________________
प्रमेयस्त्नमाला। नोदगाद्भरणिमुहूर्तात्पूर्व पुष्योदयात् ॥ ७६॥ भरण्युदयविरुद्धो हि पुनर्वसूदयस्तदुत्तरचरः पुष्योदय इति । विरुद्धसहचरमाह
नास्त्यत्र भित्तौ परभागाभावोऽग्भिागदर्शनादिति ॥७७॥ परभागाभावस्य विरुद्धस्तद्भावस्तत्सहचरोऽर्वाग्भाग इति । अविरुद्धानुपलब्धिभेदमाह
अविरुद्धानुपलब्धिः प्रतिषेधे सप्तधा स्वभावव्यापककार्य कारणपूर्वोत्तरसहचरानुपलम्भभेदादिति ॥ ७८ ॥
स्वभावादिपदानां द्वन्द्वः तेषामनुपलम्भ इति पश्चाच्छष्टीतत्पुरुषः समासः । स्वभावानुपलम्भोदाहरणमाह
नास्त्यत्र भूतले घटोऽनुपलब्धेः ॥ ७९ ॥ अत्र पिशाचपरमाण्वादिभिर्व्यभिचारपरिहारार्थमुपलब्धिलक्षणप्राप्तत्त्वे सतीति विशेषणमुन्नेयम् । व्यापकानुपलब्धिमाह
नास्त्यत्र शिंशपा वृक्षानुपलब्धेः॥ ८॥ शिंशपात्वं हि वृक्षत्वेन व्याप्तम् । तदभावे तद्वयाप्यशिंशपाया अप्यभावः । कार्यानुपलब्धिमाह
नास्त्यत्राप्रतिबद्धसामोऽग्निधूमानुपलब्धः ॥ ८१ ॥
अप्रतिबद्धसामर्थ्य हि कार्य प्रत्यनुपहतशक्तिकत्वमुच्यते । तदभावश्च कार्यानुपलम्भादिति । कारणानुपलब्धिमाह
नास्त्यत्र धूमोऽननेः ॥ ८२ ॥ पूर्वचरनुपलब्धिमाहन भविष्यति मृहूर्तान्ते इकटं कृत्तिकोदयानुपलब्धेः ॥ ८३ ॥ उत्तरचरानुपलब्धिमाह