Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
चतुर्थसमुद्देशः । कदेशान्तरेणावयविनो वृत्तावनवस्था । सर्वात्मना वर्तमानोऽपि प्रत्यवयवं स्वभावभेदेन वर्तेत, आहोस्त्रिदेकरूपेणेति ? प्रथमपक्षे अवयविबहुत्वापत्तिः । द्वितीयपक्षे तु अवयवानामेकरूपत्वापत्तिरिति । प्रत्येकं परि.. समाप्त्या वृत्तावप्यवयविबहुत्वमिति । तथा यत् दृश्यं सन्नोलभ्यते तन्नास्त्येव . यथा गगनेन्दीवरं, नोपलभ्यते चावयवेष्ववयवीति । तथा यदग्रहे यबुद्धयभावस्तत्ततो नार्थान्तरम् । यथा वृक्षाप्रहे वनमिति । ततश्च निरंशा एवान्योन्यासंस्पर्शिणो रूपादिपरमाणवस्ते च एकक्षणस्थायिनो न नित्या, विनाशं प्रत्यन्यानपेक्षणात् । प्रयोगश्च यो यद्भाव प्रत्यन्यानपेक्षः स तत्स्वभावनियतो यथान्त्या कारणसामग्री स्वकार्ये । नाशो हि मुद्गरादिना क्रियमाणस्ततो भिन्नोऽभिन्नो वा क्रियते ? मिन्नस्य करणे घटस्य स्थितिरेव स्यात् । अथ विनाशसम्बन्धानष्ट इति व्यपदेश इति चेत्, भावाभावयोः कः सम्बन्धः? न तावत्तादात्म्यं तयोर्भेदात् । नापि तदुत्पत्तिरमावस्य कार्योधारवाघटनात् । अभिन्नस्य करणे घटादिरेव कृतः • स्यात् । तस्य च प्रागेव निष्पन्नत्वाद्ध्यर्थ करणमित्यन्यानपेक्षत्वं सिद्धमिति विनाशस्वभावनियतत्वं साधयत्येव । सिद्धे चानित्यानां तत्स्वभावनियतत्वे तदितरेषामात्मादीनां विमत्यधिकरणभावापन्नानां सत्त्वादिना साधनेन तदृष्टःन्ताद्भवत्येव क्षणस्थितिस्वभावत्वम् । तथाहि यःसत्तत्सर्वमेकक्षणस्थितिस्वभावं यथा घटः सन्तश्चामी भावा इति । अथवा सत्त्वमेव विपक्षे बाधकप्रमाणबलेन दृष्टान्तनिरपेक्षमशेषस्य वस्तुनः क्षणिकत्वमनुमापयति । तथाहि सत्त्वमर्थक्रियया व्याप्तं, अर्थक्रिया च क्रमयोगपद्याभ्यां, ते च नित्यानिवर्तमाने स्वव्याप्यामर्थक्रियामादाय निवर्तेते । सापि स्वव्याप्यं सत्त्वमिति, नित्यस्य क्रमयोगपद्याभ्यामर्थक्रियाविरोधात्सत्त्वासम्भावनं विपक्षे बाधकप्रमाणमिति । नहि नित्यस्य क्रमेण युगपद्वा सा सम्भवति । नित्यस्यैकेनैव स्वभावेन पूर्वापरकालभाविकार्यद्वयं कुर्वतः कार्याभेदकत्वात्तस्यैकस्वभावत्वात् । तथापि

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92