Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 75
________________ चतुर्थसमुद्देशः । नित्यकरूपस्य गोत्व देः क्रमयोगपद्याभ्यामक्रियाविरोधात् । प्रत्येक परिसमाप्त्या व्यक्तिषु वृत्त्ययोगाच्चानेकं सदृशपरिणामात्मकमेवेति तिर्यक्सामान्यमुक्तम् । द्वितीयभेदमपि सदृष्टान्तमुपदर्शयति-- परापरविवर्त्तव्यापिद्रव्यमूर्खता मृदिव स्थासादिष्विति ॥५॥ सामान्यमिति वर्तते तेनायमर्थः-उतासामान्यं भवति । किंतत् ? द्रव्यम् । तदेव विशिष्यते परापरविवर्तव्यापीति पूर्वापरकालवर्तित्रिकालानुयायीत्यर्थः । चित्रज्ञानस्यैकस्य युगपद्भाव्यनेकस्वगतनीलाद्याकारख्याप्तिवदेकस्य क्रमभाविपरिणामव्यापित्त्वमित्यर्थः । विशेषस्यापि वैविध्यमुपदर्शयति . विशेषश्चेति ॥ ६ ॥ द्वेधेत्यधिक्रियमाणेनाभिसम्बन्धः । तदेव प्रतिपादयति पर्यायव्यतिरेकभेदादिति ॥ ७॥ प्रथमविशेष भेदमाह एकस्पिन्द्रव्ये क्रमभाविनः परिणामाः पर्याया आत्मान हर्षविषादादिवदिति ॥ ८ ॥ अत्रात्मद्रव्यं स्वदेहप्रमितिमात्रमेव न व्यापकम् । नापि वटकणिकामात्रम् । न च कायाकारपरिणतभूतकदम्बकमिति, तत्र व्यापकत्त्वे परेषामनुमानमात्मा व्यापकः द्रव्यत्त्वे सत्त्यमूर्तत्त्वादाकाशवदिति । तत्र यदि रूपादिलक्षणं मूर्तत्वं तत्प्रतिषेधोऽमूर्तत्वं तदा मनसःऽनेकान्तः । अथासर्वगतद्रव्यपरिमाणं मूर्तत्वं तन्निषेधस्तथा चेत्परंप्रति साध्यसमो हेतुः । यच्चापरमनुमानं-आत्मा व्यापकः अणुपरिमाणानधिकरणत्वे सतिनित्यद्रव्यत्त्वादाकाशवदिति । तदपि न साधुसाधनम् । अणुपरिमाणानधिकरणत्त्वमित्यत्र किमयं नञर्थः पर्युदासः प्रसज्यो वा भवेत् ? तत्राद्यपक्षे अणुपरिमाणप्रतिषेधेन महापरिमाणमवान्तरपरिमाणं परिमाणमात्रं वा ? महापरिमाणं चेत् साध्यसमो हेतुः । अवान्तरपरिमाणं चेत् विरुद्धो हेतुरवान्तरप..

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92