Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 80
________________ प्रमेयरत्नमाला। गतार्थमेतत् । अत्र दृष्टान्तं यथ क्रममाहपुरुषान्तरपूर्वार्थगच्छत्तृणस्पर्शस्थाणुपुरुषादिज्ञानवत् ॥ ४ ॥ पुरुषान्तरं च पूर्वार्थश्च गच्छत्तृणस्पर्शश्च स्थाणुपुरुषादिश्च तेषां ज्ञानं तद्वत् । अपरं च सन्निकर्षवादिनं प्रति दृष्टान्तमाह ... चक्षुरसयोद्रव्ये संयुक्तसमवायवच्च ॥५॥ ___ अयमों यथा चक्षुरसयोः संयुक्तसमवायः सन्नपि न प्रमाणं तथा चक्षुरूपयोरपि । तस्मादयमपि प्रमाणाभास एवेति । उपलक्षणमेतत् अतिव्याप्तिकथनमव्याप्तिश्च । सन्निकर्षप्रत्यक्षवादिनां चक्षुषि सन्निकर्षस्यामावात् । अथ चक्षुः प्राप्तार्थपरिच्छेदकं व्यत्रहितार्थाप्रकाशकत्वात् प्रदीपवदिति तत्सिद्धिरिति मतं तदपि न साधीयः । काचाभ्रपटलादिव्यवहितार्थानामपि चक्षुषा प्रतिमासनाद्धेतोरसिद्धः । शाख चन्द्रमसोरेककालदर्शनानुपपत्तिप्रसक्तेश्च । न च तत्र क्रमेऽपि योगपद्याभिमान इति वक्तव्यम् । कालव्यवधानानुपलब्धेः । किञ्च क्रमप्रतिपत्तिः प्राप्तिनिश्चये सति भवति । न च क्रमप्राप्तौ प्रमाणान्तरमस्ति । तैजसत्वमस्तीति चेन्न तस्यासिद्धेः । अथ चक्षुस्तैजसं रूपादीनां मध्ये रूपस्यैव प्रकाशकत्त्वात् प्रदीपवदिति । तदप्यपर्यालोचिताभिधानं मण्यञ्जनादेः पार्थिवत्त्वेऽपि रूपप्रकाशकत्वदर्शनात् । पृथिव्यादिरूपप्रकाशकत्त्वे पृथिव्याद्यारब्धत्वप्रसङ्गाच्च । तस्मात्सन्निकर्षस्याव्यापकत्वान्न प्रमाण करणज्ञानेन व्यवधानाच्चेति । प्रत्यक्षामासमाह - अवैशये प्रत्यक्षं तदाभासं बौद्धस्याकस्मादद्धमदर्शनाद्वह्निविज्ञानवदिति ॥ ६॥ परोक्षामासमाहवैषयेऽपि परोक्षं तदाभासं मीमांसकस्य करणज्ञानवत् ॥ ७ ॥ प्राक् प्रपञ्चितमेतत् । परोक्षभेदाभासमुपदर्शयन् प्रथम क्रमप्राप्त स्मरणाभासमाह

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92