Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 57
________________ तृतीयसमुद्देशः। भावसाधकप्रमाणानां सुलभत्वात् । अधुना हि तदभावप्रत्यक्षमेवातीतानागतयोः कालयोरनुमानं तदभावसाधकमिति । तथा च -"अतीतानागतो कालो वेदकारविवर्जितौ । कालशब्दाभिधेयत्वादिदानीन्तन कालवत् ॥ १ ॥ वेदस्याध्ययनं सर्व तदध्ययनपूर्वकम् । वेदाध्ययनवाच्यवादधुनाध्ययनं तथेति ॥ २ ॥" तथा अपौरुषेयो वेदः अनवच्छिन्नसम्प्रदायत्वे सत्यस्मर्यमाणकर्तृकत्वादाकाशवत् । अर्थापत्तिरपि प्रामाण्यलक्षणस्यार्थस्यानन्यथाभूतस्य दर्शनात्तदभावे निश्चीयते । धर्माद्यतीन्द्रियार्थविषयस्य वेदस्यार्वाग्दर्शिभिः कर्तुमशक्यत्वात् । अतीन्द्रियार्थदर्शिनश्चाभावात्प्रामाण्यमपौरुषेयतामेव कल्पयतीति । अत्र प्रतिविधीयते यत्तावदुक्तं वर्णानां व्यापित्वे नित्यत्वे च प्रत्यभिज्ञा 'प्रमाणमिति, तदसत् । प्रत्यभिज्ञायास्तत्र प्रमाणत्वायोगात् । देशान्तरेऽपि तस्यैव वर्णस्य सत्त्वे खण्डशः प्रतिपत्तिः स्यात् । नहि सर्वत्र व्याप्त्या वर्त-मानस्यैकस्मिन्प्रदेशे सामस्त्येन ग्रहणमुपपत्तियुक्तम् । अव्यापकत्वप्रसङ्गात् । 'घटादेरपि व्यापकत्त्वप्रसंगः । शक्यं हि वक्तुमेवं घटः सर्वगतश्चक्षुरादि-सन्निधानादनेकत्र देशे प्रतीयत इति । ननु घटोत्पादकस्य मत्पिण्डादेरनेकस्योपलम्मादनेकत्वमेव । तथा महदणुपरिमाणसम्भवाच्चेति । तच्च वर्णेष्वपि समानम् । तत्रापि प्रतिनियतताल्बादिकारणकलापस्य तीव्रादिधर्मभेदस्य च सम्भवाविरोधात् । ताल्वादीनां व्यञ्जकत्वमत्रैव निषेत्स्यत इत्यास्तां तावदेतत् । अथ व्यापित्वेऽपि सर्वत्र सर्वात्मना वृत्तिमत्त्वान्न दोषोऽयमिति चेन्न । तथा सति सर्वथैकत्वविरोधात्। नहि देशभेदेन युगपत्सर्वात्मना प्रतीयमानस्यैकत्वमुपपन्न प्रमाणविरोधात् । तथाच प्रयोगः-प्रत्येकं गकारादिवर्णोऽनेक एव युगपद्भिन्नदेशतया तथैव सर्वात्मनोपलभ्यमानत्वात् घटादिवत् । न सामान्येन व्यभिचारः । तस्यापि सदृशपरिणामात्मकस्यानेकत्वात् । नापि धर्वताद्यनेकप्रदेशस्थतया युगपदनेकदेशस्थितपुरुषपरिदृश्यमानेन चन्द्रार्का

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92