________________
प्रमेयरत्नमाला
नतामरशिरोरत्न-प्रमाप्रोतनखत्विषे । नमो जिनाय दुवारमार्रवीरमदच्छिदे ॥ १ ॥ अकलङ्कवचोऽम्भोधेरुद्दधे येन धीमता । न्यायविद्यामृतं ___१ मंगलं द्विविधं मुख्यममुख्यं चेति । मुख्यमंगलं जिनेन्द्रगुणस्तोत्रममुख्यमंगलं दध्यक्षतादि । तत्र मुख्यमंगलं द्वधा निबद्धमनिबद्धं चति । तत्र निबद्धं स्वेन कृतमनिबद्धं परकृतम् । तदपि द्विविधं परापरभेदात् । आप्तनमस्कारः परमंगलं गुरुपरम्परानमस्कारोऽपरमंगलम् । २ जिनाय समस्तभगवदर्हत्परमेश्वरनिकुरम्बाय । नमो भूयात् । बहुविधविषमभवगहनभ्रमणकारणं दुष्कृतगणं जयतीति जिनः । त्रिकालगोचरपरमजिन इत्यर्थस्तस्मै । ३ दुर्वारमारवीरमदच्छिदे–मां लक्ष्मी "रातीति मारः लक्ष्मीदायकः मोक्षमार्गस्य नेतेति यावत् । विशेषेण ईर्ते सकलपदार्थजातं प्रत्यक्षीकरोतीति वीरः सर्वज्ञः विश्वतत्त्वानां ज्ञातेति यावत् । मारश्चासौ वीरश्च मारवीरः । मदं मानकषायं छिनत्ति विदारयतीति मदच्छित् । उपलक्षणमिदं कर्मभूभृतां भेत्तेत्ति यावत् । (मारवीरश्चासौ मदच्छिच्च मारवीरमदच्छित् । दुर्वारो वादिभिरजय्योऽप्रतिहतशक्तिरिति यावत् । दुर्वारश्चासौ मारवीरमदच्छिच्च दुरिमारवीरमदच्छित्तस्मै ) अथवा, मा प्रमेयपरिच्छेदकं केवलज्ञानमेव रविः अशेषप्रकाशकत्वात् । इरा मृदुमधुरगम्भीरनिरुपमहितदिव्यध्वनिः । मारविश्च इरा च मारवारे । दुर्वारे कुहेतुदृष्टान्तैर्निवारयितुमशक्ये मारवारे यस्य स तथोक्तः । मदेनोपलक्षिता रागादयस्तेन मदच्छिद्रागाद्यशेषदोषच्छिदिति निश्चीयते । ४ अकलंको भट्टोकलंकस्वामी अथवा न विद्यते अज्ञानादिकलंको यस्यासौ । अथवा अकलंकं च तद्वचन अकलंकवचः दिव्यध्वनिरित्यर्थः । ५ प्रशस्तविशालातिशयितज्ञानवता ।
प्रत्यक्षादिप्रमाणं न्यायः । अथवा, नयनिक्षेपप्रमाणात्मको न्यायः।