Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
षष्ठसमुद्देशः । शब्दलिङ्गादीनामपि तथैव गमकत्त्वप्रसङ्गात् । अनन्तरभाविज्ञानग्राह्यत्वे तस्याप्यगृहीतस्य पराज्ञापकत्वात्तदनन्तरं कल्पनीयम् । तत्रापि तदनन्तरमित्यनवस्था तस्मान्नायं पक्षः श्रेयान् । एतेन करणज्ञानस्य परे क्षत्वेनास्वसंविदितत्वं ब्रुवन्नपि मीमांसकः प्रत्युक्तः । तस्या। ततोऽर्थप्रत्यक्षत्वायोगात् । अथ कर्मस्वेनाप्रतीयमानत्वादप्रत्यक्षत्वे तर्हि फलज्ञानस्याप्रत्यक्षता तत एव स्यात् । अथ फलत्वेन प्रतिभासनं नो चेत् करणज्ञानस्यापि करणत्वेनावभासनात् प्रत्यक्षत्वमस्तु । तस्मादर्थप्रतिपत्त्यन्यथाऽनुपपत्तेः करणज्ञानकल्पनावदर्थप्रत्यक्षत्वान्यथाऽनुपपत्तेानस्यापि प्रत्यक्षत्वमस्तु । अथ करणस्य चक्षुरादेरप्रत्यक्षत्वेऽपि रूपप्राकट्याद्वयमिचार इति चेन्न, मिन्नकर्तृककरणस्येव तद्वयमिचारात् । अभिन्नकर्तृके करणे सति कर्तृप्रत्यक्षतायां तदभिन्नस्यापि कर. णस्य कथञ्चित्प्रत्यक्षत्वेनाप्रत्यक्षतैकान्तविरोधात्प्रकाशात्मनोऽप्रत्यक्षत्वे प्रदी. पप्रत्यक्षत्वविरोधवदिति । गृहीतग्राहिधारावाहिज्ञानं गृहीतार्थ, दर्शनं सौगताभिमतं निर्विकल्पकं, तच्च स्वविषयानुपदर्शकत्वादप्रमाणं व्यवसायस्यैव तज्जनितस्य तदुपदर्शकत्त्वात् । अथ व्यवसायस्य प्रत्यक्षाकारेणानुरक्तत्वा. त्ततः प्रत्यक्षस्यैव प्रामाण्य व्यवसायस्तु गृहीतग्राहित्वादप्रमाणमिाते तन्न सुभाषितं-दर्शनस्याविकल्पकस्यानुयलक्षणात्तत्सद्भावायोगात् सद्भावे वा नीलादाविव क्षणक्षयादावपि तदुपदर्शकत्वप्रसङ्गात् । तत्र विपरीतसमारोपान्नेति चेतर्हि सिद्धं नीलादी समारोपविधिग्रहणलक्षणो निश्चय इति तदात्मकमेव प्रमाणमितरत्तदाभासमिति । संशयादयश्च प्रसिद्धा एव । तत्र संशय उभयकोटिसंस्पर्शी स्थाणुर्वा पुरुषो वेति परामर्शः । विपर्ययः पुनर. तस्मिंस्तदिति विकल्पः । विशेषानवधारणमध्यवसायः । कथमेषामस्वसंविदितादीनां तदाभासतेत्यत्राह
स्वविषयोपदर्शकत्वाभावात् ॥ ३॥

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92