Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 61
________________ __ ५९ तृतीयसमुद्दशः। श्रयत्वम् । सिद्धे हि तदभावे तन्निबन्धनं तदस्मरणमस्माच्च तदभाव इति । प्रामाण्यान्यथानुपपत्तेस्तदभावान्नेतरेतराश्रयत्वमिति चेन्न । प्रामाण्येनाप्रामाण्यकारणस्यैव पुरुषविशेषस्य निराकरणात् पुरुषमात्रस्पानिराकृतेः । अथातीन्द्रियार्थदर्शिनोऽभाव.दन्यस्य च प्रामाण्यकारणत्वानुपपत्तेः सिद्ध एव सर्वथा पुरुषाभाव इति चेत् कुतः सर्वज्ञाभावो विभावितः ? प्रामाण्यान्यथानुपपत्तेरिति चेदितरेतराश्रयत्वम् । कर्तुरस्मरणादिति चेच्चक्रक प्रसङ्गः । अभावप्रमाणादिति चेन्न । तत्साधकस्यानुमानस्य प्रातिपादितत्वादभावप्रमाणोस्थानायोगात् प्रमाणपञ्चकाभावेऽभावप्रमाणप्रवृत्तेः-' प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते । वस्त्वसत्तावबोधार्थ तत्राभावप्रमाणतेति' परैरभिधानात् । ततो न वादिनः कर्तुरस्मरणमुपपन्नम् । नापि प्रतिवादिनोऽसिद्धेः । तत्र हि प्रतिवादी स्मरत्येव कर्तारमिाते । नापि सर्वस्य, वादिनो वेदकर्तुरस्मरणेऽपि प्रतिवादिनः स्मरणात् ननु प्रतिवादिना वेदेऽष्टकादयो बहवः कर्तारः -स्मर्यन्तेऽतस्तत्स्मरणस्य विवादविषयस्याप्रामाण्याद्भवेदेव सर्वस्य कर्तुरस्मरणमिति चेत् न । कर्तृविशेषविषय एवासौ विवादो न कर्तृसामान्ये । अतः सर्वस्य कर्तुरस्मरणमप्यसिद्धम् । सर्वात्मज्ञानविज्ञानरहितो वा कथं सर्वस्य कर्तुरस्मरणमवैति । तस्मादपौरुषेयत्वस्य वेदे व्यवस्थापयितुमशक्यत्वान्न तल्लक्षणस्याव्यापकत्वमसम्भवितत्वं वा सम्भवति । पौरुषेयत्त्वे पुनः प्रमाणानि बहूनि सन्त्येव । सजन्ममरणर्षिगोत्रचरणादिनामश्रुतेरनेकपदसंहतिप्रतिनियमसंदर्शनात् । फलार्थिपुरुषप्रवृत्तिनिवृत्तिहेत्वात्मना, श्रुतेश्च मनुसूत्रवत् पुरुषकर्तृकैव श्रुतिः ॥१॥ इति वचनात् । अपौरुषयत्त्वेऽपि वा न प्रामाण्यं वेद-स्योपपद्यते तद्धेतूनां गुणानामभावात् । ननु न गुणकृतमेव प्रामाण्यं किन्तु दोषाभावप्रकारेणापि, स च दोषाश्रयपुरुषाभावेऽपि निश्चीयते न गुणसद्भाव एवेति । तथाचोक्तम् -शब्दे दोषोद्भवस्तावद्वक्त्रधीन इति स्थितम् । तदभावः

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92