________________
प्रथमसमुरेशः। स्वरूपसंख्याविषयफललक्षणासु चतसृषु विप्रतिपत्तिषु मध्ये स्वरूपविप्रत्तिनिराकारणार्थमाह
स्वापूर्वार्थव्यवसायात्मकं ज्ञानं प्रमाणमिति ॥१॥ प्रकर्षेण संशयादिव्यवच्छेदेन मीयते परिच्छिद्यते वस्तुतत्त्वं येन तत्प्रमाणम् । तस्य च ज्ञानमिति विशेषणमज्ञानरूपस्य सन्निकर्षादेनैयायि. कादि-परिकल्पितस्य प्रमाणत्वव्यवच्छेदार्थमुक्तम् । तथा ज्ञानस्यापि स्वसंवेदनेन्द्रियमनोयोगिप्रत्यक्षस्य निर्विकल्पकस्य प्रत्यक्षत्वेन प्रामाण्यं सौगतैः परिकल्पितं तन्निरासार्थ व्यवसायात्मकग्रहणम् । तथा बहिरापहोतॄणां विज्ञानाद्वैतवादिनां पुरुषाद्वैतवादिनां पश्यतोहराणां शून्यैकान्तवादिनां च विपर्यासव्युदासार्थमर्थग्रहणम् । अस्य चापूर्वविशेषणं गृहीतग्राहिधारावाहि
.
..
१ स्वरूपसंख्याविषयफललक्षणाश्चतस्रो विप्रतिपत्तयः । सम्प्रति तासां मध्ये स्वरूपविप्रतिपत्तिर्यथा स्वापूर्वार्थव्यवसायात्मकं ज्ञानं प्रमाणमित्याहताः । इन्द्रियप्रवृत्तिः प्रमाणमिति कापिलाः । प्रमातृव्यापारः प्रमाणमिति प्राभाकराः । अनधिगतार्थ प्रमाणमिति भाटाः । अविसंवादि विज्ञानं प्रमाणमिति सौगताः । प्रमाकरण प्रमाणमिति यौगाः । कारकसाकल्यं प्रमाणमिति जयन्ताः । ___ संख्याविप्रतिपत्तिर्यथा—प्रत्यक्षमेकं चार्वाकाः कारणात्सौगताः पुनः । अनुमान च तच्चैव सांख्याः शब्दं च ते अपि ॥ १॥ न्यायैकदेशिनोऽप्येवमुपमानं च केन च। अर्थापत्या सहैतानि चत्वार्याहुः प्रभाकराः ॥ २ ॥ अभावषष्ठान्येतानि भाहा वेदान्तिनस्तथा। सम्भवैतिह्ययुक्तानि तानि पौराणिका जगुः ॥ ३ ॥ एतत्सर्वे युकं. सम्भवति प्रत्यक्षपरोक्षभेदात् द्विविधं प्रमाणमिति जैना वदन्ति ।
विषयविप्रतिपत्तिर्यथा-प्रमाणतत्वस्य सामान्यमेव विषयो न पुनर्विशेष इति कापिलाः पुरुषाद्वैतवादिनश्च । विशेषमेव विषयो न पुनः सामान्यमिति बौद्धाः । सामान्यं विशेषश्च द्वयमपि स्वतन्त्रभावेन विषय इति योगाः । सामान्यं विशेषश्चाभेदेन विषय इति मीमांसकाः ।
२ ज्ञायतेऽनेनेति ज्ञानं शप्तिर्वा ज्ञानम् । ३ षष्ठी वा नादरे इति षष्ठी ।