्मतमपाकुर्वन्स्वमतसिद्धमवयवद्वयमेवोपदर्शयन्नाह एतद्वयमेवानुमानाङ्गं नोदारहरणमिति ॥ ३७ ।। - एतयोः पक्षहेत्वोर्द्वयमेव नातिरिक्तमित्यर्थः । एवकारेणैवोदाहरणादिव्यव Page #44 -------------------------------------------------------------------------- ________________ ४२ . . . प्रमेयरत्नमाला। च्छेदे सिद्धऽपि परमतनिरासार्थं पुनर्नोदाहरणमित्युक्तम् । तद्धि किं साध्यप्रतिपत्त्यर्थमुतस्विद्धतोरविना भावनियमार्थमाहोस्विद्व्याप्तिस्मरणार्थमिति विकल्पान् क्रमेण दूषयन्नाहन हि तत्साध्यमतिपत्त्यङ्गं तत्र यथोक्तहेतारेव व्यापारात् ॥३८॥ तदुदाहरणं साध्यप्रतिपत्तेरङ्गं कारणं नेति सम्बन्धः । तत्र साध्यप्रतिपत्तौ यथोक्तस्य साध्याविनाभावित्वेन निश्चितस्य हेतोव्यापारादिति । द्वितीयविकल्पं शोधयन्नाह-- तदविनाभावनिथयार्थं वा विपक्षे वाधकादेव तत्सिद्धेः ॥ ३९ ॥ तदिति वर्तते । नेति च । तेनायमर्थः तदुदाहरणं तेन साध्येनाविनाभावनिश्चयार्थ वा न भवतीति । विपक्षे बाधकादेव तसिद्धरविनाभावनिश्चयसिद्धेः । किञ्च व्यक्तिरूपं निदर्शनं तत्कथं साकल्येन व्याप्तिं गमयेत् । • व्यक्त्यन्तरेषु व्याप्त्यर्थं पुनरुदाहरणान्तरं मृग्यम् । तस्यापि व्यक्तिरूपत्त्वेन सामान्येन व्याप्तरवधारयितुमशक्यत्त्वादपरापरतदन्तरापेक्षायामनवस्था स्यात् । 'एतदेवाह व्यक्तिरूपं च निदर्शनं सामान्येन तु व्याप्तिस्तत्रापितद्विप्रति पत्तावनवस्थानं स्यात् दृष्टान्तान्तरापेक्षणात् ॥ ४० ॥ तत्रापि उदाहरणेऽपि । तद्विप्रतिपत्तौ सामान्यव्याप्तिविप्रतिपत्ताविल्यर्थः । शेषं व्याख्यातम् । तृतीयविकल्ये दूषणमाह - नापि व्याप्तिस्मरणार्थ तथाविधेहतुपयोगादेव तत्स्मृतेः ॥४१॥ गृहीतसम्बन्धस्य हेतुप्रदर्शनेनैव व्याप्तिसिद्धिरगृहीतसम्बन्धस्य दृष्टान्तशतेनापि न तत्स्मरणमनुभूतविषयत्त्वात्स्मरणस्येति--भावः । तदेवमुदाहरणप्रयोगस्य साध्यार्थप्रति नोपयोगित्वं प्रत्युत संशयहेतुत्वमेवेति दर्शयतितत्परमभिधीयमानं साध्यधर्मिणिसाध्यसाधने सन्देहयति ॥४२॥ Page #45 -------------------------------------------------------------------------- ________________ तृतीयसमुद्देशः। तदुदाहरणं परं केवलमभिधीयमानं साध्यमिणि साध्यविशिष्टेधर्मिणि साध्यसाधने सन्देहयति सन्देहवती करोति । दृष्टान्तधर्मिणि साध्यव्याप्तसाधनोपदर्शनेऽपि साध्यधर्मिणि तन्निर्णयस्य कर्तुमशक्यत्वादिति शेषः । अमुमेवार्थ व्यतिरेकमुखेन समर्थयमानः प्राह कुतोऽन्यथोपनयनिगमने ॥ ४३ ॥ अन्यथा संशयहेतुत्वाभावे कस्माद्धेतोरुपनयनिगमने प्रयुज्यते । अपरः प्राह-उपनयनिगमनयोरप्युमानाङ्गत्वमेव, तदप्रयोग निरवकरसाध्यसंवित्तेरयोगादिति । तनिषेधार्थमाह न च ते तदङ्गे । साध्यधर्मिणि हेतुसाध्य __ योर्वचनादेवासंशयात् ॥ ४४ ॥ ते उपनयनिगमने अपि वक्ष्यमाणलक्षणे तस्यानुमानस्याङ्गे न भवतः ! साध्यधर्मिण हेतुसाध्ययोर्वचनादेवत्येवकारेण दृष्टान्तादिकमन्तरेणेत्यर्थः । किञ्चाभिधायापि दृष्टान्तादिक समर्थनमवश्यं वक्तव्यमसमर्थितस्याहेतुत्वादिति तदेव वरं हेतुरूपमनुमानावयवो वाऽस्तु साध्यसिद्धौ तस्यैवोपयोगानोदाहरणादिकमेतदेवाह-- ___ समर्थन वा वरं हेतुरूपमनुमानावयवो वाऽस्तु साध्ये तदुपयोगात् ॥ ४५ ॥ प्रथमो वाशब्द एवकारार्थे । द्वितीयस्तु पक्षान्तरसूचने । शेषं सुगमम् । ननु दृष्टान्तादिकमन्तरेण मन्दधियामवबोधयितुमशक्यत्वात्कथं पक्षहेतुप्रयोगमात्रेण तेषां साध्यविप्रतिपतिरिति तत्राह बालव्युत्पत्त्यर्थ तत्रयोपगमे शास्त्र एवासौ न वादेऽनुपयोगादिति ॥ ४६॥ बालानां अल्पप्रज्ञानां व्युत्पत्त्यर्थं तेषामुदाहरणादीनां त्रयोपगमे शास्त्र Page #46 -------------------------------------------------------------------------- ________________ प्रमेयरत्नमाला। एवासौ तत्रयोपगमो न वादे नहि वादकाले शिष्या व्युत्पाद्याः । व्युत्पन्नानामेव तत्राधिकारादिति । बालव्युत्पत्त्यर्थं तत्रयोपगम इत्यादिना शास्त्रेऽभ्युपगतमेवोदाहरणादित्रयमुपदर्शयति___दृष्टान्तो द्वेधा । अन्वयव्यतिरेकभेदादिति ॥४७॥ दृष्टावन्तौ साध्यसाधनलक्षणौ धर्मावन्वयमुखेन व्यतिरेकद्वारेण वा यत्र स दृष्टान्त इत्यन्वर्थसंज्ञाकरणात् । स द्वेधैवोपपद्यते । तत्रान्वयदृष्टान्तं दर्शयन्नाहसाध्यव्याप्तं साधनं यत्र प्रदश्यते सोऽन्वयदृष्टान्तः ॥ ४८ ॥ साध्येन व्याप्तं नियत साधनं हेतुर्यत्र दयते व्याप्तिपूर्वकतयेति भावः । द्वितीयभेदमुपदर्शयतिसाध्याभावे साधनाभावो यत्र कथ्यते स व्यतिरेकदृष्टान्तः ॥४९॥ असत्यसद्भावो व्यतिरेकः । तत्प्रधानो दृष्टान्तो व्यतिरेकदृष्टान्त: । साध्याभावे साधनस्याभाव एवेति सावधारणं द्रष्टव्यम् । क्रमप्राप्तमुपनयस्वरूपं निरूपयति हेतोरुपसंहार उपनयः ॥ ५० ॥ ___ पक्षे इत्यध्याहारः । तेनायमर्थः-हेतोः पक्षधर्मतयोपसंहार उपनय इति । निगमनस्वरूपमुपदर्शयति प्रतिज्ञायास्तु निगमनमिति ॥ ५१ ॥ उपसंहार इति वर्तते । प्रतिज्ञाया उपसंहारः साध्यधर्मविशिष्टत्वेन प्रदर्शनं निगमनमित्यर्थः । ननु शास्त्रे दृष्टान्तादयो वक्तव्या एवति नियमानभ्युपगमात्कथं तत्रयमिह सूरेभिः प्रपञ्चितमिति न चोद्यम् । स्वयमनभ्युपगमेऽपि प्रतिपाद्यानुरोधेन जिनमतानुसारािभः प्रयोगपरिपाट्याः प्रतिपन्नत्वात् । सा चाज्ञाततत्स्वरूपैः कर्तुं न शक्यत इति तत्स्वरूपमपि शास्त्रेऽभिधातव्य Page #47 -------------------------------------------------------------------------- ________________ तृतीयसमुद्देशः । ४५ मेवेति । तदेवं मतभेदेन द्वित्रिचतुः पंचावयवरूपमनुमानं द्विप्रकारमेवेति दर्शयन्नाह - तदनुमानं द्वेधा ॥ ५२ ॥ स्वार्थपरार्थभेदादिति ॥ ५३ ॥ स्वपरविप्रतिपत्तिनिरासफलत्वाद्विविधमेवेति भावः । स्वार्थानुमानभेदं दर्श तद्वैविध्यमेवाह—— यन्नाह— स्वार्थमुक्तलक्षणम् ॥ ५४ ॥ साधनात्साध्य विज्ञानमनुमानमिति प्रागुक्तं लक्षणं यस्य तत्तथोक्तमित्यर्थः । द्वितीयमनुमानभेदं दर्शयन्नाह- परार्थ तु तदर्थपरामर्शिवचनाज्जातमिति ॥ ५५ ॥ " तस्य स्वार्थानुमानस्यार्थः साध्यसाधनलक्षणः । तं परामृशतीत्येवं शीलं तदर्थपरामर्श । तच्च तद्वचनं च तस्माज्जातमुत्पन्नं विज्ञानं परार्थानुमान - मिति । ननु वचनात्मकं परार्थानुमानं प्रसिद्धं तत्कथं तदर्थप्रतिपादकवचनजनितविज्ञानस्य परार्थानुमानत्वमभिदधता न संग्रहीतमिति न वाच्यम् । अचेतनस्य साक्षात्प्रमितिहेतुत्वाभावेन निरुपचरितप्रमाणभावाभावत् । मुख्यनुमानहेतुत्वेन तस्योपचरितानुमानव्यपदेशो न वार्यत एव । तदेवोपचरितं परार्थानुमानत्वं तद्वचनस्याचार्यः प्राह तद्वचनमपि तद्धेतुत्वादिति ॥ ५६ ॥ · उपचारो हि मुख्याभावे सति प्रयोजने निमित्ते च प्रवर्त्तते । तत्र वच नस्य परार्थानुमानत्वे निमित्तं तद्धेतुत्वम् । तस्य प्रतिपाद्यानुमानस्य हेतुस्तद्वेतुस्तस्य भावस्तत्त्वम् । तस्मान्निमित्तात्तद्वचनमपि परार्थानुमानप्रतिपादकवचनमपि परार्थानुमानमिति सम्बन्धः । कारणे कार्यस्योपचारात् । अथवा Page #48 -------------------------------------------------------------------------- ________________ प्रमेयरत्नमाला। तत्प्रतिपादकानुमानं हेतुर्यस्य तत्तद्धेतुस्तस्य भावस्तत्त्वं ततस्तद्वचनमपि तथेति सम्बन्धः । अस्मिन्पक्षे कार्ये कारणस्योपचार इति शेषः । वचनस्यानुमानत्वे च प्रयोजनमनुमानावयवाः प्रतिज्ञादय इति शास्त्रे व्यवहार एव । ज्ञानामत्मन्यनशे तद्वयवहारस्याशक्यकल्पनत्वात् । तदेव साधनात् साध्यविज्ञानमनुमानमित्यनुमानसामान्यलक्षणम् । तदनुमानं द्वेधेत्यादिना तत्प्रकारं च सप्रपञ्चमभिधाय साधनमुक्तलक्षणापेक्षयैकमप्यतिसंक्षेपेण भिद्यमानं द्विविधमित्युपदर्शयति स हेतुधोपलब्ध्यनुपलब्धिभेदादिति ॥ ५७ ॥ सुगममेतत् । तत्रोपलब्धिर्विधिसाधिकैव । अनुपलब्धिः प्रतिषेधसाधिकैवेति । परस्य नियमं विघटयन्नुपलब्धेरनुपलब्धेश्चाविशेषेण विधिप्रतिषेधसाधनावमाह . उपलब्धिर्विधिप्रतिषेधयोरनुपलब्धिश्चेति ॥ ५८ ॥ गतार्थमेतत् । इदानीमुपलब्धेरपि संक्षेपेण विरुद्धाविरुद्धभेदात् द्वैविध्यमुपदर्शयन्नाविरुद्धोपलब्धेर्विधौ साध्ये विस्तरतो भेदमाहअविरुद्धोपलब्धिर्विधौ षोढा व्याप्यकार्यकारण : पूर्वोत्तरसहचर भेदादिति ॥ ५९॥ पूर्व च उत्तरं च सह चेति द्वंद्वः । पूर्वोत्तरसह इत्येतेभ्यश्चर इत्यनुकरणनिर्देशः द्वन्द्वात् श्रूयमाणश्चरशब्दः प्रत्येकमभिसम्बध्यते । तेनायमर्थः पूर्वचरोत्तरचरसहचरा इति । पश्चाद्व्याप्यादिभिः सह द्वन्द्वः । अत्राह सौगतःविधिसाधनं द्विविधमेव । स्वभावकार्यभेदात् । कारणस्य तु कार्याविनाभावाभावादलिङ्गत्वम् । नावश्यं कारणानि कार्यवन्ति भवन्तीति वचनात् । अप्रतिबद्धसामर्थ्यस्य कार्यम्प्रति गमकत्वमित्यपि नोत्तरम् । सामर्थ्यस्यातीन्द्रियतया विद्यमानस्यापि निश्चेतुमशक्यत्त्वादिति । तदसमीक्षिताभिधानमिति दर्शयितुमाह Page #49 -------------------------------------------------------------------------- ________________ तृतीयसमुद्देशः । ४७ रसादेक सामग्यनुमानेन रूपानुमानमिच्छारिष्टमेव किंश्चित्कारणं हेतुर्यत्र सामर्थ्याप्रतिबन्धकारणान्तरावैकल्ये ॥ ६० ॥ आस्वाद्यमानाद्धि रसात्तज्जनिका सामग्न्यनुमीयते । ततो रूपानुमानं भवति । प्राक्तनो हि रूपक्षणः सजातीयं रूपक्षणान्तरलक्षणं कार्य कुर्वन्नेव विजातीयं रसलक्षणं कार्य करोतीति रूपानुमानमिच्छद्भिरिष्टमेव किञ्चित्कारणं हेतुः प्राक्तनस्य रूपक्षणस्य सजातीयरूपक्षणान्तराव्यभिचारात् ॥ अन्यथा रससमानकालरूपप्रतिपत्तेरयोगात् । नानुकूलमात्र मन्त्यक्षणप्राप्तं वा कारणं लिङ्गमिष्यते । येन मणिमन्त्रादिना सामर्थ्यप्रतिबन्धात्कारणान्तरवैक-1 ल्येन वा कार्यव्यभिचारित्वं स्यात् द्वितीयक्षणे कार्यप्रत्यक्षीकरणेनाऽनुमानानर्थक्यं वा । कार्याविनाभावितया निश्चितस्य विशिष्टकारणस्य छनादेर्लिङ्गत्वेनाङ्गीकरणात् यत्र सामर्थ्याप्रतिबन्धः कारणान्तरावैकल्यं निश्चीयते तस्यैव:: लिङ्गत्वं नान्यस्येति नोक्तदोषप्रसङ्गः । इदानीं पूर्वोत्तरचरयोः स्वभाव कार्यकारणेष्वनन्तर्भावाद्भेदान्तरत्वमेवेति दर्शयति— न च पूर्वोत्तरचारिणोस्तादात्म्यं तदुत्पत्तिर्वा कालव्यवधाने तदनुपलब्धेरिति ॥ ६१ ॥ तादात्म्यसम्बन्धे साध्यसाधनयोः स्वभावहेतावन्तर्भावः, तदुत्पत्तिस -- म्बन्धे च कार्ये कारणे वाम्तर्भावो विमान्यते । न च तदुभयसम्भवःकालव्यवधाने तदनुपलब्धेः । सहभाविनोरेव तादात्म्यसम्भवादनन्तरयो रेक पूर्वोत्तरक्षण यो हेतुफलभावस्य दृष्टत्वात् । व्यवहितयोस्तदघटनात् । ननु . कालव्यवधानेऽपि कार्यकारणभावो दृश्यत एव । यथा जाग्रत्प्रबुद्धदशामा -- विप्रबोधयोर्मरणारिष्टयोर्वेति । तत्परिहारार्थमाह- * भाव्यतीतयोर्मरणजाग्रह। घयोरपि नारि Page #50 -------------------------------------------------------------------------- ________________ ४८ प्रमेयरत्नमाला। __ष्टोद्धोधौ प्रति हेतुत्वम् ॥ ६२ ॥ सुगममेतत् । अत्रैवोपपत्तिमाह-- तयापाराश्रितं हि तद्भावभावित्वम् ॥ ६३ ॥ हिशब्दो यस्मादर्थे । यस्मात्तस्य कारणस्य भावे कार्यस्य भावित्वं तद्भावभावित्त्वं तच्च तद्वयापाराश्रितं तस्मान्न प्रकृतयोः कार्यकारणभाव इत्यर्थः । अयमर्थःअन्वयव्यतिरेकसमधिगम्यो हि सर्वत्र कार्यकारणभावः । तौ च कार्यम्प्रति कारणव्यापारसव्यपेक्षावेवोपपद्यते कुलालस्येव कलशम्प्रति । न चातिव्यवहितेषु तद्वयापाराश्रितत्त्वमिति । सहचरस्याप्युक्तहेतुष्वनन्तर्भावं दर्शयति-- सहचारिणोरपि परस्परपरिहारेणावस्थानात्सहोत्पादाच ॥ ६४ ॥ __ हेत्वन्तरत्वमिति शेषः । अयमभिप्रायः परस्परपरिहारेणोपलम्भात्तादारम्यासम्भवात्स्वभावहेतावनन्तर्भावः । सहोत्पादाच्च न काय कारणे वेति । न च समानतमयवर्तिनोः कार्यकारणभावः सव्येतरगोविषाणवत् । कार्यकारणयोः प्रतिनियमाभावप्रसङ्गाच्च । तस्माद्धत्वन्तरत्वमेवेति । इदानी च्याप्यहेतुं क्रमप्राप्तमुदाहरन्नुक्तान्वयव्यतिरेकपुरस्सर प्रतिपाद्याशयवशात्प्रतिपादितप्रतिज्ञाद्यवयवपञ्चकं प्रदर्शयतिपरिणामी शब्दः कृतकत्त्वात् । य एवं स एवं दृष्टो, यथा घटः, कृतकवायं, तस्मात्परिणामीति, यस्तु न परिणामी स न कृतको दृष्टो यथा वन्न्यास्तनन्धयः, कृतकश्चार्य, तस्मात्प रिणामीति ।। ६५॥ स्वोत्पत्ती अपेक्षितव्यापारो हि भावः कृतक उच्यते । तच्च कृतकत्वं न कूटस्थानित्यपक्षे नापि क्षणिकपक्षे किन्तु परिणामित्त्वे सत्येवेत्यो वक्ष्यते। कार्यहेतुमाह अस्त्यत्र देहिनि बुदिाहारादेः ॥ ६६ ॥ Page #51 -------------------------------------------------------------------------- ________________ .. तृतीयसमुद्देशः। कारणहेतुमाह अस्त्यत्रच्छाया छत्रात् ॥ ६७ ॥ अथ पूर्वचरहेतुमाह. उदेष्यति शकटं कृत्तिकोदयात् ॥ ६८ ॥ मुहूर्तान्ते इतिसम्बन्धः । अथोत्तरचरः उदगाद्भरणिः प्राक्तत एव ॥ ६९ ॥ अत्रापि मुहूर्ताप्रागिति सम्बन्धनीय, तत एव कृत्तिकोदयादेवेत्यर्थः । सहचरालिङ्गमाह- अस्त्यत्र मातुलिङ्गे रूपं रसात् ॥ ७० ॥ विरुद्धोपलब्धिमाह विरुद्ध तदुपलब्धिः प्रतिषेधे तथेति ॥ ७१ ॥ प्रतिषेधे साध्येऽप्रतिध्येन विरुद्धानां सम्बन्विनस्ते व्याप्यादयस्तेषामुपलब्धय इत्यर्थः । तथेति षोढेति भावः । तत्र साध्यविरुद्धव्याप्योपलब्धिमाह नास्त्यत्र शीतसार्श औष्ण्यात् ।। ७२ ॥ शीतस्पर्शप्रतिषेधेन हि विरुद्धोऽग्निस्तद्व्याप्यमौष्ण्यमिति । विरुद्धकार्योपलम्भमाह नास्त्यत्र शीतस्पर्शो धृमात् ।। ७३ ॥ अत्रापि प्रतिषेध्यस्य साध्यस्य शीतस्पर्शस्य विरुद्धोऽग्निस्तस्यकार्य धूम इति । विरुद्धकारणोपलब्धिमाह नास्मिन् शरीरिणि सुखमस्ति हृदयशल्यात् ॥ ७४॥ सुखविरोधि दुःखं, तस्य कारणं हृदयशल्यमिति । विरुद्धपूर्वचरमाह नोदेष्यति मुहूर्तान्ते शकटं रेवत्युदयात् ॥ ७५ ॥ शकटोदयविरुद्धो ह्यश्विन्युदयस्तत्पूर्वचरो रेवत्युदय इति । विरुद्धोत्तरचरं लिङ्गमाह Page #52 -------------------------------------------------------------------------- ________________ प्रमेयस्त्नमाला। नोदगाद्भरणिमुहूर्तात्पूर्व पुष्योदयात् ॥ ७६॥ भरण्युदयविरुद्धो हि पुनर्वसूदयस्तदुत्तरचरः पुष्योदय इति । विरुद्धसहचरमाह नास्त्यत्र भित्तौ परभागाभावोऽग्भिागदर्शनादिति ॥७७॥ परभागाभावस्य विरुद्धस्तद्भावस्तत्सहचरोऽर्वाग्भाग इति । अविरुद्धानुपलब्धिभेदमाह अविरुद्धानुपलब्धिः प्रतिषेधे सप्तधा स्वभावव्यापककार्य कारणपूर्वोत्तरसहचरानुपलम्भभेदादिति ॥ ७८ ॥ स्वभावादिपदानां द्वन्द्वः तेषामनुपलम्भ इति पश्चाच्छष्टीतत्पुरुषः समासः । स्वभावानुपलम्भोदाहरणमाह नास्त्यत्र भूतले घटोऽनुपलब्धेः ॥ ७९ ॥ अत्र पिशाचपरमाण्वादिभिर्व्यभिचारपरिहारार्थमुपलब्धिलक्षणप्राप्तत्त्वे सतीति विशेषणमुन्नेयम् । व्यापकानुपलब्धिमाह नास्त्यत्र शिंशपा वृक्षानुपलब्धेः॥ ८॥ शिंशपात्वं हि वृक्षत्वेन व्याप्तम् । तदभावे तद्वयाप्यशिंशपाया अप्यभावः । कार्यानुपलब्धिमाह नास्त्यत्राप्रतिबद्धसामोऽग्निधूमानुपलब्धः ॥ ८१ ॥ अप्रतिबद्धसामर्थ्य हि कार्य प्रत्यनुपहतशक्तिकत्वमुच्यते । तदभावश्च कार्यानुपलम्भादिति । कारणानुपलब्धिमाह नास्त्यत्र धूमोऽननेः ॥ ८२ ॥ पूर्वचरनुपलब्धिमाहन भविष्यति मृहूर्तान्ते इकटं कृत्तिकोदयानुपलब्धेः ॥ ८३ ॥ उत्तरचरानुपलब्धिमाह Page #53 -------------------------------------------------------------------------- ________________ तृतीयसमुद्देशः। नोदगागरणिर्मुहूर्तात्माक्तत एव ॥ ८४ ॥ तत एव कृत्तिकोदयानुपलब्धेरेवेत्यर्थः । सहचरानुपलब्धिः प्राप्तकालत्याह नास्त्यत्र समतलायामुन्नामो नामानुपलब्धेः॥ ८५॥ विरुद्धकार्याद्यनुपलब्धिर्विधौ सम्भवतीत्याचक्षाणस्तद्भेदास्त्रय एवेति तानेव प्रदर्शयितुमाह विरुद्धानुपलब्धिर्विधौ धा । विरुद्धकार्यकारणस्वभावानुपलब्धिभेदात् ॥ ८६ ॥ विरुद्धकार्याद्यनुपलब्धिर्विधौ सम्भवतीति विरुद्धकार्यकारणस्वभावानुगलब्धिरिति । तत्र विरुद्धकार्यानुपलब्धिमाह यथाऽस्मिन्पाणिनि व्याधिविशेषोऽस्ति निरामयचेष्टानुपलब्धेरित ॥ ८७ ॥ ___ व्याधिविशेषस्य हि विरुद्धस्तदभावस्तस्य कार्य निरामयचेष्टा तस्या अनुपलब्धिरिति । विरुद्ध कारणानुपलब्धिमाह - अस्त्यत्र देहिनि दुःखमिष्टसंयोगाभावात् ॥ ८८॥ दुःखविरोधि सुखं, तस्य कारणमिष्टसंयोगस्तदनुपलब्धिरिति । विरुद्धस्वभावानुपलब्धिमाह अनेकान्तात्मकं वस्त्वेकान्तस्वरूपानुपलब्धेः ॥ ८९ ॥ अनेकान्तात्मकाविरोधी नित्यायेकान्तः । न पुनस्तद्विषयविज्ञानम् । तस्य मिथ्याज्ञानरूपतयोपलम्भसम्भवात् । तस्य स्वरूपमवास्तवाकारस्तस्यानुपलब्धिः। ननु च व्यापकविरुद्धकार्यादीनां परम्परया विरोधिकार्यादिलिङ्गानां च बहुलमुपलम्भसम्भवात्तान्यपि किमिति नाचार्येरुदाहृतानीत्याशङ्कायामाह परम्पस्या-सम्भाधनमात्रैवान्तर्भावनीयम् ॥ ९० ॥ अत्रैवैतेषु कादिवत्यः सरितस्पैम सामूनस्योपलक्षणार्थमुदाहरणद्वयं प्रदर्शयति-144 Page #54 -------------------------------------------------------------------------- ________________ प्रमेयरत्नमाला। अभूदत्र चक्रे शिवकः स्थासात् ॥ ९१ ॥ एतच्च किं संज्ञिक कान्तर्भवतीत्यारेकायामाह कार्यकार्यमविरुद्धकार्योंपलब्धौ ॥ ९२ ॥ अन्तर्भावनीयमिति सम्बन्धः । शिवकस्य हि कार्य छत्रकं, तस्य कार्य स्थास इति । दृष्टान्तद्वारेण द्वितीयहेतुमुदाहरति-- नास्त्यत्र गुहायां मृगक्रीडनं मृगारिसंशब्दनात् । कारणविरुद्धकार्य विरुद्धकार्योपलब्धौ यथेति ॥ ९३ ॥ मृगक्रीडनस्य हि कारणं मृगस्तस्य विरोधी मृगारिस्तस्य कार्यं तच्छब्दनमिति । इदं यथा विरुद्धकार्योपलब्धावन्तर्भवति तथा प्रकृतमपीत्यर्थः । बालव्युत्पत्त्यर्थं पञ्चावयवप्रयोग इत्युक्तं व्युत्पन्न प्रति कथं प्रयोगनियम इति शङ्कायामाह-- ___व्युत्पन्नपयोगस्तु तथोपपत्त्याऽन्यथानुपपत्त्यैव वा ॥ ९४ ॥ व्युत्पन्नस्य व्युत्पन्नाय वा प्रयोगः क्रियते इति शेषः । तथोपपत्त्या तथा साध्ये सत्येवोपपत्तिस्तया अन्यथानुपपत्त्यैव वा अन्यथा साध्याभावेऽनुपपत्तिस्तया । तामेवानुमानमुद्रामुन्मुद्रयति __ अग्निमानयं देशस्तथैव धूमवत्त्वोपपत्तेधूमवत्त्वान्यथानुपप. त्तेर्वेति ॥ ९५॥ ननु तदतिरिक्तदृष्टान्तादेरपि व्याप्तिप्रतिपत्तावुपयोगित्वात् । व्युत्पन्नापेक्षया कथं तदप्रयोग इत्याह हेतुप्रयोगो हि यथाव्याप्तिग्रहणं विधीयते सा च तावन्मात्रेण व्युत्पनैरवधार्यते इति ॥ ९६ ॥ हिशब्दो यस्मादर्थे, यस्माद्यथाव्याप्तिग्रहणं व्याप्तिग्रहणानतिक्रमेणैव हेतुप्रयोगो विधीयते । सा च तावन्मात्रेण व्युत्पन्नस्तथोपपत्त्याऽन्यथानुपपत्त्या Page #55 -------------------------------------------------------------------------- ________________ तृतीयसमुद्देशः । वाऽवधार्यते दृष्टान्तादिकमन्तरेणैवेत्यर्थः । यथा दृष्टान्तादेर्व्याप्तिप्रतिपत्तिम्प्रत्यनङ्गत्वं तथा प्राक् प्रपञ्चितमिति नेह पुनः प्रतन्यते । नापि दृष्टान्तादिप्रयोगः साध्यसिद्धयर्थं फलवानित्याह | ५३ तावता च साध्यसिद्धिः ॥ ९७ ॥ चकार एवकारार्थे । निश्चितविपक्षासम्भवहेतु प्रयोगमात्रेणैव साध्यसिद्धिरित्यर्थः । तेन पक्षप्रयोगोऽपे सफल इति दर्शयन्नाह - तेन पक्षस्तदाधारसूचनायोक्तः ॥ ९८ ॥ यतस्तथोपपत्त्यन्यथानुपपत्तिप्रयोगमात्रेण व्याप्तिप्रतिपत्तिस्तेन हेतुना पक्षस्तदाधारसूचनाय साध्यव्याप्त साधनाधारसूचनायोक्तः । ततो यदुक्तं परेणतद्भावहेतुभावौ हि दृष्टान्ते तदवेदिनः । ख्याप्येते विदुषां वाच्यो हेतुरेव हि केवलः ॥ १ ॥ इति तन्निरस्तम् । व्युत्पन्नं प्रति यथोक्तहेतुप्रयोगोऽपि पक्षप्रयोगाभावे साधनस्य नियताधारतानवधारणात् । अथानुमानस्वरूप प्रतिपाद्येदानीं क्रमप्राप्तमागमस्वरूपं निरूपयितुमाह आप्तवचनादिनिबन्धनमर्थज्ञानमागमः ॥ ९९ ॥ यो यत्रावञ्चकः स तत्राप्तः । आप्तस्य वचनम् । आदिशब्देनांगुल्यादिसंज्ञापरिग्रहः । आप्तवचनमादिर्यस्य तत्तथोक्तं तन्निबन्धनं यस्यार्थज्ञानस्येति । आतशब्दोपादानादपौरुषेयत्वव्यवच्छेदः । अर्थज्ञानमित्यनेनान्यापोहज्ञानस्याभिप्रायसूचनस्य च निरासः । नन्वसम्भवीदं लक्षणं, शब्दस्य नित्यत्वेनापौरुषेयत्वादाप्तप्रणीतत्वायोगात् । तन्नित्यत्वं च तदवयवानां वर्णानां व्यापकत्वान्नित्यत्वाच्च । न च तद्व्यापकत्वमसिद्धम् । एकत्र प्रयुक्तस्य गकारादेः प्रत्यभिज्ञया देशान्तरेऽपि ग्रहणात् । स एवायं गकार इति नित्यत्वमपि तयैवावसीयते । कालान्तरेऽपि तस्यैव गकारादेर्निश्चयात् । इतो वा नित्यत्वं शब्दस्य सङ्केतान्यथानुपपत्तेरिति । तथाहि गृहीतसङ्केतस्य शब्दस्य प्रध्वंसे - Page #56 -------------------------------------------------------------------------- ________________ प्रमेयरत्नमाला। सत्वगृहीतसंकेतः शब्द इदानीमन्य एवोपलभ्यते इति तत्कथमर्थप्रत्ययः स्थात् ? न चासौ न भवतीति स एवायं शब्द इति प्रत्यभिज्ञानस्यात्रापि सुलमत्वाच्च । न च वर्णानां शब्दस्य वा नित्यत्व सर्वैः सर्वदा श्रवणप्रसङ्गः । सर्वदा तदभिव्यक्तेरसम्भवात् । तदसम्भवश्वाभिव्यञ्जकवायूनां प्रतिनियतत्वात् । नच तेषामनुपपन्नत्वम् । प्रमाणप्रतिपन्नत्वात् तथाहिवक्तृमुखनिकटदेशवर्तिभिः स्पार्शनेनाध्यक्षेण व्यञ्जका वायवो गृह्यसे । दूरदेशस्थितेन मुखसमीपस्थिततूलचलनादनुमीयन्ते । श्रोतृश्रोत्रदेशे शब्दश्रवणान्यथानुपपत्तेरर्थापत्त्यापि निश्चीयन्ते । किञ्चोत्पत्तिपक्षेऽपि समानोऽयं दोषः । तथाहि-वाय्वाकाशसंयोगादसमवायिकारणादाकाशाच्च समवायिकारणादिग्देशाद्यविभागेनोत्पद्यमानोऽयं शब्दो न सर्वैरनुभूयते । अपि तु नियतदिग्देशस्थैरेव तथाऽभिव्यज्यमानोऽपि । नाप्यभिव्यक्तिसांकर्यमुमयत्रापि समानत्वादेव । तथाहि-अन्यैस्ताल्वादिसंयोगैर्यथान्योव! न क्रियते तथा ध्वन्यन्तरसारिभिस्ताल्वादिभिरन्यो ध्वनिरिभ्यते इत्युत्पत्त्यभिव्यक्त्योः समानत्वेनैकत्रैव पर्यनुयोगावसर इति सर्व सुस्थम् । माभूद्वर्णानां तदात्मकस्य वा शब्दस्य कौटस्थ्यनित्यत्वम् । तथाप्यनादिपरम्परायातत्वेन वेदस्य नित्यत्वात्प्रकृतलक्षणस्याव्यापकत्वम् । न च प्रवाहनित्यावमप्रमाणकमेवास्येति युक्तं वक्तुम् । अधुना तत्कर्तुरनुपलम्भादतीतानागतयोरपि कालयोस्तदनुमापकस्य लिङ्गस्याभावात्तदभावोऽपि सर्वदाप्यतीन्द्रियसाध्यसाधनसम्बन्धस्येन्द्रियग्राह्यत्वायोगात् । प्रत्यक्ष प्रतिपन्नमेव हि लिङ्गम् । अनुमानं हि गृहीतसम्बन्धस्यैकदेशसन्दर्शनादसन्निकृष्टऽर्थे बुद्धिरित्यभिधानात् । नाप्यर्थापत्तेस्तसिद्धिः । अन्यथाभूतस्यार्थस्याभावादुपमानोपमेययोरप्रत्यक्षत्वाच्चनाप्युपमानं साधकम् । केवलमभाव प्रमाणमेवावशिष्यते तच्च तदभावसाधकमिति । न च पुरुषसद्भाववदस्यापि दुःसाध्यत्वात्संशयापत्तिस्तद Page #57 -------------------------------------------------------------------------- ________________ तृतीयसमुद्देशः। भावसाधकप्रमाणानां सुलभत्वात् । अधुना हि तदभावप्रत्यक्षमेवातीतानागतयोः कालयोरनुमानं तदभावसाधकमिति । तथा च -"अतीतानागतो कालो वेदकारविवर्जितौ । कालशब्दाभिधेयत्वादिदानीन्तन कालवत् ॥ १ ॥ वेदस्याध्ययनं सर्व तदध्ययनपूर्वकम् । वेदाध्ययनवाच्यवादधुनाध्ययनं तथेति ॥ २ ॥" तथा अपौरुषेयो वेदः अनवच्छिन्नसम्प्रदायत्वे सत्यस्मर्यमाणकर्तृकत्वादाकाशवत् । अर्थापत्तिरपि प्रामाण्यलक्षणस्यार्थस्यानन्यथाभूतस्य दर्शनात्तदभावे निश्चीयते । धर्माद्यतीन्द्रियार्थविषयस्य वेदस्यार्वाग्दर्शिभिः कर्तुमशक्यत्वात् । अतीन्द्रियार्थदर्शिनश्चाभावात्प्रामाण्यमपौरुषेयतामेव कल्पयतीति । अत्र प्रतिविधीयते यत्तावदुक्तं वर्णानां व्यापित्वे नित्यत्वे च प्रत्यभिज्ञा 'प्रमाणमिति, तदसत् । प्रत्यभिज्ञायास्तत्र प्रमाणत्वायोगात् । देशान्तरेऽपि तस्यैव वर्णस्य सत्त्वे खण्डशः प्रतिपत्तिः स्यात् । नहि सर्वत्र व्याप्त्या वर्त-मानस्यैकस्मिन्प्रदेशे सामस्त्येन ग्रहणमुपपत्तियुक्तम् । अव्यापकत्वप्रसङ्गात् । 'घटादेरपि व्यापकत्त्वप्रसंगः । शक्यं हि वक्तुमेवं घटः सर्वगतश्चक्षुरादि-सन्निधानादनेकत्र देशे प्रतीयत इति । ननु घटोत्पादकस्य मत्पिण्डादेरनेकस्योपलम्मादनेकत्वमेव । तथा महदणुपरिमाणसम्भवाच्चेति । तच्च वर्णेष्वपि समानम् । तत्रापि प्रतिनियतताल्बादिकारणकलापस्य तीव्रादिधर्मभेदस्य च सम्भवाविरोधात् । ताल्वादीनां व्यञ्जकत्वमत्रैव निषेत्स्यत इत्यास्तां तावदेतत् । अथ व्यापित्वेऽपि सर्वत्र सर्वात्मना वृत्तिमत्त्वान्न दोषोऽयमिति चेन्न । तथा सति सर्वथैकत्वविरोधात्। नहि देशभेदेन युगपत्सर्वात्मना प्रतीयमानस्यैकत्वमुपपन्न प्रमाणविरोधात् । तथाच प्रयोगः-प्रत्येकं गकारादिवर्णोऽनेक एव युगपद्भिन्नदेशतया तथैव सर्वात्मनोपलभ्यमानत्वात् घटादिवत् । न सामान्येन व्यभिचारः । तस्यापि सदृशपरिणामात्मकस्यानेकत्वात् । नापि धर्वताद्यनेकप्रदेशस्थतया युगपदनेकदेशस्थितपुरुषपरिदृश्यमानेन चन्द्रार्का Page #58 -------------------------------------------------------------------------- ________________ प्रमेयरत्नमाला। दिना व्यभिचारः । तस्यातिदविष्ठतयैकदेशस्थितस्यापि भ्रान्तिवशादनेकदेशस्थत्वेन प्रतीतेः । न चाभ्रान्तस्यभ्रान्तेन व्यभिचरकल्पना युक्तेति । नापि जलपात्रप्रतिबिम्बेन । तस्यापि चन्द्रार्कादिसन्निधिमपेक्ष्य तथापरिणममानस्यानेकत्वात् तस्मादनेकप्रदेशे युगपत्सर्वात्मनोपलभ्यमानविषयस्यैकस्यासम्भाव्यमानत्वात्तत्र प्रवर्त्तमानं प्रत्यभिज्ञानं न प्रमाणमिति स्थितम् । तथा नित्यत्वमपि न प्रस्यभिज्ञानेन निश्चीयत इति । नित्यत्वं हि एकस्यानेकक्षणव्यापित्वं । तच्चान्तराले सत्तानुपलम्भेन न शक्यते निश्चेतुम् । न च प्रत्यमिज्ञानबलेनैवान्तराले सत्तासम्भवः । तस्य सादृश्यादपि सम्भवाविरोधात् । न च घटादावस्येवं प्रसङ्गः । तस्योत्पत्तावपरापरमृत्पिण्डान्तरलक्षणस्य कारणस्यासम्भाव्यमानत्वेनान्तराले सत्तायाः साधयितुं शक्यत्वात् । अत्र तु कारणानामपूर्वाणां व्यापारसम्भावनातो नान्तराले सत्तासम्भव इति । यच्चान्यदुक्तं संकेतान्यथानुपपत्तेः शब्दस्य नित्यत्वमिति । इदमप्यनात्मज्ञभाषितमेव । अनित्येऽपि योजयितुं शक्यत्वात् । तथा हि गृहीतसंकेतस्य दण्डस्य प्रध्वंसे सत्यगृहीतसंकेत इदानीमन्य एव दण्डः समुपलभ्यत इति दण्डीति न स्यात् । तथा धूमस्यापि गृहीतव्याप्तिकस्य नाशे अन्यधूमदर्शनाद्वन्हिविज्ञानाभावश्च । अथ सादृश्यात्तथाप्रतीतेन दोष इति चेदत्रापि सादृश्यवशादप्रत्यये को दोषः ? येन नित्यत्वेऽत्र दुरभिनिवेश आश्रीयते । तथा कल्पनायामन्तराले सत्त्वमप्यदृष्टं न कल्पितं स्यादिति । यच्चान्यदभिहितं व्यञ्जकानां प्रतिनियतत्वान्न युगपत् श्रुतिरिति तदप्यशिक्षितलक्षितम् । समानेन्द्रियग्राह्यषु समानधर्मसु समानदेशेषु विषयिविषयेषु नियमायोगात् । तथाहि-श्रोत्रं समानदेशसमानेन्द्रियग्राह्यसमानधर्मापन्नानामानां ग्रहणाय प्रतिनियतसंस्कारकसंस्कार्य न भवति । इन्द्रियत्वात् चक्षुर्वत् । शब्दा वा प्रतिनियतसंस्कारकसंस्कार्या न भवन्ति । समानदेशसमानेन्द्रियग्राह्यसमानधर्मापन्नत्त्वे Page #59 -------------------------------------------------------------------------- ________________ तृतीयसमुद्देशः। सति युगपदिन्द्रियसम्बद्धत्वात् । घटादिवत् । उपपत्तिपक्षेऽप्ययं दोषः समान इति न वाच्यं मृत्पिण्डदीपदृष्टान्ताभ्यां कारकव्यञ्जकपक्षयोर्विशेषसिद्धरित्यलमतिजल्पितेन । यच्चान्यत्प्रवाहनित्यत्वेन वेदस्यापौरुषेयत्वमिति तत्र किं शब्दमात्रस्यानादिनित्यत्वमुत विशिष्टानामिति ? आद्यपक्षे य एव शब्दा लौकिकास्त एव वैदिका इत्यल्पमिदमभिधीयते वेद एवापौरुषेय इति । किन्तु सर्वेषामपि शास्त्राणामपौरुषेयतति । अथ “विशिष्टानुपूर्विका एव शब्दा अनादित्वेनाभिधीयन्ते" तेषामवगतार्थानामनवगतार्थानां वा अनादिता स्यात् ? यदि तावदुत्तरः पक्षस्तदाऽज्ञानलक्षणमप्रामाण्यमनुषज्यते । अथ आद्यः पक्ष आश्रीयते तद्व्याख्यातारः किञ्चिज्ञा भवेयुः सर्वज्ञा वा ? प्रथमपक्षे दुरधिगमसम्बन्धानामन्यथाप्यर्थस्य कल्पयितुं शक्यत्वात् मिथ्यात्वलक्षणमप्रामाण्यं स्यात् । तदुक्तम्-अयमों नायमर्थ इति शब्दा वदन्ति न । कल्प्योऽयमर्थः पुरुषैस्ते च रागादिविप्लुताः ॥ १ ॥ किञ्च किञ्चिज्ज्ञन्याख्यातार्थाविशेषात् अग्निहोत्रं जुहुयात् स्वर्गकाम इत्यस्य खादेच्छ्वमांसमित्यपि वाक्यार्थः किं न स्यात् संशयलक्षणमप्रामाण्यं वा । अथ सर्वविद्विदितार्थ एव वेदोऽनादिपरंपराऽयात इति चेत् । हन्त धर्मे चोदनैव प्रमाणमिति हतमेतत् । अतीन्द्रियार्थप्रत्यक्षीकरणसमर्थस्य पुरुषस्य सद्भावे च तद्वचनस्यापि चोदनावत्तदवबोधकत्वेन प्रामाण्याद्वेदस्य पुरुषाभावसिद्धे. स्तत्प्रतिबन्धकं स्यात् । अथ तद्वयाख्यातॄणां किञ्चिज्ञत्वेऽपि यथार्थव्याख्यानपरम्पराया अनवच्छिन्नसन्तानत्वेन सत्यार्थ एव वेदोऽवसीयत इति चेन्न किंचिज्ञानामतीन्द्रियार्थेषु निःसंशयव्याख्यानायोगादन्धेनाकृष्यमाणस्यान्धस्यानिष्टदेशपरिहारेणाभिमतपथप्रापणानुपपत्तः। किञ्चानादिव्याख्यानपरम्प-. रागतत्वेऽपि वेदार्थस्य गृहीतविस्मृतसम्बन्धवचनाकौशलदुष्टाभिप्रायतया • १ उत्पत्तिपक्षे, इत्यपि पाठभेदः ॥ २ तर्हि इति शेषः... Page #60 -------------------------------------------------------------------------- ________________ प्रमेयरत्नमाला | व्याख्यानस्यान्यथैव करणादविसंवादायोगादप्रामाण्यमेव स्यात् । दृश्यन्ते ह्यधुनातना अपि ज्योतिःशास्त्रादिषु रहस्यं यथार्थमवयन्तोऽपि दुरभिसंधेरन्यथा व्याचक्षाणाः । केचिज्जानन्तोऽपि वचनाकौशलादन्यथोपदिशन्तः । केचिद्विस्मृतसम्बन्धा अयाथातथ्यमभिदधाना इति । कथमन्यथा भावनाविधिनियोगवाक्यार्थप्रतिपत्तिर्वेदे स्यान्मनुयाज्ञवल्क्यादीनां श्रुत्यर्थानुसारिस्मृतिनिरूपणायां वा ? तस्मादनादिप्रवाहपतितत्वेऽपि वेदस्य यथार्थत्वमेव स्यादिति स्थितम् । यच्चोक्तमतीतानागतावित्यादि तदपि स्वमतनिर्मूलन हेतुत्वेन विपरीतसाधनात्तदाभासमेवेति । तथाहि--" अतीतानागतौ कालौ वेदार्थज्ञविवर्जितौ । कालशब्दाभिधेयत्वादधुनातनकालवदिति ॥ १ ॥ किञ्च कालशब्दाभिधेयत्वमतीतानागतयोः कालयोर्ग्रहणे सति भवति । तद्ग्रहणं च नाध्यक्षतस्तयोरतीन्द्रियत्वात् । अनुमानतस्तद्ग्रहणेऽपि न साध्येन सम्बन्धस्तयोर्निश्वेतुं पार्यते । प्रत्यक्षगृहीतस्यैव तत्संबन्धाभ्युपगमात् । न च कालाख्यं द्रव्यं मीमांसकस्यास्ति । प्रसङ्गसाधनाददोष इति चेन्न । परम्प्रति साध्यसाधनयोर्व्याप्यव्यापकभावाभावादिदानीमपि देशान्तरे वेदकारस्याष्टकादेः सौगतादिभिरभ्युपगमात् । यदप्यपरं वेदाध्ययनमित्यादि तदपि विपक्षेऽपि समानम् – “ भारताध्ययनं सर्वे गुर्वध्ययनपूर्वकं । तदध्ययनवाच्यत्त्वा- दधुनाध्ययनं यथेति ॥ १ ॥" यच्चान्यदुक्तम् — अनवच्छिन्नसम्प्रदायत्वे -सत्यस्मर्यमाणकर्तृत्वादिति जीर्णकूपारामादिभिर्व्याभिचारनिविशेष्यस्यास्मर्यमाणकर्तृकत्वस्य 1 त वृत्पर्थमनवच्छिन्न सम्प्रदायत्त्वविशेषणेपि विचार्यमाणस्यायोगादसाधनत्वम् । कर्तुरस्मरणं हि वादिनः प्रतिवावदनश्च सर्वस्य वा ? वादिनश्चेदनुपलब्धेरभावाद्वा ? आधे पक्षे पिटकत्रयेऽपि स्यादनुपलब्धेरविशेषात् । तत्र परैः कतुरङ्गीकरणान्नो चेत् । अत एवात्रापि न तदस्तु | अभावादिति चेदस्मात्तदभावसिद्धावितरेतरा55 ५८ Page #61 -------------------------------------------------------------------------- ________________ __ ५९ तृतीयसमुद्दशः। श्रयत्वम् । सिद्धे हि तदभावे तन्निबन्धनं तदस्मरणमस्माच्च तदभाव इति । प्रामाण्यान्यथानुपपत्तेस्तदभावान्नेतरेतराश्रयत्वमिति चेन्न । प्रामाण्येनाप्रामाण्यकारणस्यैव पुरुषविशेषस्य निराकरणात् पुरुषमात्रस्पानिराकृतेः । अथातीन्द्रियार्थदर्शिनोऽभाव.दन्यस्य च प्रामाण्यकारणत्वानुपपत्तेः सिद्ध एव सर्वथा पुरुषाभाव इति चेत् कुतः सर्वज्ञाभावो विभावितः ? प्रामाण्यान्यथानुपपत्तेरिति चेदितरेतराश्रयत्वम् । कर्तुरस्मरणादिति चेच्चक्रक प्रसङ्गः । अभावप्रमाणादिति चेन्न । तत्साधकस्यानुमानस्य प्रातिपादितत्वादभावप्रमाणोस्थानायोगात् प्रमाणपञ्चकाभावेऽभावप्रमाणप्रवृत्तेः-' प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते । वस्त्वसत्तावबोधार्थ तत्राभावप्रमाणतेति' परैरभिधानात् । ततो न वादिनः कर्तुरस्मरणमुपपन्नम् । नापि प्रतिवादिनोऽसिद्धेः । तत्र हि प्रतिवादी स्मरत्येव कर्तारमिाते । नापि सर्वस्य, वादिनो वेदकर्तुरस्मरणेऽपि प्रतिवादिनः स्मरणात् ननु प्रतिवादिना वेदेऽष्टकादयो बहवः कर्तारः -स्मर्यन्तेऽतस्तत्स्मरणस्य विवादविषयस्याप्रामाण्याद्भवेदेव सर्वस्य कर्तुरस्मरणमिति चेत् न । कर्तृविशेषविषय एवासौ विवादो न कर्तृसामान्ये । अतः सर्वस्य कर्तुरस्मरणमप्यसिद्धम् । सर्वात्मज्ञानविज्ञानरहितो वा कथं सर्वस्य कर्तुरस्मरणमवैति । तस्मादपौरुषेयत्वस्य वेदे व्यवस्थापयितुमशक्यत्वान्न तल्लक्षणस्याव्यापकत्वमसम्भवितत्वं वा सम्भवति । पौरुषेयत्त्वे पुनः प्रमाणानि बहूनि सन्त्येव । सजन्ममरणर्षिगोत्रचरणादिनामश्रुतेरनेकपदसंहतिप्रतिनियमसंदर्शनात् । फलार्थिपुरुषप्रवृत्तिनिवृत्तिहेत्वात्मना, श्रुतेश्च मनुसूत्रवत् पुरुषकर्तृकैव श्रुतिः ॥१॥ इति वचनात् । अपौरुषयत्त्वेऽपि वा न प्रामाण्यं वेद-स्योपपद्यते तद्धेतूनां गुणानामभावात् । ननु न गुणकृतमेव प्रामाण्यं किन्तु दोषाभावप्रकारेणापि, स च दोषाश्रयपुरुषाभावेऽपि निश्चीयते न गुणसद्भाव एवेति । तथाचोक्तम् -शब्दे दोषोद्भवस्तावद्वक्त्रधीन इति स्थितम् । तदभावः Page #62 -------------------------------------------------------------------------- ________________ प्रमेयरत्नमाला। क्वचित्तावद्गुणवद्वक्तृकत्वतः ॥ १ ॥ तद्गुणैरपकृष्टानां शब्दे संक्रान्त्यस-- म्भवात् । यद्वा वक्तुरमावेन न स्युर्दोषा निराश्रयाः ॥ २ ॥ इति । तदप्ययुक्तम् । पराभिप्रायापरिज्ञानात् । नास्माभिर्वक्तुरभावे वेदस्य प्रामाण्याभावः समुद्भाव्यते । किंतु तद्वयाख्यातॄणामतीन्द्रियार्थदर्शनादिगुणाभावे । ततो दोषाणामनपोदितत्वान्न प्रामाण्यनिश्चय इति । ततोऽपौरुषेयत्वेऽपि वेदस्य प्रामाण्यनिश्चयायोगान्नानेन लक्षणस्याव्यापित्वमसम्भवित्वं वेत्यलमतिज. ल्पितेन । ननु शब्दार्थयोः सम्बन्धाभावादन्यापोहमात्राभिधायित्वादाप्तप्रणीतादपि शब्दात् कथं वस्तुभूतार्थावगम इत्यत्राहसहजयोग्यतासङ्केतवशाद्धि शब्दादयो वस्तुमतिपत्तिहेतवः॥१०॥ सहजा स्वभावभूता योग्यता शब्दार्थयोर्वाच्यवाचकशक्तिः तस्यां सङ्केतस्तद्वशाद्धि स्फुटं शब्दादयः प्रागुक्ताः वस्तुप्रतिपत्तिहेतव इति । उदाहरणमाह - यथा मेर्वादयः सन्ति ॥ १०१ ॥ ननु य एव शब्दाः सत्यर्थे दृष्टास्त एवार्थाभावेऽपि दृश्यन्ते तत्कथमर्थभिधायकत्वमिति । तदप्ययुक्तम्-अनर्थकेभ्यः शब्देभ्योऽर्थवतामन्यत्वात् । न चान्यस्य व्यभिचारेऽन्यस्यासौ युक्तोऽतिप्रसङ्गात् । अन्यथा गोपालघटिकान्तर्गतस्य धूमस्य पावकस्य व्यभिचारे पर्वतादिधूमस्यापि तत्प्रसङ्गात् । " यत्नतः परीक्षितं कार्य कारणं नातिवर्तते ” इत्यन्यत्रापि समानम् । सुपरीक्षितो हि शब्दोऽर्थ न व्यभिचरतीति । तथा चान्यापोहस्य शब्दार्थत्वकल्पनं प्रयासमात्रमेव । न चान्यापोहः शब्दार्थों व्यवतिष्ठते प्रतीतिविरोधात् । न हि गवादिशब्दश्रवणादगवादिव्यावृत्तिः प्रतीयते । ततः सास्नादिमत्यर्थे प्रवृत्तिदर्शनादगवादिबुद्धिजनकं तत्र शब्दान्तरं मृग्यम् । अथैकस्मादेव गोशब्दादर्थद्वयस्यापि सम्भावनान्नार्थः शब्दान्तरेणेति चेन्नै Page #63 -------------------------------------------------------------------------- ________________ तृतीयसमुद्देशः। वम् । एकस्य परस्परविरुद्धार्थद्वयप्रतिपादनविरोधात् । किञ्च गोशब्दस्यागोव्यावृत्तिविषयत्वे प्रथममगौरिति प्रतीयेत न चैवमतो नान्यापोहः शब्दार्थः। किञ्च अपोहाख्यं सामान्यं वाच्यत्वेन प्रतीयमानं पर्युदासरूपं प्रसज्यरूपं चा ? प्रथमपक्षे गोत्वमेव नामान्तरेणोक्तं स्यात् । अभावामावस्य भावान्तरस्वभावेन व्यवस्थितत्वात् । कश्चायमश्वादिनिवृत्तिलक्षणो भावोऽभिधीयते ? न तावत्स्वलक्षणरूपस्तस्य सकलविकल्पवाग्गोचरातिक्रान्तत्वात् । नापि शाबलेयादिव्यक्तिरूपस्तस्यासामान्यत्वप्रसङ्गात् । तस्मात् सकलगोव्यक्तिष्वनुवृत्तप्रत्ययजनकं तत्रैव प्रत्येक परिसमाप्त्या वर्तमान सामान्यमेव गोशब्दवाच्यम् । तस्यापोह इति नामकरणे नाममात्रं मिद्येत नार्थः अतो नाद्यः पक्षः श्रेयान् । नापि द्वितीयो, गोशब्दादेः क्वचिद्वाह्येऽर्थे प्रवृत्त्ययोगात् । तुच्छाभावाभ्युपगमे परमतप्रवेशानुषंगाच्च । किञ्च गवादयो ये सामान्यशब्दा ये च शाबलेयादयस्तेषां भवदभिप्रायेण पर्यायता स्यात् । अर्थभेदाभावावृक्षपादपादिशब्दवत् । न खलु तुच्छाभावस्य भेदो युक्तो वस्तुन्येव संसृष्टत्वैकत्वनानात्वादिविकल्पानां प्रतीतेः । भेदे वा अभावस्य वस्तुतापत्तिः तल्लक्षणत्त्वाद्वस्तुत्वस्य । न चापेह्यलक्षणसम्बन्धिभेदाढ़ेदः । प्रमेयाभिवेयादिशब्दानामप्रवृत्तिप्रसङ्गात् । व्यवच्छेद्यस्यातद्रूपेणाप्यप्रमेयादि रूपत्त्वे ततो व्यवच्छेदायोगात्कथं तत्र सम्बन्धिभेदाद्भदः ? किञ्च शाबलेयादिष्वकोऽपोहो न प्रसज्येत किन्तु प्रतिव्यक्ति भिन्न एव रयात् । अथ शाबलेयादयस्तन्न भिन्दन्ति तपश्वादयोऽपि भेदका मःभूवन् । यस्यान्तरङ्गाः शाबलेयादयो न भेदकास्तस्याश्वादयो भेदका इत्यतिसाहसम् । वस्तुनोऽपि सम्बंधिभेदाढ़ेदो नोपलभ्यते किमुतावस्तुनि । तथाटेक एव देवदत्तादिकटककुण्डलादिभिरभिसम्बन्ध्यमानो न नानात्वमास्तिध्नुवानः समुपलभ्यत इति । भवतु वा सम्बन्धिभेदाढ़ेदस्तथापि न वस्तुभूतसामान्यमन्तरेणान्या Page #64 -------------------------------------------------------------------------- ________________ प्रमेयरत्नमाला। पोहाश्रयः सम्बन्धी भवतां भवितुमर्हति । तथाहि यदि शाबलेयादिषु वस्तुभूतसारूप्याभावोऽश्वादिपरिहारेण तत्रैव विशिष्टाभिधानप्रत्ययौ कथं स्याताम् । ततः सम्बधिभेदाढ़ेदामिच्छतापि सामान्यं वास्तवमङ्गीकर्तव्यमिति । किञ्चापोहशब्दार्थपक्षे संकेत एवानुपपन्नस्तद्हणोपायासम्भवात् । न प्रत्यक्ष तद्गहणसमर्थ तस्य वस्तुविषयत्त्वात् । अन्यापोहस्य चावस्तुत्वात् । अनुमानमपि न तत्सद्भावमवबोधयति तरय कार्यस्वभावलिङ्गसम्पाद्यत्वात् । अपोहस्य निरुपाख्येयत्वेनानर्थक्रियाकारित्वेन च स्वभावकार्ययोरसम्भवात् । किञ्च गोशब्दस्यागोपोहाभिधायित्त्वेऽगौरित्यत्र गोशब्दस्य किमभिधेयं स्यादज्ञातस्य विधिनिषेधयोरनधिकारात् । अगोव्य वृत्तिरिति चेदितरेतराश्रयत्वमगोव्यवच्छेदो हि अगोनिश्चये भवति स चागौ!निवृत्त्यात्मा गौश्चागोव्यवच्छेदरूप इति । अगौरित्यत्रोत्तरपदार्थोऽप्यनयैव दिशा चिन्तनीयः । नन्वगौरित्यत्रान्य एव विधिरूपो गोशब्दाभिधेयस्तदाऽपोहः शब्दार्थ इति विघटेत । तस्मादपोहस्योक्तयुक्त्या विचार्यमाणस्यायोगान्नान्यापोहः शब्दार्थ इति, स्थितं सहजयोग्यता सङ्केतवशाच्छब्दादयो वस्तुप्रतिपत्तिहेतव इति । स्मृतिरनुपहतेयं प्रत्यभिज्ञानवज्ञा । प्रमितिनिरतचिन्ता लैङ्गिक सङ्गतार्थम् । प्रवचनमनवद्यं निश्चितं देववाचा । रचितमुचितवाग्भिस्तथ्यमेतेन गीतम् ॥ १ ॥ - इति परीक्षामुखस्य लघुवृत्तौ परोक्षप्रपञ्चस्तृतीयः समुद्देशः ॥ ३ ॥ अथ स्वरूपसङ्ख्याविप्रतिपत्तिं निराकृत्त्य विषयविप्रतिपत्तिनिरासार्थमाह सामान्यविशेषात्मा तदर्थो विषयः ॥ १॥ तत्य प्रमाणस्य ग्राह्योऽर्थों विषय इति यावत् । स एव विशिष्यते Page #65 -------------------------------------------------------------------------- ________________ चतुर्थसमुद्देशः। सामान्यविशेषात्मा । सामान्यविशेषौ वक्ष्यमाणलक्षणी तावात्मानौ यस्येति विग्रहः । तदुभयग्रहणमात्मग्रहणं च वे वलस्य सामान्यस्य विशेषस्य तदुभयस्य वा स्वतन्त्रस्य प्रमाणविषयत्वप्रतिषेधार्थम् । तत्र सन्मात्रदेहस्य परब्रह्मणो निरस्तत्त्वात्तदितरद्विचार्यते। तत्र सांख्यैः प्रधानं सामान्यमुकं " त्रिगुणमविवेकिविषयः, सामान्यमचेतनं प्रसवधर्मि । व्यक्तं तथा प्रधानं, तद्विपरीतस्तथा च पुमानिति ॥ १ ॥” वचनात् । तच्च केवलं प्रधानं महदादिकार्यनिष्पादनाय प्रवर्तमानं किमप्यपेक्ष्य प्रवर्तते निरपेक्ष्य वा ? प्रथमपक्ष तन्निमित्तं वाच्यं यदपेक्ष्य प्रवर्तते । ननु पुरुषार्थ एव तत्र कारणं, पुरुषार्थेन हेतुना प्रधानं प्रवर्तते । पुरुषार्थश्च द्वेधा, शब्दाद्यपलब्धिर्गुणपुरुषान्तरविवेकदर्शनं चेत्यभिधानादिति चेत् सत्यम् । तथा प्रवर्तमानमपि बहुधानकं पुरुषकृतं कञ्चिदुपकारं समासादय प्रवर्तेतानासादयद्वा ? प्रथमपक्षे स उपकारस्तस्माद्भिन्नोऽभिन्नो वा ? यदि भिन्नस्तदा तस्येति व्यपदेशाभावः । सम्बन्धाभावात्तदभावश्च समवायादेरनभ्युपगमात् । तादात्म्य च भेदविरोधीति । अथाभिन्न उपकार इति पक्ष आश्रीयते तदा प्रधानमेव तेन कृतं स्यात् । अथोपकारनिरपेक्षमेव प्रधानं प्रवर्तते तर्हि मुक्तात्मानम्प्रत्यपि प्रवतेताविशेषात् । एतेन निरपेक्षप्रवृत्तिपक्षोऽपि प्रत्युक्तस्तत एव । किञ्च सिद्धे प्रधाने सर्वमेतदुपपन्नं स्यात् न च तत्सिद्धिः कुतश्चिन्निश्चीयत इति । ननु कार्याणामेकान्त्रयदर्शनादेककारणप्रभवत्त्वंभेदानां परिमाणदर्शनाच्चेति । तदप्यचारुचर्वितं सुखदुःखमोहरूपतया घटादेरन्वयाभावादन्तस्तत्वस्यैव तथोंपलम्भात् । अथान्तस्तत्वस्य न सुखादिपरिणामः किन्तु तथापरिणममानप्रधानसंसर्गादात्मनोऽपि तथा प्रतिभास इति तदप्यनुपपन्नम् । अप्रतिभासमानस्यापि संसर्गकल्पनायां तत्त्वेयत्ताया निश्चेतुमशक्तेः तदुक्तम्-संसर्गाद.. विभागश्चेदयोगोलकवह्निवत् । मेदाभेदव्यवस्थैवमुच्छिन्ना सर्ववस्तुषु ॥ १।। Page #66 -------------------------------------------------------------------------- ________________ प्रमयरत्नमाला। इति । यदपि परिमाणाख्यं साधनं, तदप्येकप्रकृतिकेषु घटवटीशरात्रोदञ्चनादिष्वनेक प्रकृतिकषु पटकुटमकुटशकटादिषु चोपलम्भादनकान्तिकमिति न ततः प्रकृतिसिद्धिः । तदेवं प्रधानग्रहणोपायासम्भवात्सम्भवे वा ततः कार्योंदयायोगाच । यदुक्तं परेण-प्रकृतेर्महान् ततोऽहंकारस्तस्माद्गणश्च षोडशकः । तस्मादपि षोडशकात्पञ्चभ्यः पंच भूतानीति ॥ १ ॥ सृष्टिक्रमे, मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्तषोडशकःश्च विकारो, न प्रकृतिर्नविकृतिः पुरुषः ॥ २ ॥ इति स्वरूपाख्यानं च, वन्ध्यासुतसौरूप्यवर्णनमिवासद्विषयत्त्वादुपेक्षामर्हति । अमूर्तस्याकाशस्य मूर्तस्य पृथिव्यादेश्चैककारणकत्त्वायोगाच्च । अन्यथा अचेतनादपि पंचभूतकदम्बकाचैतन्यसिद्धेश्चार्वाकमतसिद्धिप्रसङ्गात् सांख्यगन्ध एव न भवेत् । सत्कार्यवादप्रतिषेधश्चान्यत्र विस्तरेणोक्त इति नेहोच्यते संक्षेपस्वरूपादस्येति । तथा विशेषा एव तत्त्वं तेषामसमानेतरविशेषेभ्योऽशेषात्मना विश्लेषात्मकत्वात्सामान्यस्यैकस्यानेकत्र न्याप्त्यावर्तमानस्य सम्भवाभावाच्च । तस्यैकव्यक्तिनिष्ठस्य सामस्त्येनोपलब्धस्य तथैव व्यक्त्यन्तरेऽनुपलम्भप्रसङ्गात् । उपलम्भे वा तन्नानात्वापत्तयुगपत् भिन्नदेशतया सामस्त्येनोपलब्धेस्तद्वयक्तिवत् , अन्यथा व्यक्तयोऽपि भिन्ना माभूवन्निाति । ततो बुद्धयभेद एव सामान्यम् । तदुक्तम्-एकत्र दृष्टो भावो हि कचिनान्यत्र दृश्यते । तस्मान्न भिन्नमस्त्यन्यत्सामान्य बुद्धयभेदतः ॥१॥ इति । तेच विशेषाः परस्परासम्बद्धा एव, तत्सम्बन्धस्य विचार्यमाणस्यायो. गात् । एकदेशेन सम्वन्धे अणुषट्केन युगपद्योगादणोः षडंशतापत्तेः । सर्वात्मनाभिसम्बन्धे पिण्डस्याणुमात्रकत्वापत्तेः । अवयविनिषेधाच्चासम्बद्धत्वमेषामुपपद्यत एव । तन्निषेधश्च वृत्तिविकल्पादिबाधनात् । तथाहि अवयवा अवयविनि वर्तन्त इति नाभ्युपगतम् । अवयवी चावयवेषु वर्तमानः किमेकदेशेन वर्त्तते सर्वात्मना वा ? एकदेशेन वृत्ताववयवान्तरप्रसङ्गः। तत्राप्ये Page #67 -------------------------------------------------------------------------- ________________ चतुर्थसमुद्देशः । कदेशान्तरेणावयविनो वृत्तावनवस्था । सर्वात्मना वर्तमानोऽपि प्रत्यवयवं स्वभावभेदेन वर्तेत, आहोस्त्रिदेकरूपेणेति ? प्रथमपक्षे अवयविबहुत्वापत्तिः । द्वितीयपक्षे तु अवयवानामेकरूपत्वापत्तिरिति । प्रत्येकं परि.. समाप्त्या वृत्तावप्यवयविबहुत्वमिति । तथा यत् दृश्यं सन्नोलभ्यते तन्नास्त्येव . यथा गगनेन्दीवरं, नोपलभ्यते चावयवेष्ववयवीति । तथा यदग्रहे यबुद्धयभावस्तत्ततो नार्थान्तरम् । यथा वृक्षाप्रहे वनमिति । ततश्च निरंशा एवान्योन्यासंस्पर्शिणो रूपादिपरमाणवस्ते च एकक्षणस्थायिनो न नित्या, विनाशं प्रत्यन्यानपेक्षणात् । प्रयोगश्च यो यद्भाव प्रत्यन्यानपेक्षः स तत्स्वभावनियतो यथान्त्या कारणसामग्री स्वकार्ये । नाशो हि मुद्गरादिना क्रियमाणस्ततो भिन्नोऽभिन्नो वा क्रियते ? मिन्नस्य करणे घटस्य स्थितिरेव स्यात् । अथ विनाशसम्बन्धानष्ट इति व्यपदेश इति चेत्, भावाभावयोः कः सम्बन्धः? न तावत्तादात्म्यं तयोर्भेदात् । नापि तदुत्पत्तिरमावस्य कार्योधारवाघटनात् । अभिन्नस्य करणे घटादिरेव कृतः • स्यात् । तस्य च प्रागेव निष्पन्नत्वाद्ध्यर्थ करणमित्यन्यानपेक्षत्वं सिद्धमिति विनाशस्वभावनियतत्वं साधयत्येव । सिद्धे चानित्यानां तत्स्वभावनियतत्वे तदितरेषामात्मादीनां विमत्यधिकरणभावापन्नानां सत्त्वादिना साधनेन तदृष्टःन्ताद्भवत्येव क्षणस्थितिस्वभावत्वम् । तथाहि यःसत्तत्सर्वमेकक्षणस्थितिस्वभावं यथा घटः सन्तश्चामी भावा इति । अथवा सत्त्वमेव विपक्षे बाधकप्रमाणबलेन दृष्टान्तनिरपेक्षमशेषस्य वस्तुनः क्षणिकत्वमनुमापयति । तथाहि सत्त्वमर्थक्रियया व्याप्तं, अर्थक्रिया च क्रमयोगपद्याभ्यां, ते च नित्यानिवर्तमाने स्वव्याप्यामर्थक्रियामादाय निवर्तेते । सापि स्वव्याप्यं सत्त्वमिति, नित्यस्य क्रमयोगपद्याभ्यामर्थक्रियाविरोधात्सत्त्वासम्भावनं विपक्षे बाधकप्रमाणमिति । नहि नित्यस्य क्रमेण युगपद्वा सा सम्भवति । नित्यस्यैकेनैव स्वभावेन पूर्वापरकालभाविकार्यद्वयं कुर्वतः कार्याभेदकत्वात्तस्यैकस्वभावत्वात् । तथापि Page #68 -------------------------------------------------------------------------- ________________ ६६ प्रमेयरत्नमाला। कार्यनानात्वे अन्यत्र कार्यभेदात् कारणभेदकल्पना विफलैव स्यात् । तादृशमेकमेव किञ्चित्कारणं कल्पनीयं, येनैकस्वभावेनैकेनैव चराचरमुत्पद्यत इति । अथ स्वभावनानात्वमेव तस्य कार्यभेदादिष्यत इति चेत्तर्हि, ते स्वभावास्तस्य सर्वदा सम्भविनस्तदा कार्यसायम् । नो चेत्तदुत्पत्तिकारणं वाच्यम् । तस्मादेवमित्येकस्वभावात्तदुत्पत्तौ तत्स्वभावानां सदा सम्भवात्सैव कार्याणां युगपत्प्राप्तिः । सहकारिक्रमापेक्षया तत्स्वभावानां क्रमेण भावान्नोक्तदोष इति चेत्तदपि न साधुसङ्गतम् । समर्थस्य नित्यस्य परापेक्षायोगात् । तैः सामर्थ्यकरणे नित्यताहानिः । तस्माद्भिन्नमेव सामर्थ्य तैर्विधीयत इति न नित्यताहानिरिति चेत्तर्हि नित्यमकिंचित्करमेव स्यात् । सहकारिजनितसामर्थ्यस्यैव कार्यकारित्त्वात्तत्सम्बन्धात्तस्यापि कार्यकारित्वे तत्सम्बधस्यैकस्वभावत्वे सामर्थ्यनानात्वाभावान्न कार्यभेदः । अनेकस्वभावत्वे क्रमवत्त्वे च कार्यवत्तस्यापि साङ्कर्यमिति सर्वमावर्तत इति चक्रकप्रसङ्गः । तस्मान्न क्रमेण कार्यकारित्वं नित्यस्य । नापि युगपत् अशेषकार्याणां युगपदुत्पत्तौ द्वितीयक्षणे कार्याकरणादनर्थक्रियाकारित्वेनावस्तुत्वप्रसंगादिति नित्यस्य क्रमयोगपद्याभावः सिद्ध एवेति सौगताः प्रतिपेदिरे । तेऽपि न युक्तवादिनः-सजातीयेतरव्यावृत्तात्मनां विशेषाणामनंशानां ग्राहकस्य प्रमाणस्याभावात् । प्रत्यक्षस्य स्थिरस्थूलसमारणाकारवस्तुग्राहकत्वेन निरंशवस्तुग्रहणायोगात् । न हि परमाणवः परस्परासंबद्धाश्चक्षुरादिबुद्धौ प्रतिभान्ति तथा सत्यविवादप्रसंगात् । अथानुभूयन्त एव प्रथमं तथाभूताः क्षणाः पश्चात्तु विकल्पवासनाबलादान्तरादन्तरालानुपलम्भलक्षणाद्वाह्याच्चाविद्यमानोऽपि स्थूलाद्याकारो विकल्पबुद्धौ चकास्ति । स च तदाकारणानुरज्यमानः स्वव्यापारं तिरस्कृत्य प्रत्यक्षव्यापारपुरःसरत्त्वेन प्रवृत्तत्त्वात्प्रत्यक्षारत इति । तदप्यतिबालविलसितम् । निर्विकल्पच.बेधस्यानुपलक्षणात् । गृहीते हि निर्विकल्पकेतरयोर्भेदे अन्याकारानुराग Page #69 -------------------------------------------------------------------------- ________________ चतुर्थसमुद्देशः। स्यान्यत्र कल्पना युक्ता स्फटिकजपाकुसुमयोरिव नान्यथेति । एतेन तयोर्युग. पवृत्तलघुवृत्तेर्वा तदेकत्त्वाध्यवसाय इति निरस्तं तस्यापि कोशपानप्रत्येयत्त्वादिति । केन वा तयोरेकत्त्वाध्यवसायः ? न तावद्विकल्पेन, तस्य विकल्पवार्तानभिज्ञत्त्वात् । नाप्यनुभवेन, तस्य विकल्पागोचरत्त्वात् । न च तदुमयाविषयं तदेकत्त्वाध्यवसाये समर्थमतिप्रसङ्गात् । ततो न प्रत्यक्षबुद्धौ तथा विधविशेषावमासः । नाप्यनुमानबुद्धौ तदविनाभूतस्वभावकार्यलिङ्गामावादनुपलम्भोऽसिद्ध एव । अनुवृत्ताकारस्य स्थूलाकारस्य चोपलब्धेरुक्तत्वात् । यदपि परमाणूनामेकदेशेन सर्वात्मना वा सम्बन्धो नोपपद्यत इति तत्रानभ्युपगम एव परिहारः । स्निग्धरूक्षाणां सजातीयानां च यधिकगुणानां कथञ्चित्स्कन्धाकारपरिणामाःमकस्य सम्बन्धस्याभ्युपगमात् । यच्चावयविनि वृत्तिविकल्पादि बाधकमुक्तं तत्रावयविनो वृत्तिरेव यदि नोपपद्यते तदा न वर्तत इत्यमिधातव्यम् । नैकदेशादिविकल्पस्तस्य विशेषान्तरान्तरीयकत्वात् । तथा हि नैकदेशेन वर्तते नापि सर्वत्मनेत्युक्ते प्रकारान्तरेण वृत्तिरित्यभिहितं स्यात् । अन्यथा न वर्तत इत्येव वक्तव्यमिति विशेषप्रतिषेधस्य शेषाभ्यनुज्ञानरूपत्वात् कथञ्चित्तादात्म्यरूपेण वृत्तिरित्यवसीयते। तत्र यथोक्तदोषाणामनवकाशाद्विरोधादिदोषश्चाग्रे प्रतिषेत्स्यत इति नेह प्रतन्यते । यच्चैकक्षणस्थायित्त्वे साधनं 'यो यद्भावं प्रतीत्याद्युक्तं, तदप्यसाधनमसिद्धादिदोषदुष्टत्वात् । तत्रान्यानपेक्षत्वं तावदसिद्ध घटाद्यभावस्य मुद्गरादिव्यापारान्वयव्यतिरेकानुविधायित्वात् तत्कारणत्वोपपत्तेः । कपालादिपर्यायान्तरभावो हि घटादेरभावस्तुच्छाभावस्य सकलप्रमाणगोचरातिक्रान्तत्वात् । किञ्च अभावो यदि स्वतन्त्रो भवेत्तदाऽन्यानपेक्षत्वं विशेषणं युक्तम् । न च सौगतमते सोऽस्तीति हेतुप्रयोगानवतार एव, अनैकान्तिकं चेदं शालिबीजस्य कोद्रवांकुरजननम्प्रति अन्यानपेक्षत्वेऽपि तज्जननस्वभावानियतत्वात् । तत्स्वभावत्त्वे सतीति विशेषणान्न दोष इति चेत् Page #70 -------------------------------------------------------------------------- ________________ प्रमेयरत्नमाला। न सर्वथा पदार्थानां विनाशस्वभावासिद्धः । पर्यायरूपेणैव हि भावानामुत्पादविनाशावङ्गीक्रियेते न द्रव्यरूपेण- समुदेति विलयमृच्छति भावो नियमेन पर्ययनयस्य । नोदोत नो विनश्यति भावनयालिङ्गितो नित्यम् ॥ १ ॥ इति वचनात् । नहि निरन्वयविनाशे पूर्वक्षणस्य ततो मृताच्छिखिनः केकायितस्यवोत्तरक्षणस्योत्पत्तिर्घटते । द्रव्यरूपेण कथाञ्चदत्यक्तरूपस्यापि सम्भवात् न सर्वथा भावानां विनाशस्वभावत्वं युक्तम् । न च द्रव्यरूपस्य गृहीतुमशक्यत्वादभावस्तगृहणोपायस्य प्रत्यभिज्ञानस्य ब लमुपलम्भात्तत्प्रामाण्यस्य च प्रागेवोक्तत्वादुत्तरकार्योत्पत्यन्यथानुपपत्तेश्च सिद्धत्वात् । यच्चान्यत्साधनं सत्त्वाख्यं तदपि विपक्षवत्स्वपक्षेऽपि समानत्वान्न साध्यसिद्धिनिबन्धनम् । तथा हि सत्त्वमर्थक्रियया व्याप्तमर्थक्रिया च क्रमयोगपद्याभ्यां ते च क्षणिकान्निवर्तमाने स्वव्याप्यामर्थक्रियामादाय निवर्तेते । सा च निवर्तमाना स्वव्याप्यं सत्वमिति नित्यस्येव क्षणिकस्यापि खरविषाणवदसत्त्वमिति न तत्र सत्वव्यवस्था । न च क्षाणकस्य वस्तुनः क्रमयोगपद्याभ्यामर्थक्रियाविरोधोऽसिद्धस्तस्य देशकृतस्य कालकृतस्य वा क्रमस्यासम्भवात् । अवस्थितस्यैकस्य हि नानादेशकालकलाव्यापित्वं देशक्रमः कालक्रमश्चाभिधीयते । न च क्षणिके सोऽस्ति, “ यो यत्रैव स तत्रैव यो यदैव तदैव सः। न देशकालयोर्व्याप्तिर्भावानामिह विद्यत" इति स्वयमेवाभिधानात् । न च पूर्वोत्तरक्षणानामेकसन्तानापेक्षया क्रमः सम्भवति, सन्तानस्य वास्तवत्वे तस्यापि क्षणिकत्वेन क्रमायोगादक्षणिकत्वेऽपि वास्तवत्वे तनव सत्त्वादिसाधनमनैकान्तिकम् । अवास्तवत्वे न तदपेक्षः क्रमो युक्त इति । नापि योगपद्येन तत्राक्रिया सम्मवति, युगपदेकेन स्वभावेन नानाकार्यकरणे तत्कार्यैकत्वं स्यात् । नानास्वभावकसनायां ते स्वभावास्तेन च्यापनीयाः । तत्रैकेन स्वभावेन तद्व्याप्तौ तेषामेकरूपता, नानास्वभावेन Page #71 -------------------------------------------------------------------------- ________________ चतुर्थसमुद्देशः। चेदनवस्था । अथैकत्रैकस्योपादानभाव एवान्यत्र सहकारिभाव इति न स्वमावभेद इष्यते । तर्हि नित्यस्यैकरूपस्यापि वस्तुनः क्रमेण नानाकार्यकारिणः स्वभावभेदः कार्यसाङ्कय वा माभूत् । अक्रमात् क्रमिणामनुत्पत्तेनैवमिति चेदेकानंशकारणायुगपदनेककारणस.ध्यानेककार्यविरोधादक्रमिणोऽपि न क्षाणकस्य कार्यकारित्वमिति । किञ्च भवत्पक्षे सतोऽसतो वा कार्यकारित्वम् ? सतः कार्यकर्तृत्वे सकलकालकलाव्यापिक्षणानामेकक्षणवृत्तिप्रसङ्गः । द्वितीयपक्षे खरविषाणादेरपि कार्यकारित्वमसत्त्वाविशेषात् सत्वलक्षणस्य व्यभिचारश्च, तस्मान्न विशेषकान्तपक्षः श्रेयान् ॥ नापि सामान्यविशेषौ परस्परानपेक्षाविति योगमतमपि युक्तियुक्तमवभाति, तयोरन्योन्यभेदे द्वयोरन्यतरस्यापि व्यवस्थापयितुमशक्तः । तथा हि-विशेषास्तावत् द्रव्यगुणकर्मात्मनः सामान्यं तु परापरभेदावविध, तत्र परसामान्यात्सत्तालक्षणाद्विशेषाणां भेदेऽसत्वापत्तिरिति । तथाच प्रयोगः । द्रव्यगुणकर्माण्यसद्रूपाणि सत्त्वादत्यन्तं भिन्नत्वात्प्रागभावादिवदिति । न सामान्यविशेषसमवायैर्व्यभिचारः । तत्र स्वरूपसत्वस्याभिनस्य परैरभ्युपगमात् । ननु द्रव्यादीनां प्रमाणोपपन्नत्वे धर्मिग्राहकप्रमाणबाधितो हेतुर्येन हि प्रमाणेन द्रव्यादयो निश्चीयन्ते तेन तरूत्वमपीति । अथ 'न प्रमाणप्रतिपन्ना द्रव्यादयस्तर्हि हेतोराश्रयासिद्धिरिति' तदयुक्तम् । प्रसङ्गसाधनात्प्रागभावादौ हि सत्त्वाद्भेदोऽसत्त्वेन व्याप्त उपलभ्यते ततश्च व्याप्यस्य द्रव्यादावभ्युपगमो व्यापकाभ्युपगमनान्तरयिक इति प्रसङ्गसाधने अस्य दोषस्याभाव त् । एतेन द्रव्यादीनामप्यद्रव्यादित्त्वं द्रव्यत्त्वादेर्भेदे चिन्तितं बोद्धव्यम् । कथं वा षण्णां पदार्थानां परस्परं भेदे प्रतिनियतस्वरूपव्यवस्था ? द्रव्यस्य हि द्रव्यामिति व्यपदेशस्य द्रव्यत्वाभिसम्बन्धाद्विधाने ततः पूर्व द्रव्यस्वरूपं किञ्चिद्वाच्यं, येन सह द्रव्यत्त्वाभिसम्बन्धः स्यात् । द्रव्यमेव स्वरूपमिति चेन्न, तद्वयपदेशस्य द्रव्यत्त्वाभिसम्बन्धनिबन्धनतया स्वरूपत्वायोगात् । Page #72 -------------------------------------------------------------------------- ________________ प्रमेयरत्नमाला। सत्वं निजं रूपमिति चेन्न, तस्यापि सत्तासम्बन्धादेव तद्वयपदेशकरणात् । एवं गुणादिष्वपि वाच्यम् । केवलं सामान्यविशेषसमवायानामेव स्वरूपसत्त्वेन तथाव्यपदेश.पपत्तेस्तत्रयव्यवस्थैव स्यात् । ननु जीवादिषदार्थानां सामान्यविशेषात्मकत्वं स्याद्वादिभिरभिधीयते तयोश्च वस्तुनोर्मेदाभेदाविति । तौच विरोधादिदोषोपनिपातान्नैकत्र सम्भविनाविति । तथाहि-भेदाभेदयोर्विधिनिषे. धयोरेकताभिन्ने वस्तुन्यसम्भवः शीतोष्णस्पर्शयोति ॥ १ ॥ भेदस्यान्यदधिकरणमभेदस्य चान्यदिति वैयधिकरण्यम् ॥ २ ॥ यमात्मानं पुरोधाय मेदो यं च समाश्रित्याभेदः तावात्मानौ मिन्नौ चामिन्नौ च तत्रापि तथा परिकल्पनादनवस्था ॥३॥ येन रूपेण मेदस्तेन मेदश्चाभेदश्चेति सङ्करः॥४॥ येन मेदस्तेनाभेदो येनाभेदस्तेन मेद इति व्यतिकरः ॥ ५ ॥ मेदामेदात्मकत्वे च वस्तुनोऽसाधारणाकारेण निश्चेतुमशक्तेः संशयः ॥ ६ ॥ ततश्च:प्रतिपत्तिस्ततोऽमावः ॥ ७-८॥ इत्यनेकान्तात्मकमपि न सौस्थ्यमाभजतीति केचित् । तेऽपि न प्रातीतिकवादिनः । विरोधस्य प्रतीयमानयोरसम्भवादनुपलम्भसाध्यो हि विरोधः, तत्रोपलभ्यमानयोः को विरोधः? यच्च शीतोष्णस्पशयोर्वेति दृष्टान्ततयोक्तं तच्च धूपदहनायेकावयविनः शांतोष्णस्पस्विमावस्योपलब्धेरयुक्तमेव । एकस्य चलाचलरक्तारक्तावृतानावृतादिविरुद्धधर्माणां युगपदुपलब्धेश्च प्रकृतयोरपि न विरोध इति । एतेन वैयधिकरण्यमप्यपास्तम् । तयोरेकाधिकरणत्वेन प्रतीतेः । अत्रापि प्रागुक्तनिदर्शनान्येव बोद्धव्यानि । यच्चानवस्थानं दूषणं तदपि स्याद्वादिमतानभिज्ञैरेवापादितम् । तन्मतं हि सामान्यविशेषात्मके वस्तुनि सामान्यविशेषावेव भेदः । भेदध्वनिना तयोरेवाभिधानात् । द्रव्यरूपेणाभेद इति । द्रव्यमेवाभेद एकानेकात्मकत्वाद्वस्तुनः । यदि वा भेदनयप्राधान्येन वस्तुधर्माणामानन्यामानवस्था । तथा हि-यत्सामान्यं यश्च विशेषस्तयोरनुवृत्तव्यावृत्ता Page #73 -------------------------------------------------------------------------- ________________ चतुर्थसमुद्देशः। कारेण मेदस्तयोश्वार्थक्रियामेदावेदश्च शक्तिभेदात् । सोऽपि सहकारिमेदादित्यनन्तधर्माणामङ्गीकरणात् कुतोऽनवस्था । तथा चोक्तम् । मूलक्षतिकरीमाहुरनवस्था हि दूषणम् । वस्त्वानन्त्येप्यशक्तौ च नानवस्था विचार्यते ॥१॥ इति । यौ च सङ्करव्यतिकरौ तावपि मेचकज्ञाननिदर्शनेन सामान्यविशेषदृष्टान्तेन च परिहतौ । अथ तत्र तथा प्रतिमासनं परस्यापि वस्तुनि तथैव प्रतिमासोऽस्तु तस्य पक्षपाताभावानिणीते संशयोऽपि न युक्तः तस्य चलितप्रतिपत्तिरूपत्वादचलितप्रतिमासे दुर्घटत्त्वात् । प्रतिपन्ने वस्तुन्यप्रतिपत्तिरित्यतिसाहसम् । उपलब्ध्यभिधानादनुपलम्भोऽपि न सिद्धस्ततो नामाव इति दृष्टेष्टाविरुद्धमनेकान्तशासनं सिद्धम् । एतेनावयवावयविनोगुणगुणिनोः कर्म. तद्वते.श्च कथंचिद्भेदाभेदौ प्रतिपादितौ बौद्धव्यौ । अथ समवायवशाद्भिन्नेध्वप्यभेदप्रतीतिरनुपपन्नब्रह्मतुलाख्यज्ञानस्येति चेत् न, तस्यापि ततोऽभिन्नस्य व्यवस्थापयितुमशक्तेः । तथा हि-समवायवृत्तिः स्वसमवायिषु वृत्तिमती स्यादवृत्तिमती वा ? वृत्तिमत्त्वे स्वेनैव वृत्त्यन्तरेण वा ? न तावदाद्यः पक्षः समवाये समवायानभ्युपगमात् । पञ्चानां समवायित्त्वमिति वचनात् । वृत्यन्तरकल्पनायां तदपि स्वसम्बन्धिषु वर्तते न वेति कल्पनायां वृत्त्यन्तरपरम्पराप्राप्तेरनवस्था । वृत्त्यन्तरस्य स्वसंबन्धिषु वृत्त्यन्तरानभ्युपगमान्नानवस्थति चेत्, तर्हि समवायेऽपि वृत्त्यन्तरं माभूत् । अथ समवायो न स्वाश्रयवृत्तिररङ्गीक्रियते, तर्हि षण्णामाश्रितत्वमिति ग्रन्थो विरुध्यते । अथ समवायिषु सत्स्वेव समवायप्रतीतेस्तस्याश्रितत्वमुपकल्प्यते तर्हि मूर्तद्रव्येषु सत्स्वेव दिग्लिङ्गस्येदमतः पूर्वेण इत्यादिज्ञानस्य काललिङ्गस्य च परापरादिप्रत्ययस्य सद्भावात्तयोरपि तदाश्रितत्वं स्यात् । तथा चायुक्तमेतदन्यत्रनित्यद्रव्येभ्य इति । किञ्च समवायस्यानाश्रितत्त्वे • सम्बन्धरूपतैव न घटते । तथा च प्रयोगः-समनायो न सम्बन्धः । अनाश्रितत्त्वादिगादिवदिति । अत्र समवायस्य धर्मिणः कथंचित्तादात्म्यरूपस्यानेकस्य च परैः प्रतिपन्नत्त्वार्मिग्राहक Page #74 -------------------------------------------------------------------------- ________________ ७२ : प्रमेयरत्नमाला। प्रमाणबाध आश्रयासिद्धिश्च न वाच्येति । तस्याश्रितत्त्वेऽप्येतदभिधीयते न समवाय एकः सम्बन्धात्मकत्वे सत्याश्रितत्वात् संयोगवत् । सत्तयाऽनेकान्त इति सम्बन्धविशेषणम् । अथ संयोगे निबिडशिथिलादिप्रत्ययनानात्वान्नानात्वं नान्यत्र विपर्ययादिति चेत् न, समवायेऽप्युत्पत्तिमत्त्वनश्वरत्वप्रत्ययनानात्वस्य सुल भत्वात् । सम्बन्धिभेदानेदोऽन्यत्रापि समान इति नैकत्रैव पर्यनुयोगो युक्तः । तस्मात्समवायस्थ परपरिकल्पितस्य विचारासहत्वान्न तद्वशाद्गुणगुण्यादिष्वभेदप्रतीतिः । अथ भिन्न प्रतिभासादवयवायवयव्यादीनां भेद एवेति चेन्न, भेदप्रतिभासस्याभेदाविरोधात् । घटपटादं नामपि कथञ्चिदभेदोपपत्तेः । सर्वथा प्रतिभासभेदस्यासिद्धेश्च । इदमित्याद्यभेदप्रतिभासस्यापि भावात्ततः कथंचिद्भेदाभेदात्मकं द्रव्यपर्यायात्मकं सामान्यविशेषात्मकं च तत्त्वं तीरादर्शिशकुनिन्यायेनायातमित्यलमतिप्रसङ्गेन । इदानीमनेकान्तात्मकवस्तुसमर्थनार्थमेव हेतुद्वयमाह- . अनुवृत्तव्यात्तप्रत्ययगोचरत्वात्पूर्वोत्तराकारपरिहारावाप्तिस्थितिलक्षणपरिणामेनार्थक्रियोपपत्तेवेति ॥ २॥ अनुवृत्ताकारो हि गौॉरित्यादिप्रत्ययः । व्यावृत्ताकारः श्यामः शबल इत्यादिप्रत्ययः । तयोर्गोचरस्तस्य भावस्तत्वं तस्मात् । एतेन तिर्यक्सामान्यव्यतिरेकलक्षणविशेषद्वयात्मकं वस्तु साधितम् । पूर्वोत्तराकारयोर्यथासंख्येन परिहारावाप्ती, ताभ्यां स्थितिः, सैव लक्षणं यस्य, स चासौ परिणामश्च, तेनार्थक्रियोपपत्तेश्चेत्यनेन तूर्खतासामान्यपर्यायाख्यविषद्वयरूपं वस्तु समर्थित भवति । अथ प्रथमोद्दिष्टसामान्यभेदं दर्शयन्नाह-- ___सामान्यं द्वेधा तिर्यगूर्ध्वताभेदात् ॥ ३॥ प्रथमभेदं सोदाहरणमाहसदृशपरिणामस्तिर्यक्, खण्डमुण्डादिषु गोस्ववत् ॥ ४ ॥ Page #75 -------------------------------------------------------------------------- ________________ चतुर्थसमुद्देशः । नित्यकरूपस्य गोत्व देः क्रमयोगपद्याभ्यामक्रियाविरोधात् । प्रत्येक परिसमाप्त्या व्यक्तिषु वृत्त्ययोगाच्चानेकं सदृशपरिणामात्मकमेवेति तिर्यक्सामान्यमुक्तम् । द्वितीयभेदमपि सदृष्टान्तमुपदर्शयति-- परापरविवर्त्तव्यापिद्रव्यमूर्खता मृदिव स्थासादिष्विति ॥५॥ सामान्यमिति वर्तते तेनायमर्थः-उतासामान्यं भवति । किंतत् ? द्रव्यम् । तदेव विशिष्यते परापरविवर्तव्यापीति पूर्वापरकालवर्तित्रिकालानुयायीत्यर्थः । चित्रज्ञानस्यैकस्य युगपद्भाव्यनेकस्वगतनीलाद्याकारख्याप्तिवदेकस्य क्रमभाविपरिणामव्यापित्त्वमित्यर्थः । विशेषस्यापि वैविध्यमुपदर्शयति . विशेषश्चेति ॥ ६ ॥ द्वेधेत्यधिक्रियमाणेनाभिसम्बन्धः । तदेव प्रतिपादयति पर्यायव्यतिरेकभेदादिति ॥ ७॥ प्रथमविशेष भेदमाह एकस्पिन्द्रव्ये क्रमभाविनः परिणामाः पर्याया आत्मान हर्षविषादादिवदिति ॥ ८ ॥ अत्रात्मद्रव्यं स्वदेहप्रमितिमात्रमेव न व्यापकम् । नापि वटकणिकामात्रम् । न च कायाकारपरिणतभूतकदम्बकमिति, तत्र व्यापकत्त्वे परेषामनुमानमात्मा व्यापकः द्रव्यत्त्वे सत्त्यमूर्तत्त्वादाकाशवदिति । तत्र यदि रूपादिलक्षणं मूर्तत्वं तत्प्रतिषेधोऽमूर्तत्वं तदा मनसःऽनेकान्तः । अथासर्वगतद्रव्यपरिमाणं मूर्तत्वं तन्निषेधस्तथा चेत्परंप्रति साध्यसमो हेतुः । यच्चापरमनुमानं-आत्मा व्यापकः अणुपरिमाणानधिकरणत्वे सतिनित्यद्रव्यत्त्वादाकाशवदिति । तदपि न साधुसाधनम् । अणुपरिमाणानधिकरणत्त्वमित्यत्र किमयं नञर्थः पर्युदासः प्रसज्यो वा भवेत् ? तत्राद्यपक्षे अणुपरिमाणप्रतिषेधेन महापरिमाणमवान्तरपरिमाणं परिमाणमात्रं वा ? महापरिमाणं चेत् साध्यसमो हेतुः । अवान्तरपरिमाणं चेत् विरुद्धो हेतुरवान्तरप.. Page #76 -------------------------------------------------------------------------- ________________ ७५ प्रमेयरत्नमाला। रिमाणाधिकरणत्वं ह्यव्यापकत्वमेव साधयतीति । परिमाणमात्रं चेत्-सत्परिमाणसामान्यमङ्गीकर्तव्यम् । तथाचाणु परिमाणप्रतिषेधेन परिमाणसामान्याधिकरणत्वमात्मन इत्युक्तम् । तच्चानुपपन्नं, व्यधिकरणासिद्धिप्रसङ्गात् । न हि परिमाणसामान्यमात्मनि व्यवस्थितं किन्तु परिमाणव्यक्तिष्वेवेति । न चावान्तरमहापरिमाणद्वयाधारतयाऽऽत्मन्यप्रतिपन्ने परिमाणमात्राधिकरणता तत्र निश्चेतुं शक्या । दृष्टान्तश्च साधनविकलः । आकाशस्य महापरिमाणाधिकरणतया परिमाणमात्राधिकरणत्वायोगात् । नित्यद्रव्यत्वं च सर्वथाऽसिद्धम् । नित्यस्य क्रमाक्रमाभ्यामर्थक्रियाविरोधादिति । प्रसज्यपक्षेऽपि तुच्छामावस्य ग्रहणोपायासम्भवात् न विशेषणत्वम् । न चागृहीतविशेषणं नाम न चागृहीतविशेषणाविशेष्ये बुद्धिरितिवचनान्न प्रत्यक्षं तद्ग्रहणोपायः सम्बन्धाभावादिन्द्रियार्थसन्निकर्षजं हि प्रत्यक्षं तन्मते प्रसिद्धम् । विशेषणविशेष्यमावकल्पनायाममावस्य नागृहीतस्य विशेषणत्वमिति तदेव दूषणम् । तस्मान्न व्यापकमात्मद्रव्यम् । नापि वटकणिकामात्रं कमनीयकान्ताकुचजधनसंस्पर्शकाले प्रतिलोमकूपमाल्हादनाकारस्य सुखस्यानुभवनात् । अन्यथा सर्वाङ्गीण रोमाञ्चादिकार्योदयायोगात् । आशुवृत्त्यालातचक्रवत् क्रमेणैव तत्सुखमिय. 'नुपपन्नम् । परापरान्तःकरणसम्बन्धस्य तत्कारणस्य परिकल्पनायां व्यवधानप्रसङ्गात् । अन्यथा सुखस्य मानसप्रत्यक्षत्वायोगादिति । नापि पृथिव्यादि. चतुष्टयात्मकत्वमात्मनः सम्भाव्यते । अचेतनेभ्यश्चैतन्योत्पत्त्ययोगाद्धारणेरणद्रवोष्णतालक्षणान्वयाभावाच्च । तदहर्जातबालकस्य स्तनादावभिलाषाभाव. प्रसङ्गाच्च । अभिलाषो हि प्रत्यभिज्ञाने भवति, तच्च स्मरणे, स्मरणं चानुभवे भवतीति पूर्वानुभवः सिद्धः । मध्यदशायां तथैव व्याप्तेः । मृताना रक्षोयक्षादिकुलेषु स्वयमुत्पन्नत्वेन कथयता दर्शनात् । केषाञ्चित् भवस्मृतेरुपलम्भाच्चानादिश्चेतनः सिद्ध एव । तथा चोक्तम्-तदहर्जस्तनेहातो रक्षोदृष्टर्भवस्मृतेः । भूतानन्वयनासिद्धः प्रकृतिज्ञः सनातनः ॥ १ ॥ इति । Page #77 -------------------------------------------------------------------------- ________________ पंचमसमुद्देशः । न च स्वदेहप्रमितिरात्मेत्यत्रापि प्रमाणाभावात् सर्वत्र संशय इति वक्तव्यं तत्रानुमानस्य सद्भावात् । तथाहि देवदत्तात्मा • तद्देह एव तत्र सर्वत्रैव च विद्यते तत्रैव तत्र सर्वत्रैव च स्त्रासाधारणगुणाधारतयोपलम्भ. तू । यो यत्रैव यत्र सर्वत्रैव च स्वासाधारणगुणाधारतयोपलभ्यते - स तत्रैव तत्र सर्वत्रैव च विद्यते यथा देवदत्तगृहे एव तत्र सर्वत्रैव चोपलभ्यमानः स्वासाधारण भासुरत्वादिगुणः प्रदीपः तथाचायं तस्मात्तथेति । तदसाधारणगुणा ज्ञानदर्शन सुखवीर्य लक्षणास्ते च सर्वाङ्गीणास्तत्रैव चोपलभ्यन्ते ॥ सुखमाल्हाद नाकारं विज्ञानं मेयबोधनम् । शक्तिः क्रियानुमेया स्याद्यूनः कान्तासमागमे ॥ १ ॥ इति वचनात् । तस्मादात्मा देहप्रमितिरेव स्थितः । द्वितीयं विशेषभेदमाह - अर्था-तरगतो बिसदृशपरिणामो व्यतिरेको गोमहिषादिवत् ॥ ८ ॥ वैसादृश्यं हि प्रतियोगिग्रहणे सत्येव भवति । न चापेक्षिकत्त्वादस्यावस्तुत्त्वमवस्तुन्यापेक्षिकत्वायोगात् । अपेक्षाया वस्तुनिष्ठत्वात् ॥ ७५ स्यात्कारलांच्छितमबाध्य मनन्तधर्म । संदोहवर्मितमशेषमपि प्रमेयम् ॥ देवैः प्रमाणबलतो निरचायि यच्च । संक्षिप्तमेव मुनिभिर्विवृतं मयैतत् ॥ १ ॥ इति परीक्षामुखस्य लघुवृत्तौ विषयसमुद्देशश्चतुर्थः ॥ ४ ॥ अथेदानीं फलविप्रतिपत्तिनिरासार्थमाह अज्ञाननिवृत्तिर्ज्ञानोपादानोपेक्षाच फलम् ॥ १ ॥ द्विविधं हि फलं साक्षात्पारम्पर्येणेति । साक्षादज्ञाननिवृत्तिः पारम्पर्येण हानादिकमिति, प्रमेयनिश्चयोत्तर कालभावित्वात्तस्येति । तद्विविधमपि फलं प्रमाणाद्भिन्नमेवेति यौगाः । अभिन्नमेवेति सौगताः । तन्मतद्वयनिरासेन स्वमतं व्यवस्थापयितुमाह Page #78 -------------------------------------------------------------------------- ________________ प्रमेयरत्नमाला। प्रमाणादभिन्न भिन्नं च ॥ २॥ कथंचिदभेदसमर्थनार्थ हेतुमाह यः प्रमिमीते स एव निवृत्ताज्ञानो जहात्यादत्त उपेक्षते चेति प्रतीतेः ॥ ३॥ अयमर्थः–यस्यैवात्मनः प्रमाणाकारेण परिणतिस्तस्यैव फलरूपतया परिणाम इत्येकप्रमात्रपेक्षया प्रमाणफलयोरभेदः । करणक्रियापरिणामभेदाढ़ेद इत्यस्य सामर्थ्यसिद्धत्त्व लोक्तम् ॥ पारम्पर्येण साक्षाच्च फलं द्वेधाऽभिधायि यत् । देवभिन्नमभिन्नं च प्रमाणात्तदिहोदितम् ॥ १ ॥ इति परीक्षामुखलघु वृत्ती फलसमृद्देशः पञ्चमः ॥ ५ ॥ अथेदानीमुक्तप्रमाणस्वरूपादिचतुष्टयाभासमाह ततोऽन्यत्तदाभासमिति ॥ १ ॥ तत उक्तात् प्रमाणस्वरूपसंख्याविषयफलभेदादन्यद्विपरीतं तदाभासमिति। तत्र क्रमप्रप्तं स्वरूपाभासं दर्शयति-- अस्वसंविदितगृहीतार्थदर्शनसंशयादयः प्रमाणाभासाः ॥२॥ अस्वसंविदितञ्च गृहीतार्थञ्च दर्शनञ्च संशय आदिर्येषां ते संशयादयश्चति सर्वेषां द्वंद्वः । आदिशब्देन विपर्ययानध्यवसाययोरपि ग्रहणम् । तत्रास्वसंविदितं ज्ञानं ज्ञानान्तरप्रत्यक्षत्वादिति नैयायिकः । तथाहि ज्ञाने स्वव्यतिरिक्तवेदनवेद्यं वद्यत्वात् घटवदिति । तदसङ्गतम्-धर्मिज्ञानस्य ज्ञानान्तरवेद्यत्वे साध्यान्तः शातित्वेन धर्मिवायोगात् । स्वसंविदितावे तेनैव हेतोरनेकान्तात् । महेश्वरज्ञानेन च व्यभिचाराद्वयाप्तिज्ञानेनाप्यनेकान्तादर्थप्रतिपत्त्ययोगाच्च । नहि ज्ञापकमप्रत्यक्षं ज्ञाप्यं गमयति Page #79 -------------------------------------------------------------------------- ________________ षष्ठसमुद्देशः । शब्दलिङ्गादीनामपि तथैव गमकत्त्वप्रसङ्गात् । अनन्तरभाविज्ञानग्राह्यत्वे तस्याप्यगृहीतस्य पराज्ञापकत्वात्तदनन्तरं कल्पनीयम् । तत्रापि तदनन्तरमित्यनवस्था तस्मान्नायं पक्षः श्रेयान् । एतेन करणज्ञानस्य परे क्षत्वेनास्वसंविदितत्वं ब्रुवन्नपि मीमांसकः प्रत्युक्तः । तस्या। ततोऽर्थप्रत्यक्षत्वायोगात् । अथ कर्मस्वेनाप्रतीयमानत्वादप्रत्यक्षत्वे तर्हि फलज्ञानस्याप्रत्यक्षता तत एव स्यात् । अथ फलत्वेन प्रतिभासनं नो चेत् करणज्ञानस्यापि करणत्वेनावभासनात् प्रत्यक्षत्वमस्तु । तस्मादर्थप्रतिपत्त्यन्यथाऽनुपपत्तेः करणज्ञानकल्पनावदर्थप्रत्यक्षत्वान्यथाऽनुपपत्तेानस्यापि प्रत्यक्षत्वमस्तु । अथ करणस्य चक्षुरादेरप्रत्यक्षत्वेऽपि रूपप्राकट्याद्वयमिचार इति चेन्न, मिन्नकर्तृककरणस्येव तद्वयमिचारात् । अभिन्नकर्तृके करणे सति कर्तृप्रत्यक्षतायां तदभिन्नस्यापि कर. णस्य कथञ्चित्प्रत्यक्षत्वेनाप्रत्यक्षतैकान्तविरोधात्प्रकाशात्मनोऽप्रत्यक्षत्वे प्रदी. पप्रत्यक्षत्वविरोधवदिति । गृहीतग्राहिधारावाहिज्ञानं गृहीतार्थ, दर्शनं सौगताभिमतं निर्विकल्पकं, तच्च स्वविषयानुपदर्शकत्वादप्रमाणं व्यवसायस्यैव तज्जनितस्य तदुपदर्शकत्त्वात् । अथ व्यवसायस्य प्रत्यक्षाकारेणानुरक्तत्वा. त्ततः प्रत्यक्षस्यैव प्रामाण्य व्यवसायस्तु गृहीतग्राहित्वादप्रमाणमिाते तन्न सुभाषितं-दर्शनस्याविकल्पकस्यानुयलक्षणात्तत्सद्भावायोगात् सद्भावे वा नीलादाविव क्षणक्षयादावपि तदुपदर्शकत्वप्रसङ्गात् । तत्र विपरीतसमारोपान्नेति चेतर्हि सिद्धं नीलादी समारोपविधिग्रहणलक्षणो निश्चय इति तदात्मकमेव प्रमाणमितरत्तदाभासमिति । संशयादयश्च प्रसिद्धा एव । तत्र संशय उभयकोटिसंस्पर्शी स्थाणुर्वा पुरुषो वेति परामर्शः । विपर्ययः पुनर. तस्मिंस्तदिति विकल्पः । विशेषानवधारणमध्यवसायः । कथमेषामस्वसंविदितादीनां तदाभासतेत्यत्राह स्वविषयोपदर्शकत्वाभावात् ॥ ३॥ Page #80 -------------------------------------------------------------------------- ________________ प्रमेयरत्नमाला। गतार्थमेतत् । अत्र दृष्टान्तं यथ क्रममाहपुरुषान्तरपूर्वार्थगच्छत्तृणस्पर्शस्थाणुपुरुषादिज्ञानवत् ॥ ४ ॥ पुरुषान्तरं च पूर्वार्थश्च गच्छत्तृणस्पर्शश्च स्थाणुपुरुषादिश्च तेषां ज्ञानं तद्वत् । अपरं च सन्निकर्षवादिनं प्रति दृष्टान्तमाह ... चक्षुरसयोद्रव्ये संयुक्तसमवायवच्च ॥५॥ ___ अयमों यथा चक्षुरसयोः संयुक्तसमवायः सन्नपि न प्रमाणं तथा चक्षुरूपयोरपि । तस्मादयमपि प्रमाणाभास एवेति । उपलक्षणमेतत् अतिव्याप्तिकथनमव्याप्तिश्च । सन्निकर्षप्रत्यक्षवादिनां चक्षुषि सन्निकर्षस्यामावात् । अथ चक्षुः प्राप्तार्थपरिच्छेदकं व्यत्रहितार्थाप्रकाशकत्वात् प्रदीपवदिति तत्सिद्धिरिति मतं तदपि न साधीयः । काचाभ्रपटलादिव्यवहितार्थानामपि चक्षुषा प्रतिमासनाद्धेतोरसिद्धः । शाख चन्द्रमसोरेककालदर्शनानुपपत्तिप्रसक्तेश्च । न च तत्र क्रमेऽपि योगपद्याभिमान इति वक्तव्यम् । कालव्यवधानानुपलब्धेः । किञ्च क्रमप्रतिपत्तिः प्राप्तिनिश्चये सति भवति । न च क्रमप्राप्तौ प्रमाणान्तरमस्ति । तैजसत्वमस्तीति चेन्न तस्यासिद्धेः । अथ चक्षुस्तैजसं रूपादीनां मध्ये रूपस्यैव प्रकाशकत्त्वात् प्रदीपवदिति । तदप्यपर्यालोचिताभिधानं मण्यञ्जनादेः पार्थिवत्त्वेऽपि रूपप्रकाशकत्वदर्शनात् । पृथिव्यादिरूपप्रकाशकत्त्वे पृथिव्याद्यारब्धत्वप्रसङ्गाच्च । तस्मात्सन्निकर्षस्याव्यापकत्वान्न प्रमाण करणज्ञानेन व्यवधानाच्चेति । प्रत्यक्षामासमाह - अवैशये प्रत्यक्षं तदाभासं बौद्धस्याकस्मादद्धमदर्शनाद्वह्निविज्ञानवदिति ॥ ६॥ परोक्षामासमाहवैषयेऽपि परोक्षं तदाभासं मीमांसकस्य करणज्ञानवत् ॥ ७ ॥ प्राक् प्रपञ्चितमेतत् । परोक्षभेदाभासमुपदर्शयन् प्रथम क्रमप्राप्त स्मरणाभासमाह Page #81 -------------------------------------------------------------------------- ________________ ___७९ षष्ठसमुदेशः। अतस्मिंस्तदिति ज्ञानं स्मरणाभासं जिनदत्ते सदेवदत्तोपयोत 'अतस्मिन्नननुभूत इत्यर्थः शेषं सुगमम् । प्रत्यभिज्ञानाभासमाह सदृशे तदेवेदं तस्मिन्नेव तेन सदृशं यमलकवदित्यादि प्रत्यभिज्ञानाभासम् ॥९॥ द्विविधं प्रत्यभिज्ञानाभासमुपदर्शितं, एकत्वनिबंधनं सादृश्यनिबंधनं चेति । तत्रैकत्त्वे सादृश्यावभासः सादृश्ये चैकत्वाभासस्तदाभासमिति । तर्कामासमाह-- असम्बद्ध तज्ज्ञानं तर्कामासम् ॥ १० ॥ यावाँस्तत्पुत्रः स श्याम इति यथा । तज्ज्ञानमिति व्याप्तिलक्षणसम्बन्धज्ञानमित्यर्थः इदानीमनुमानाभासमाह इदमनुमानाभासम् ॥ ११ ॥ इदं वक्ष्यमाणामिति भावः । तत्र तदवयवाभासोपदर्शनेन समुद यरूमानुमानामासमुपदर्शयितुकामः प्रथमावयवाभासमाह-- तत्रानिष्टादिः पक्षाभासः ॥ १२ ॥ इष्टमबाधितमित्यादि तल्लक्षणमुक्तमिदानीं तद्विपरीतं तदाभासमिति कथ यति ' अनिष्टो मीमांसकस्यानित्यः शब्दः ॥ १३ ॥ असिद्धाद्विपरीतं तदाभासमाह-- सिद्धः श्रावणः शब्द इति ॥ १४ ॥ अबाधितमविपरीतं तदाभासमावेदयन् स च प्रत्यक्षादिबाधित एवेति दर्शयन्नाह बाधितः प्रत्यक्षानुमानागमलोकस्ववचनैः ॥ १५ ॥ एतेषां क्रमेणोदाहरणमाह--- Page #82 -------------------------------------------------------------------------- ________________ प्रमेयरत्नमाला। तत्र प्रत्यक्षबाधितो यथा अनुष्णोऽग्निद्रव्यत्वाजलवत् । स्पार्शनप्रत्यक्षेण ह्युष्णस्पर्शात्मकोऽग्निरनुभूयते । अनुमानबाधितमाह___ अपरिणामी शब्दः कृतकत्वात् घटवत् ॥ १७ ॥ अत्र पक्षोऽपरिणामी शब्दः कृतकत्वादित्यनेन बान्यते । आगमत्राधितमाह प्रेत्यासुखपदो धर्मः पुरुषाभितत्वादधर्मवत् ॥ १८ ॥ आगमे हि पुरुषाश्रितत्वाविशेषेऽपि परलोके धर्मस्य सुखहेतुत्वमुक्तम् । लोकबाधितमाह शुचि नरशिरःकपालं प्राण्यंगत्वाच्छंखशुक्तिवत् ॥ १९ ॥ लोके हि प्राण्यंगत्वेऽपि कस्यचिच्छुचित्त्वमशुचित्वं च । तत्र नरकपालादीनामशुचित्वमेवेति लोकबाधितत्वम् । स्ववचनबाधितमाहमाता मे वन्ध्या पुरुषसंयोगेऽप्यगर्भवात्मसिद्धवन्ध्यावत् ॥२०॥ ___ इदानी हेत्वाभासान् क्रमापन्नानाहहेत्वाभासा असिद्धविरुद्धानकान्तिकाकिञ्चित्कराः ॥ २१ ॥ एषां यथाक्रमं लक्षणं सोदाहरणमाह असत्सत्तानिश्चयोऽसिद्धः ॥ २२ ॥ सत्ता च निश्चयश्च सत्तानिश्चयौ, असन्तौ सत्तानिश्चयो यस्य स भवत्यसत्लत्तानिश्चयः । तत्र प्रथमभेदमाह अविद्यमानसत्ताकः परिणामी शब्दश्चाक्षुषत्त्वात् ॥ २३ ॥ कथमस्यासिद्धत्वमित्याह स्वरूपेणासत्त्वात् ॥ २४ ॥ द्वितीयासिद्धभेदमुपदर्शयतिअविद्यमाननिश्चयो हुन्धबुद्धिमत्यग्निरत्र धूमादिति ॥ २५॥ Page #83 -------------------------------------------------------------------------- ________________ षष्ठसमुद्देशः। अस्याप्यसिद्धता कथमित्त्यारेकायामाहतस्य बाष्पादिभावेन भूतसंघाते संदेहात् ॥ २६॥ तस्येति मुग्धबुद्धिंप्रतीत्यर्थः । अपरमसिद्धभेदमाहसांख्यम्पति परिणामी शब्दः कृतकत्त्वादिति ॥ २७ ॥ अस्यासिद्धतायां कारणमाह तेनाज्ञातत्वादिति ॥ २८ ॥ तेन सांख्येनाज्ञातत्वात् , तन्मते ह्याविर्भावतिरोभावावेव प्रसिद्धौ नोत्पस्यादिरिति । अस्याप्यनिश्चयादसिद्धत्वमित्यर्थः । विरुद्धं हेत्वाभासमुपदर्शयन्नाह विपरीतनिश्चिताविनाभावो विरुद्धोऽपरिणामी शब्दः कृतकत्त्वात् ॥ २९॥ कृतकत्वं ह्यपरिणामविरोधिना परिणामेन व्याप्तमिति । अनैकान्तिकं हेत्वाभासमाह विपक्षेऽप्यविरुद्धवृत्तिरनैकान्तिकः ॥३०॥ अपिशब्दान्न केवलं पक्षसपक्षयोरिति द्रष्टव्यम् । स च द्विविधो विपक्षे निश्चितवृत्तिः शङ्कितवृत्तिश्चेति । तत्राचं दर्शयन्नाहनिश्चितत्तिरनित्यः शब्दः प्रमेयत्त्वात् घटवदिति ॥ ३१ ॥ कथमस्य विपक्षे निश्चिता वृत्तिरित्याशङ्कयाह आकाशे नित्येऽप्यस्य निश्चयात् ॥ ३२ ॥ शङ्कितवृत्तिमुदाहरतिशङ्कितवृत्तिस्तु नास्ति सर्वज्ञो वक्तृत्वादिति ॥ ३३ ॥ अस्यापि कथं विपक्षे वृत्तिराशंक्यत इत्यत्राह--- सर्वज्ञत्वेन वक्तृत्वाविधादिति ॥ ३४ ॥ अविरोधश्च ज्ञानोत्कर्षे वचनानामपकर्षादर्शनादिति निरूपितप्रायम् । अकिञ्चित्करस्वरूपं निरूपयति-- Page #84 -------------------------------------------------------------------------- ________________ ८२ प्रमेयरत्नमाला | सिद्धे प्रत्यक्षादिबाधिते च साध्ये हेतुरकिञ्चित्करः ।। ३५ ।। तत्र सिद्धे साध्ये हेतुरकिञ्चित्कर इत्युदाहरति---- सिद्धः श्रावणः शब्दः शब्दत्वात् || ३६ || कथमस्या किञ्चित्करत्वमित्याह किञ्चिदकरणात् || ३७ ॥ अपरं च भेदं प्रथमस्य दृष्टान्तीकरणद्वारेणोदाहरतियथाऽनुष्णोऽग्निद्रव्यत्वादित्यादौ किञ्चित्कर्तुमश्यक्यत्वात् ॥ ३८ ॥ अकिञ्चित्करत्त्वमिति शेषः । अयं च दोषो हेतुलक्षणविचारावसर एव, न वादकाल इति व्यक्तीकुर्वन्नाह - - लक्षण एवासौ दोषो व्युत्पन्नप्रयोगस्य पक्षदोषेणैव दुष्टत्वात् ॥ ३९ ॥ दृष्टान्तो ऽन्वयव्यतिरेकभेदाद्विविध इत्युक्तं तत्रान्वयदृष्टान्ताभासमाह - दृष्टान्ताभासा अन्वये सिद्धसाध्यसाधनोभयाः ॥ ४० ॥ साध्यं च साधनं च उभयं च साध्यसाधनोभयानि असिद्धानि तानि येष्विति विग्रहः । एतानेकत्रैवानुमाने दर्शयतिअपौरुषेयः शब्दोऽमृर्तत्त्वादिन्द्रियसुखपरमाणुघटवत् ॥ ४१ ॥ इन्द्रियसुखमसिद्धसाध्यं तस्य पौरुषेयत्त्वात् । परमाणुरसिद्धसाधनं तस्य मूर्तत्त्वात् । घटश्चासिद्धोभयः पौरुषेयत्त्वान्मूर्तत्त्वाच्च । साध्यव्याप्तं साधनं दर्शनीयमिति दृष्टान्तावसरे प्रतिपादितं तद्विपरीतदर्शनमपि तदाभासमित्याहविपरीतान्वयश्च यदपौरुषेयं तदमूर्तम् ॥ ४२ ॥ कुतोऽस्य तदाभासतेत्याह --- विद्युदादिनाऽतिप्रसङ्गात् ॥ ४३ ॥ तस्याप्यमूर्तता प्राप्तेरित्यर्थः । व्यतिरेकोदाहरणाभासमाह --- व्यतिरेकेऽसिद्ध तद्वयतिरेकाः परमाण्विन्द्रियसुखाकाशवत् ॥ ४४ ॥ Page #85 -------------------------------------------------------------------------- ________________ षष्ठसमुद्देशः । अपौरुषेयः शब्दोऽमूर्तत्वादित्यत्रैवासिद्धाः साध्यसाधनोभयव्यतिरेका यत्रेति विग्रहः । तत्रासिद्धसाध्यव्यतिरेकः परमाणुस्तस्यापौरुषेयत्वात् इन्द्रियसुखमसिद्धसाधनव्यतिरेकम् । आकाशं त्वसिद्धोभयव्यतिरेकमिति । साध्याभावे साधनव्यावृत्तिरिति व्यतिरेकोदाहरणप्रघट्टके स्थापितं तत्र तद्विपरीतमपि तदाभासमित्युपदर्शयति-— विपरीतव्यतिरेकञ्च यन्नामूर्त तन्नापौरुषेयम् ॥ ४५ ॥ बाळव्युत्पत्यर्थं तत्रयोपगम इत्युक्तमिदानीं तान्प्रत्येव कियद्धीनताषा प्रयोगाभासमाह बालप्रयोगाभासः पञ्चावयवेषु कियद्धीनता ॥ ४६ ॥ तदेवोदाहरति अग्निमानयं देशो धूमवत्वात् यदित्थं तदित्थं यथा महानस इतेि । इत्यवयवन्त्रयप्रयोगे सतीत्यर्थः । चतुरवयवप्रयोगे तदाभासत्वमाहधूमवांश्चायमिति वा ॥ ४८ ॥ अवयवविपर्ययेऽपि तत्त्वमाह तस्मादग्निमान् धूमवांश्रायमिति ॥ ४९ ॥ कथमवविपर्यये प्रयोगाभास इत्यारेकायामाह - स्पष्टतया प्रकृतप्रतिपत्तेरयोगात् ॥ ५० ॥ इदानीमागमाभासमाह -- रागद्वेषमोहाक्रान्त पुरुषवचनाज्जातमागमाभासम् ॥ ५१ ॥ उदाहरणमाह यथा नद्यास्वीरे मोदकराशयः सन्ति, धावध्वं माणवकाः ॥५२॥ कश्चिन्माणवकैराकुलीकृतचेतास्तत्सङ्गपरिजिहीर्षया प्रतारणवाक्येन नद्या देशं तान् प्रस्थापयतीत्या तोक्तेरन्यत्वादागमाभासत्वम् । प्रथमोदाहरणमात्रे'गातुंष्यन्नुदाहरणान्तरमाह--- Page #86 -------------------------------------------------------------------------- ________________ प्रमेयरत्नमाला। _____ अंगुल्यग्रे हस्तियूथशतमास्त इति च ॥ ५३॥ अत्रापि सांख्यपशुः स्वदुरागमजनितवासनाहितचेता दृष्टेष्टविरुद्धं सर्वे सर्वत्र विद्यत इति मन्यमानस्तथोपदिशतीत्यनाप्तवचनत्वादिदमाप तथेत्यर्थः । कथमनन्तरयोर्वाक्ययोस्तदाभासत्वमित्यारेकायामाह----. विसंवादात् ॥ ५४॥ अविसंवादरूपप्रमाणलक्षणाभावान्न तद्विशेषरूपमपीत्यर्थः । इदानीं संख्याभासमाह प्रत्यक्षमेवैकं प्रमाणमित्यादि संख्याभासम् ॥ ५५ ॥ प्रत्यक्षपरोक्षभेदात् द्वैविध्यमुक्तं तद्वैपरीत्येन प्रत्यक्षमेव, प्रत्यक्षानुमाने एवेत्याद्यवधारणं संख्याभासम् । प्रत्यक्षमेवैकमिति कथं संख्याभासमित्याह लोकायतिकस्य प्रत्यक्षतः परलोकादिनिषेधस्य परबुद्ध्यादेश्वासिद्भरतद्विषयत्वात् ॥५६॥ ___अतद्विषयत्वात् अप्रत्यक्षविषयत्वादित्यर्थः । शेषं सुगमम् । प्रपञ्चितमे वैतत्संख्याविप्रतिपत्तिनिराकरण इति नेह पुनरुच्यते । इतरवादिप्रमाणेयत्तावधारणमपि विघटत इति लौकायतिकदृष्टान्तद्वारेण तन्मतेऽपि संख्याभासमिति दर्शयति सौगतसांख्ययोगमाभाकरजैमिनीयानां प्रत्यक्षानुमानागमोपमानार्थापत्त्यभावैरेकैकाधिकैर्व्याप्तिवत् ॥ ५७ ॥ यथा प्रत्यक्षादिभिरेकैकाधिकैाप्तिः प्रतिपत्तुं न शक्यते सौगतादिमिस्तथा प्रत्यक्षेण लौकायतिकैः परबुद्धयादिरपीत्यर्थः। अथ परबुद्धयादिप्रतिपत्तिः प्रत्यक्षेण माभूदन्यस्माद्भविष्यतीत्याशङ्कयाह अनुमानादेस्तद्विषयत्वे प्रमाणान्तरत्वम् ॥ ५८ ॥ तच्छब्देन परबुद्धयादिरभिधीयते । अनुमानादेः परबुद्धयादिविषयत्वे प्रत्यक्षकप्रमाणवादो हीयत इत्यर्थः । अत्रोदाहरणमाह-- Page #87 -------------------------------------------------------------------------- ________________ षष्ठ समुद्देशः । तर्कस्येव व्याप्तिगोचरत्वे प्रमाणान्तरत्वम् अप्रमाणस्याव्यवस्थापकत्वात् ॥ ५९ ॥ सौगतादीनामिति शेषः । किञ्च प्रत्यक्षैकप्रमाणवादिना प्रत्यक्षाद्येकैकाधिक प्रमाणवादिभिश्च स्वसंवेदनेन्द्रियप्रत्यक्ष भेदोऽनुमान दिभेदश्च प्रतिभासभेदेनेव वक्तव्यो गत्यन्तराभावात् । स च तद्भेदो लौकायतिकंप्रति प्रत्यक्षानुमानयोरितरेषां व्याप्तिज्ञानप्रत्यक्षादिप्रमाणेष्विति सर्वेषां प्रमाणसंख्या विघटते । तदेव दर्शयति- ८५ प्रतिभासभेदस्य च भेदकत्वात् ॥ ६० ॥ इदानीं विषयाभासमुपदर्शयितुमाह- विषयाभासः सामान्यं विशेषो द्वयं वा स्वतंत्रम् ॥ ६१ ॥ कथमेषां तदाभासतेत्याह तथाऽप्रतिभासनात्कार्याकरणाच्च ।। ६२ ।। किञ्च तदेकान्तात्मकं तत्त्वं स्वयं समर्थमसमर्थं वा कार्यकारि स्यात् ? प्रथमपक्षे दूषणमाह समर्थस्य करणे सर्वदोत्पत्तिरनपेक्षत्वात् ॥ ६३ ॥ सहकारिसान्निध्यात् तत्करणान्नेति चेदाह - परापेक्षणे परिणामित्वमन्यथा तदभावात् ॥ ६४ ॥ वियुक्तावस्थायामकुर्वतः सहकारिसमवधानवेलायां कार्यकारिणः पूर्वोत्तराकारपरिहारावाप्तिस्थितिलक्षणपरिणामोपपत्तेरित्यर्थः । अन्यथा कार्यकारणाभावात् । प्रागभावावस्थायामेवेत्यर्थः । अथ द्वितीयपक्षदोषमाहस्वयमसमर्थस्य अकारकत्वात्पूर्ववत् ।। ६५ ।। अथ फलाभासं प्रकाशयन्नाह- फलाभासं प्रमाणादभिन्नं भिन्नमेव वा ॥ ६६ ॥ कुतः पक्षद्वयेऽपि तदाभासतेत्याशङ्कायामाद्यपक्षे तदाभासत्वे हेतुमाह - Page #88 -------------------------------------------------------------------------- ________________ प्रमेयरत्नमाला। ... अभेदे तद्वयवहारानुपपत्तेः ॥ ६७ ॥ - फलमेव प्रमाणमेव वा भवेदिति भावः । व्यावृत्या संवृत्यपरनामधेयया तत्कल्पनाऽस्त्वित्याह--- व्याहत्याऽपि न तत्कल्पना फलान्तराद्यात्याऽफलत्वप्रसङ्गात् ॥ अयमर्थः-यथा फलाद्विजातीयात् फलस्य व्यावृत्त्या फलव्यवहारस्तथा फलान्तरादपि सजातीयाध्यावृत्तिरप्यस्तत्यिफलत्वम् । अत्रैवाभेदपक्षे दृष्टान्तमाह प्रमाणायावृत्त्येवाप्रमाणत्वस्येति ॥ ६९ ॥ अत्रापि प्राक्तन्येव प्रक्रिया योजनीया । अभेदपक्षं निराकृत्य आचार्य उपसंहरति-- तस्मादास्तवोऽभेद इति ॥ ७० ॥ भेदपक्षं दूषयन्नाह भेदे त्वात्मान्तरवत्तदनुपपत्तेः ॥ ७१ ॥ अथ यत्रैवात्मनि प्रमाणं समवेतं फलमपि तत्रैव समवेतमिति समवायलक्षणप्रत्यासत्या प्रमाणफलव्यवस्थितिरिति । नात्मान्तरे तत्प्रसंग इति वेत्तदपि न सूक्तमित्याह-- समवायेऽतिप्रसङ्ग इति ॥ ७२ ॥ समवायस्य नित्यत्वाध्यापकत्वाच्च सर्वात्मनामपि समवायसमानधर्मिकत्वान्न ततः प्रतिनियम इत्यर्थः । इदानीं स्वपरपक्षसाधनदूषणव्यवस्थामुपदर्शयति प्रमाणतदाभासौ दुष्टतयोद्भावितौ परिहतापरिहृतदोषौ वादिनः साधनतदाभासौ प्रतिवादिनो दृषणभूषणे च ॥७३॥ वादिना प्रमाणमुपन्यस्तं तच्च प्रतिवादिना दुष्टतयोद्भावितं पुनर्वादिना . परिहृतं तदेव तस्य साधनं भवति प्रतिवादिनश्च दूषणामिति । यदा तु वादिनी प्रमाणाभासमुक्तं प्रतिवादिना तथैवोद्भावितं वादिना चापरितं तदा Page #89 -------------------------------------------------------------------------- ________________ षष्ठसमुद्देशः । तद्वादिनः साधनाभासो भवति प्रतिवादिनश्च भूषणमिति । अथोक्तप्रकारेणाशेषविप्रतिपत्तिनिराकरणद्वारेण प्रमाणत्वं स्वप्रतिज्ञातं परीक्ष्य नयादितत्वमन्यत्रोक्तमिति दर्शयन्नाह - सम्भवदन्यद्विचारणीयमिति ॥ ७४ ॥ सम्भवद्विद्यमानमन्यत्प्रमाणतत्त्वान्नयस्वरूपं शास्त्रान्तरप्रसिद्धं विचारणीयमिह युक्त्या प्रतिपत्तव्यम् । तत्र मूलनयौ द्वौ द्रव्यार्थिक पर्यायार्थिकभेदात् । तत्र द्रव्यार्थिकस्त्रेधा नैगमसंग्रहव्यवहारभेदात् । पर्यायार्थिकश्चतुर्धा ऋजुसूत्रशब्दसमभिरूढैवम्भूतभेदात् । अन्योऽन्यगुणप्रधानभूतभेदाभेद प्ररूपणो नगमः । नैकं गमो नैगम इति निरुक्तेः । सर्वथाऽभेदवादस्तदाभासः । प्रतिपक्षव्यपेक्षः सन्मात्रग्राही संग्रहः । ब्रह्मवादस्तदामासः । संग्रहगृहीतमेदको व्यवहारः । काल्पनिको भेदस्तदाभासः । शुद्धपर्यायग्राही प्रतिपक्षसापेक्ष ऋजुसूत्रः । क्षणिकैकान्तनयस्तदाभासः । कालकारकलिङ्गानां भेदाच्छब्दस्य कथञ्चिदर्थमेदकथनं शब्दनयः । अर्थभेदं विना शब्दानामव नानात्वैकान्तस्तदाभासः । पर्यायभेदात्पदार्थनानात्त्वनिरूपकः समभिरूढः । पर्यायनानात्वमन्तरेणापीन्द्रादिभेदकथनं तदाभासः । क्रियाश्रयेण भेदप्ररूपणमित्थम्भावः । क्रियानिरपेक्षत्वेन क्रियावाचकेषु काल्पनिको व्यवहारस्तदाभास इति । इति नयतदाभासलक्षणं संक्षेपेणोक्तं विस्तरेण नयचक्रात्प्रतिपत्तव्यम् । अथवा सम्भवद्विद्यमानमन्यद्वादलक्षणं पत्रलक्षणं वाऽन्यत्रोक्तमिह द्रष्टव्यं तथाचाह । समर्थवचनं वाद इति, प्रसिद्धावयवं वाक्यं स्वष्टस्यार्थस्य साधकम् । साधुगूढपदप्रायं पत्रमाहुरनाकुलम् ॥ १ ॥ इति ॥ परीक्षामुखमादर्श हेयोपादेयतस्त्वयोः । संविदे मादृशो बालः परीक्षादक्षवद्वयधाम् ॥ १ ॥ व्यधामकृतवानस्मि । किमर्थे ? संविदे । कस्य ! मादृशः । अहं च कथंभूत ८७ Page #90 -------------------------------------------------------------------------- ________________ प्रमेयरत्नमाला। . इत्याह बालो मन्दमतिः । अनौद्धत्यसूचकं वचनमेतत् । तत्त्वज्ञत्वञ्च प्रारब्धनिर्वहणादेवावसीयते । किं तत् ? परीक्षामुखम् । तदेव निरूपयति आदशमिति । कयोः ? हेयोपादेयतत्वयोः । यथैवादर्श आत्मनोऽलङ्कारमण्डितस्य सौरूप्यं वैरूप्यं वा प्रतिबिम्बोपदर्शनद्वारेण सूचयति तथेदमपि हेयोपादेय तत्त्वं साधनदूषणोपदर्शनद्वारेण निश्चाययतीत्यादर्शत्वेन निरूप्यते । क इव'? परीक्षादक्षवत् परीक्षादक्ष इव, यथा परीक्षादक्षः स्वप्रारब्धशास्त्रं निरूढवाँस्तथाऽहमपीत्यर्थः ॥ अकलङ्कशशांकैर्यत्प्रकटीकृतमखिलमाननिभनिकरम् । तत्संक्षिप्तं मूरिभिरुरुमातिभिर्व्यक्तमेतेन ॥ १ ॥ इति परीक्षामुखलघुवृत्तौ प्रमाणाद्याभाससमुद्देशः षष्ठः ॥ ६ ॥ श्रीमान् वैजेयनामाभूदग्रणीर्गुणशालिनाम् । बदरीपालवंशालिव्योमामाणसर्जितः ॥ १ ॥ तदीयपत्नी भुविविश्रुतासीन्नाणाम्बनाम्ना गुणशीलसीमा । यां रेवतीति प्रथिताम्बिकेति प्रभावतीति प्रवदन्ति सन्तः ॥ २ ॥ तस्यामभूद्विश्वजनीनवृत्तिर्दानाम्बुवाहो भुवि हीरपाख्यः । स्वगोत्रविस्तारनभोंऽशुमाली सम्यक्त्वरत्नाभरणार्चिताङ्गः ॥ ३ ॥ तस्योपरोधवशतो विशदोरुकीर्तेर्माणिक्यनन्दिकृतशास्वमगाधबोधम् । स्पष्टीकृतं कतिपयैर्वचनैरुदौरैर्बालप्रबोधकरमेतदनन्तवीर्यैः ॥ ४ ॥ इति प्रमेयरत्नमालापरनामधेया परीक्षामुखलघुवृत्तिः समाप्ता ॥ SHRA समाप्त । Mor Page #91 -------------------------------------------------------------------------- ________________ आभार। श्रीमान् सेठ नाथारंगजी गांधी द्वारा प्रकाशित संस्करण परसे हमने इमे प्रकाशित किया है । और श्रीयुक्त पंडित दरबारीलालजी न्यायतीर्थने इसका प्रूफ संशोधन करनेका कष्ट उठाया है। इसलिये - हम इन दोनों महानुभावोंके आभारी हैं। प्रकाशक । ano allo पाठ्य ग्रंथ । ... .. जैन सिद्धान्त । न्याय। गोमट्टसार-जीवकांड-सार्थ छपता है। अष्टसहस्री गोमट्टसार-कर्मकांड-साथै, आप्तपरीक्षा-मूल), सार्थ ।) जैनसिद्धांत प्रवेशिका आप्तपरीक्षा-सटीक छपती है। तत्वार्थराजबार्तिकालंकार-सटीक आप्तमीमांसा-मूल), भाषा ॥४) तत्वार्थश्लोकवार्तिकालंकार-सटीक आप्तमीमांसा-प्रमाणपरीक्षा-सटीक १) तत्वार्थसूत्र ( मोक्षशास्त्र)-सार्थ ॥) द्रव्यानुयोगतर्कणा द्रव्यसंग्रह-सान्वयार्थ।), विस्तृत अर्थ॥) परीक्षामुख -सार्थ बृहद्रव्यसंग्रह-सटीक, सभाष्य ) प्रमेयरत्नमाला-संस्कृत ॥), भषा १) पंचाध्यायी-मूल॥). विस्तृत भाष्य ५॥) प्रमेयकमलमातह पुरुषार्थसिद्धयुपाय-सान्वयार्थ सप्तभंगीतरंगिणी-सार्थ १) पुरुषार्थसिद्धयुगय-विस्तृत भाष्य ।) व्याकरण। रत्नकरंडश्रावकाचार-सान्वयार्थ ) कातंत्र पंव संवि-सार्थ । रत्नकरंडश्रावकाचार-सटीक २) कातंत्ररूपमाला-पूर्षि छपता है सर्वार्थासेद्धि-मल २), सार्थ प्र० खंड ६) जैनेन्द्रप्रक्रिया-पं०' बंशीधरजो. २) समयप्राभृत-दो सं० टीकासंयुक ३॥)। जैनेन्द्रलघु वृत्तिः-पं० राज कुमार १) त्रिलोकसार-सटीक १॥),भाषाटीका ५॥) जैनेन्द्र पंचाध्यायी-मूलसूत्र पाठः ।) هتد د Page #92 -------------------------------------------------------------------------- ________________ DUaeo खतम धातुरूपावलि 3) काव्य, चम्पू और अलंकार / मध्यसिद्धांतकौमुदी-वरदराज अलंकारचिंतामणि लघुसिद्धांतकौमुदी | काव्यानुशासनशब्दरूपावलि काव्यानुशासन-सटीक शब्दार्णवचन्द्रिका गद्यचिंतामणि ससासचक्र // चन्द्रप्रभचरित मूल 1), भाषा 11) सारस्वत-मूल--पूर्वाधब), सजि०॥) जयकुमार-सुलोचना सारस्वत-चन्द्रकीर्तिटीका-पू.१॥)उ.११) जयन्त-विजय सारस्वत-तीनोंवृत्ति 1 // ), सजि० 1) तिलकमंजरी 2 // सिद्धांतकौमुदी भट्टोजी दीक्षित 3) धर्मशर्माम्युदय सिद्धांतकौमुदी-तत्वबोधनी टीका 6) नेमिनिर्वणि संस्कृत प्रवेशिनी-द्वि० भाग प्रभावकचरित 1 // ) 2 कोष। पाश्र्याभ्युदय अमरकोष-मूल / / ), शब्दानुक्रमणिका यशस्तिलक चम्पू-पू० ३॥),उ० 2 // ) सहित 112), सटीक 10), सार्थ 3). वाग्भट्टालंकार-सटीक // ), सार्थ 1) धनंजय-नाममाला-सार्थ ) हितोपदेश-मूल // ), सार्थ 1 // ), 2) पद्मचन्द्रकोष | क्षत्रचूड़ामाणि-सार्थ 1 // ), सजि० 1) बृइदजैनशब्दार्णव-प्र० खंड 3) क्षत्रचूड़ामणि-जीवंधरचम्पूसंयुक्त 2) विश्वलोचनकोष-सार्थ _10) हीरसौभाग्य -5 // ) सब जगहके छपे सब प्रकारके जैन-ग्रंथोंके मिलने का पता: बिहारीलाल कठनेरा जैन, मालिक-जैनसाहित्यप्रसारक कार्यालय, हीराबाग, पोष्ट गिरगांव, बम्बई / III) प्रकाशक-बिहारीलाल कठनेरा जैन, मालिक-जैनसाहित्य प्रसारक कार्यालय, होराबाग, पोष्ट गिरगांव, बम्बई। मुद्रक-दि. सी. साखळकर, लोकसेवकप्रेस, खटाव भुवन, गिरगांव, मुंबई नं. 4 //