________________
द्वितीयसमुद्देशः।
सरावोदञ्चनादीनां मृद्रूपान्वितानां यथा मृदेककारणपूर्वकत्वं, सद्रूपेणान्वितं च निखिलं वस्विति । तथाऽऽगमोऽप्यस्ति-" ऊर्णनाभ इवांशूनां चंद्रकांत इवाम्भसाम् । प्ररोहाणामिव प्लक्षः स हेतुः सर्वजन्मिनामिति ॥ १॥" तदेतन्मदिरारसास्वादगद्गदोदितमिव मदनकोद्रवाद्युपयोगजनितव्यामोहमुग्धविलसितमिव निखिलमवभासते विचारासहत्वात् । तथा हि-यत्प्रत्यक्षसत्ताविषयत्वमभिहितं तत्र किं निर्विशेषसत्ताविषयत्त्वं सविशेषसत्तावबोधकत्त्वम् वा? न तावत्पौरस्त्यः पक्षः । सत्तायाः सामान्यरूपत्वात् । विशेषनिरपेक्षतयाऽनवभासनात् । शाबलेयादिविशेषानवभासने गोत्त्वाऽनवमासनवत् । 'निर्विशेषं हि सामान्यं भवेच्छशविषाणवदि'त्यभिधानात् । सामान्यरूपत्वं च सत्तायाः सत्सदित्यन्वयबुद्धिविषयत्वेन सुप्रसिद्धमेव । अथ पाश्चात्यः पक्षः कक्षीक्रियते, तदा न परमपुरुषसिद्धिः । परस्परव्यावृत्ताकारविशेषाणामध्य. क्षतोऽवभासनात् । यदपि साधनमभ्यधायि प्रतिभासमानत्वं तदपि न साधु, विचारासहत्वात् । तथाहि प्रतिभासमानत्वं स्वतः परतो वा ? न तावत्स्वतोऽसिद्धत्वात् । परतश्चेद्विरुद्धम् । परतः प्रतिभासमानत्वं हि परं विना नोपपद्यते प्रतिभासनमात्रमपि न सिद्धिमधिवसति । तस्य तद्विशेषान्तरीयकत्वात्तद्विशेषाभ्युपगमे च द्वैतप्रसक्तिः किञ्च धर्मिहेतुदृष्टान्ता अनुमानोपायभूताः प्रतिभासन्ते न वेति । प्रथमपक्षे प्रतिभासान्तःप्रविष्टाः प्रतिमासबहिर्भूता वा । यद्याद्यः पक्षस्तदा साध्यान्तःपातित्वान्न ततोऽनुमानम् । तद्बहिर्भावे तैरेव हेतोयभिचारः । अप्रतिभासमानत्वेऽपि तद्वयवस्थाभावात् ततो नानुमानमिति । अथानाद्यविद्याविजृम्भितत्वात्सर्वमेतदसम्बद्धमित्यनल्पतमोविल सितम् । अविद्यायामप्युक्तदोषानुषङ्गात् । सकलविकल्पविकलत्वात्तस्या नैष दोष इत्यप्यतिमुग्धभाषितम् । केनापि रूपेण तस्याः प्रतिभासाभावे तत्स्वरूपानवधारणात् । अपरमप्यत्र विस्तरेण देवागमालङ्कारे चिन्तितमिति नेह