________________
प्रथमसमुद्देशः ।
ततस्तत्प्रमाणत्वेनाभ्युपगतं वस्तु ज्ञानमेव भवितुमर्हति नाज्ञानरूपं सन्निकर्षादि । तथा च प्रयोगः प्रमाणं ज्ञानमेव हिताहितप्राप्तिपरिहारसमर्थत्वात् ॥ यत्तु न ज्ञानं तन्न हिताहितप्राप्तिपरिहारसमर्थम् । यथा घटादि । हिताहितप्राप्तिपरिहारसमर्थं च विवादापन्नम् । तस्मात् ज्ञानमेव भवतीति । नचैतदसिद्धं । हितप्राप्तयेऽहितपरिहाराय च प्रमाणमन्वेषयन्ति प्रेक्षापूर्वकारिणो न व्यसनितया सकलप्रमाणवादिभिरभिमतत्त्वात् । अत्राह सौगतः -- भवतु नाम सन्निकर्षादिव्यवच्छेदेन ज्ञानस्यैव प्रामाण्यं न तदस्माभिर्निषिध्यते । तत्तु व्यवसायात्मकमेवेत्यत्र न युक्तिमुत्पश्यामः । अनुमानस्यैव व्यवसायात्मनः प्रामाण्याभ्युपगमात् । प्रत्यक्षस्य तु निर्विकल्पhasta विसंवादकः न प्रामाण्योपपत्तेरिति तत्राह -
तनिश्चयात्मकं समारोपविरुद्धत्वादनुमानवदिति ॥ ३ ॥
तत् प्रमाणत्वेनाभ्युपगतं वस्त्विति धर्मिनिर्देशः । व्यवसायात्मकमिति साध्यम् । समारोपविरुद्धत्वादिति हेतुः । अनुमानवदिति दृष्टान्त इति ॥ अयमभिप्रायः—–संशयविपर्यासानध्यवसायस्वभावसमारोपविरोधिग्रहणलक्षणव्यबसायात्मकत्वे सत्येवाविसंवादित्वमुपपद्यते । अविसंवादित्वे च प्रमाणत्वमिति चतुर्विधस्यापि समक्षस्य प्रमाणत्वमभ्युपगच्छता समारोपविरोधिग्रहणलक्षणं निश्चयात्मकमभ्युपगन्तव्यम् ॥ ननु तथापि समारोपविरोधिव्यवसायात्मकत्वयोः समानार्थकत्वात् कथं साध्यसाधनभाव इति न मन्तव्यम् । ज्ञानस्वभावतया तयोरभेदेऽपि व्याप्यव्यापकत्वधर्माधारतया भेदोपपत्तेः । शिशपात्ववृक्षत्ववत् ॥ अथेदानीं सविशेषणमर्थग्रहणं समर्थयमानस्तदेव स्पष्टीकुर्वन्नाह -
'अनिश्चितोऽपूर्वार्थ इति ॥ ४ ॥
यः प्रमाणान्तरेण संशयादिव्यवच्छेदेनानध्यवसितः सोऽपूर्वार्थः । तेनेहादिज्ञानविषयस्यावग्रहादिगृहीतत्वेऽपि न पूर्वार्थत्वम् । अवग्रहादिविषय