________________
प्रमेयरत्नमाला। तस्मै नमो माणिक्यनन्दिने ॥ २ ॥ प्रभेन्दुवचनोदारचन्द्रिकाप्रसरे सति । मादृशाः क नु गण्यन्ते ज्योतिरिङ्गणसन्निभाः ॥ ३ ॥ तथाऽपि तद्वचोऽपूर्वरचनारुचिरं सताम् । चेतोहरं भृतं यद्वन्नद्या नवघटे जलम् ॥ ४ ॥ वैनेयप्रियपुत्रस्य हीरपस्योपरोधतः । शान्तिषेणार्थमारब्धा परीक्षामुखपञ्चिका ॥ ५ ॥ श्रीमन्न्यायावारपारस्यामेयप्रमेयरत्नसारस्यावगाहनमव्युत्पन्नैः कर्तुं न पार्यत इति तदवगाहनाय पोतप्रायमिदं प्रकरणमाचार्यः प्राह । तत्प्रकरणस्य च सम्बन्धादित्रयापरिज्ञाने सति प्रेक्षावती प्रवृत्तिनस्यादिति तत्रयानुवादपुरःसरं वस्तुनिर्देशपरं प्रतिज्ञोश्लोकमाह
प्रमाणादर्थसंसिद्धिस्तदाभासाँद्विपर्ययः॥
इति वक्ष्ये तयोर्लक्ष्म सिद्धमल्प लधीयसः ॥ १॥ १ अहमिव दृश्यन्ते इति मादृशाः । २ खद्योतसदृशाः। ३ लक्षितस्य लक्षणमुपपद्यते न वेति विचारः परीक्षा । अथवा, स्वरूपं तदाभासः संख्या तदाभासः परीक्षा । अथवा, विरुद्धनानायुक्ति प्राबल्यदौर्बल्यावधारणाय प्रवर्तमानो विचारः परीक्षा । कारिका खल्पवृत्तिस्तु, सूत्रं सूचनकं स्मृतम् । टीका निरन्तरं व्याख्या, पञ्चिका पदभग्जिका ॥ १ ॥ ४ पूर्वापरविवररहितत्त्वलक्षणा श्रीः न्यायः प्रमाणात्मिका युक्तिः । ५ प्रमाणगोचरा जीवादिपदार्थाः । प्रमेयमेव रत्नानि प्रमेयरत्नानि । ६ परीक्षामुखस्य । ७ विचारवताम् । ८ उक्तस्य सार्थ पुनर्वचनमनुवादः। ९ प्रमाणतदाभासलक्षणाभिधेयकथनपरम् । १० वर्तमानस्याङ्गीकारः प्रतिज्ञा । ११ अत्र प्रमाणशब्दः कर्तृकरणभावसाधनः । तत्र प्रतिबन्धविगमविशेषवशात्स्क परप्रमेयस्वरूपं प्रमीयते यथावज्जानातीति प्रमाणमात्मा । साधकतमत्वादिति विवक्षायां तु प्रमीयते येन तत्प्रमाणं । प्रमितिमातं वा प्रमाणम् प्रतिबन्धापाये प्रादुर्भूतज्ञानपर्यायस्य प्राधान्येनाश्रयणात्प्रदीपादेः प्रभाभारात्मकप्रकाशवत् । १२ अर्थः स्याद्विषये मोक्षे शब्दवाच्ये प्रयोजने । व्यवहारे धने शास्त्रे वस्तुहेतुनिवृत्तिषु ॥१॥ अर्यते गम्यते ज्ञायते यः सोऽर्थः । १३ सम्यग्ज्ञानात्तन्न भवति इति तथापि -तदिवाभासते प्रतिभातीति तदाभासः । १४ स्वरुचिविरचितत्त्वदूषणपरिहारार्थ सिद्ध. मित्युच्यते । १५ कनिष्ठान्मन्दमतीनिति यावत् । ।