________________
प्रमेमरत्वयाला । तदामासपदोपादानादमिधेयममिहितमेव । प्रमाणतदाभासयोरनेन प्रकरणे. नामिधानात् । सम्बन्धश्चार्थायातः प्रकरणतदभिधेययोर्वाच्यवाचकमावलक्षणः प्रतीयत एव । तथा प्रयोजनं चोक्तलक्षणमादिश्लोकेनैव संलक्ष्यते, प्रयोजनं हि द्विधा मिद्यते । साक्षात्परम्परयति । तत्र साक्षात्प्रयोजनं वक्ष्ये इत्यनेनाभिधीयते । प्रथमं शास्त्रव्युत्पत्तरेव विनयैरन्वेषणात् । पारम्पर्येण तु प्रयोजनमर्थसंसिद्धिरित्यनेनोच्यते शास्त्रव्युत्पत्त्यनन्तरमावित्वादर्थसंसिद्धेरिति ॥ ननु निःशेषविघ्नोपशमनायेष्टदेवतानमस्कारः शास्त्रकृता कथं न कृत इति न वाच्यम् । तस्य मनःकायाभ्यामपि सम्भवात् । अथवा वाचनिकोऽपि नमस्कारोऽनेनैवादिवाक्येनाभिहितो वेदितव्यः । केषाञ्चिद्वाक्यानामुमयार्थप्रतिपादनपरत्वेनापि दृश्यमानत्वात् । यथा श्वेतो धावतीत्युक्ते वा इतो धावति श्वेतगुणयुक्तो धावति इत्यर्थद्वयप्रतीतिः । तत्रादिवाक्यस्य नमस्कारपरताभिधीयते । अर्थस्य हेयोपादेयलक्षणस्य संसिद्धिप्तिर्मवति । कस्मात् ? प्रमाणात्। अनन्तचतुष्टयस्वरूपान्तरङ्गलक्षणा, समवसरणादिस्वभावा बहिरङ्गलक्षणा लक्ष्मीर्मा इत्युच्यते । अणनर्माणः शब्दः मा च आणश्च माणौ प्रकृष्टौ माणौ यस्यासौ प्रमाणः । हरिहराद्यसम्मविविभूतियुक्तो दृष्टेष्टाविरुद्धवाक्च भगवानहन्नेवाभिधीयत इत्यसाधारणगुणोपदर्शनमेव भगवंतः संस्तवनमभिधीयते । तस्मात्प्रमाणादवधिभूतादर्थसंसिद्धिर्भवति तदाभासाच्च हरिहरादेरर्थसंसिद्धिर्न भवति । इति हेतोः सर्वज्ञतदाभासयोर्लक्ष्म लक्षणमहं वक्ष्ये- सामग्रीविशेषेत्यादिना । अथेदानीमुपक्षिप्तप्रमाणतत्त्वे
१ अण्यते शब्द्यते येनासावाणः दिव्यध्वनिरित्यर्थः । प्रत्यक्ष परोक्षे अविरुद्धवाक यस्य सः । अर्थद्वारेण साधितभगवतोऽईत्साशात्सर्वशात्प्रथमकरणभूतात् फलमिति प्रतिपत्तिर्यथा प्रमाणाद्भिनमिति कापिलाः प्रमाणात्फलमभिन्नमिति सौगताः प्रमाणात्कथंचित्फलमभिन्नभिन्नमिति जैनाः।