Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 84
________________ ८२ प्रमेयरत्नमाला | सिद्धे प्रत्यक्षादिबाधिते च साध्ये हेतुरकिञ्चित्करः ।। ३५ ।। तत्र सिद्धे साध्ये हेतुरकिञ्चित्कर इत्युदाहरति---- सिद्धः श्रावणः शब्दः शब्दत्वात् || ३६ || कथमस्या किञ्चित्करत्वमित्याह किञ्चिदकरणात् || ३७ ॥ अपरं च भेदं प्रथमस्य दृष्टान्तीकरणद्वारेणोदाहरतियथाऽनुष्णोऽग्निद्रव्यत्वादित्यादौ किञ्चित्कर्तुमश्यक्यत्वात् ॥ ३८ ॥ अकिञ्चित्करत्त्वमिति शेषः । अयं च दोषो हेतुलक्षणविचारावसर एव, न वादकाल इति व्यक्तीकुर्वन्नाह - - लक्षण एवासौ दोषो व्युत्पन्नप्रयोगस्य पक्षदोषेणैव दुष्टत्वात् ॥ ३९ ॥ दृष्टान्तो ऽन्वयव्यतिरेकभेदाद्विविध इत्युक्तं तत्रान्वयदृष्टान्ताभासमाह - दृष्टान्ताभासा अन्वये सिद्धसाध्यसाधनोभयाः ॥ ४० ॥ साध्यं च साधनं च उभयं च साध्यसाधनोभयानि असिद्धानि तानि येष्विति विग्रहः । एतानेकत्रैवानुमाने दर्शयतिअपौरुषेयः शब्दोऽमृर्तत्त्वादिन्द्रियसुखपरमाणुघटवत् ॥ ४१ ॥ इन्द्रियसुखमसिद्धसाध्यं तस्य पौरुषेयत्त्वात् । परमाणुरसिद्धसाधनं तस्य मूर्तत्त्वात् । घटश्चासिद्धोभयः पौरुषेयत्त्वान्मूर्तत्त्वाच्च । साध्यव्याप्तं साधनं दर्शनीयमिति दृष्टान्तावसरे प्रतिपादितं तद्विपरीतदर्शनमपि तदाभासमित्याहविपरीतान्वयश्च यदपौरुषेयं तदमूर्तम् ॥ ४२ ॥ कुतोऽस्य तदाभासतेत्याह --- विद्युदादिनाऽतिप्रसङ्गात् ॥ ४३ ॥ तस्याप्यमूर्तता प्राप्तेरित्यर्थः । व्यतिरेकोदाहरणाभासमाह --- व्यतिरेकेऽसिद्ध तद्वयतिरेकाः परमाण्विन्द्रियसुखाकाशवत् ॥ ४४ ॥

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92