Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 63
________________ तृतीयसमुद्देशः। वम् । एकस्य परस्परविरुद्धार्थद्वयप्रतिपादनविरोधात् । किञ्च गोशब्दस्यागोव्यावृत्तिविषयत्वे प्रथममगौरिति प्रतीयेत न चैवमतो नान्यापोहः शब्दार्थः। किञ्च अपोहाख्यं सामान्यं वाच्यत्वेन प्रतीयमानं पर्युदासरूपं प्रसज्यरूपं चा ? प्रथमपक्षे गोत्वमेव नामान्तरेणोक्तं स्यात् । अभावामावस्य भावान्तरस्वभावेन व्यवस्थितत्वात् । कश्चायमश्वादिनिवृत्तिलक्षणो भावोऽभिधीयते ? न तावत्स्वलक्षणरूपस्तस्य सकलविकल्पवाग्गोचरातिक्रान्तत्वात् । नापि शाबलेयादिव्यक्तिरूपस्तस्यासामान्यत्वप्रसङ्गात् । तस्मात् सकलगोव्यक्तिष्वनुवृत्तप्रत्ययजनकं तत्रैव प्रत्येक परिसमाप्त्या वर्तमान सामान्यमेव गोशब्दवाच्यम् । तस्यापोह इति नामकरणे नाममात्रं मिद्येत नार्थः अतो नाद्यः पक्षः श्रेयान् । नापि द्वितीयो, गोशब्दादेः क्वचिद्वाह्येऽर्थे प्रवृत्त्ययोगात् । तुच्छाभावाभ्युपगमे परमतप्रवेशानुषंगाच्च । किञ्च गवादयो ये सामान्यशब्दा ये च शाबलेयादयस्तेषां भवदभिप्रायेण पर्यायता स्यात् । अर्थभेदाभावावृक्षपादपादिशब्दवत् । न खलु तुच्छाभावस्य भेदो युक्तो वस्तुन्येव संसृष्टत्वैकत्वनानात्वादिविकल्पानां प्रतीतेः । भेदे वा अभावस्य वस्तुतापत्तिः तल्लक्षणत्त्वाद्वस्तुत्वस्य । न चापेह्यलक्षणसम्बन्धिभेदाढ़ेदः । प्रमेयाभिवेयादिशब्दानामप्रवृत्तिप्रसङ्गात् । व्यवच्छेद्यस्यातद्रूपेणाप्यप्रमेयादि रूपत्त्वे ततो व्यवच्छेदायोगात्कथं तत्र सम्बन्धिभेदाद्भदः ? किञ्च शाबलेयादिष्वकोऽपोहो न प्रसज्येत किन्तु प्रतिव्यक्ति भिन्न एव रयात् । अथ शाबलेयादयस्तन्न भिन्दन्ति तपश्वादयोऽपि भेदका मःभूवन् । यस्यान्तरङ्गाः शाबलेयादयो न भेदकास्तस्याश्वादयो भेदका इत्यतिसाहसम् । वस्तुनोऽपि सम्बंधिभेदाढ़ेदो नोपलभ्यते किमुतावस्तुनि । तथाटेक एव देवदत्तादिकटककुण्डलादिभिरभिसम्बन्ध्यमानो न नानात्वमास्तिध्नुवानः समुपलभ्यत इति । भवतु वा सम्बन्धिभेदाढ़ेदस्तथापि न वस्तुभूतसामान्यमन्तरेणान्या

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92