________________
पंचमसमुद्देशः ।
न च स्वदेहप्रमितिरात्मेत्यत्रापि प्रमाणाभावात् सर्वत्र संशय इति वक्तव्यं तत्रानुमानस्य सद्भावात् । तथाहि देवदत्तात्मा • तद्देह एव तत्र सर्वत्रैव च विद्यते तत्रैव तत्र सर्वत्रैव च स्त्रासाधारणगुणाधारतयोपलम्भ. तू । यो यत्रैव यत्र सर्वत्रैव च स्वासाधारणगुणाधारतयोपलभ्यते - स तत्रैव तत्र सर्वत्रैव च विद्यते यथा देवदत्तगृहे एव तत्र सर्वत्रैव चोपलभ्यमानः स्वासाधारण भासुरत्वादिगुणः प्रदीपः तथाचायं तस्मात्तथेति । तदसाधारणगुणा ज्ञानदर्शन सुखवीर्य लक्षणास्ते च सर्वाङ्गीणास्तत्रैव चोपलभ्यन्ते ॥ सुखमाल्हाद नाकारं विज्ञानं मेयबोधनम् । शक्तिः क्रियानुमेया स्याद्यूनः कान्तासमागमे ॥ १ ॥ इति वचनात् । तस्मादात्मा देहप्रमितिरेव स्थितः । द्वितीयं विशेषभेदमाह - अर्था-तरगतो बिसदृशपरिणामो व्यतिरेको गोमहिषादिवत् ॥ ८ ॥ वैसादृश्यं हि प्रतियोगिग्रहणे सत्येव भवति । न चापेक्षिकत्त्वादस्यावस्तुत्त्वमवस्तुन्यापेक्षिकत्वायोगात् । अपेक्षाया वस्तुनिष्ठत्वात् ॥
७५
स्यात्कारलांच्छितमबाध्य मनन्तधर्म । संदोहवर्मितमशेषमपि प्रमेयम् ॥ देवैः प्रमाणबलतो निरचायि यच्च । संक्षिप्तमेव मुनिभिर्विवृतं मयैतत् ॥ १ ॥ इति परीक्षामुखस्य लघुवृत्तौ विषयसमुद्देशश्चतुर्थः ॥ ४ ॥
अथेदानीं फलविप्रतिपत्तिनिरासार्थमाह
अज्ञाननिवृत्तिर्ज्ञानोपादानोपेक्षाच फलम् ॥ १ ॥
द्विविधं हि फलं साक्षात्पारम्पर्येणेति । साक्षादज्ञाननिवृत्तिः पारम्पर्येण हानादिकमिति, प्रमेयनिश्चयोत्तर कालभावित्वात्तस्येति । तद्विविधमपि फलं प्रमाणाद्भिन्नमेवेति यौगाः । अभिन्नमेवेति सौगताः । तन्मतद्वयनिरासेन स्वमतं व्यवस्थापयितुमाह