Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
प्रमेयरत्नमाला।
प्रमाणादभिन्न भिन्नं च ॥ २॥ कथंचिदभेदसमर्थनार्थ हेतुमाह
यः प्रमिमीते स एव निवृत्ताज्ञानो जहात्यादत्त उपेक्षते चेति प्रतीतेः ॥ ३॥
अयमर्थः–यस्यैवात्मनः प्रमाणाकारेण परिणतिस्तस्यैव फलरूपतया परिणाम इत्येकप्रमात्रपेक्षया प्रमाणफलयोरभेदः । करणक्रियापरिणामभेदाढ़ेद इत्यस्य सामर्थ्यसिद्धत्त्व लोक्तम् ॥
पारम्पर्येण साक्षाच्च फलं द्वेधाऽभिधायि यत् । देवभिन्नमभिन्नं च प्रमाणात्तदिहोदितम् ॥ १ ॥ इति परीक्षामुखलघु वृत्ती फलसमृद्देशः पञ्चमः ॥ ५ ॥
अथेदानीमुक्तप्रमाणस्वरूपादिचतुष्टयाभासमाह
ततोऽन्यत्तदाभासमिति ॥ १ ॥ तत उक्तात् प्रमाणस्वरूपसंख्याविषयफलभेदादन्यद्विपरीतं तदाभासमिति। तत्र क्रमप्रप्तं स्वरूपाभासं दर्शयति-- अस्वसंविदितगृहीतार्थदर्शनसंशयादयः प्रमाणाभासाः ॥२॥
अस्वसंविदितञ्च गृहीतार्थञ्च दर्शनञ्च संशय आदिर्येषां ते संशयादयश्चति सर्वेषां द्वंद्वः । आदिशब्देन विपर्ययानध्यवसाययोरपि ग्रहणम् । तत्रास्वसंविदितं ज्ञानं ज्ञानान्तरप्रत्यक्षत्वादिति नैयायिकः । तथाहि ज्ञाने स्वव्यतिरिक्तवेदनवेद्यं वद्यत्वात् घटवदिति । तदसङ्गतम्-धर्मिज्ञानस्य ज्ञानान्तरवेद्यत्वे साध्यान्तः शातित्वेन धर्मिवायोगात् । स्वसंविदितावे तेनैव हेतोरनेकान्तात् । महेश्वरज्ञानेन च व्यभिचाराद्वयाप्तिज्ञानेनाप्यनेकान्तादर्थप्रतिपत्त्ययोगाच्च । नहि ज्ञापकमप्रत्यक्षं ज्ञाप्यं गमयति

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92