Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 76
________________ ७५ प्रमेयरत्नमाला। रिमाणाधिकरणत्वं ह्यव्यापकत्वमेव साधयतीति । परिमाणमात्रं चेत्-सत्परिमाणसामान्यमङ्गीकर्तव्यम् । तथाचाणु परिमाणप्रतिषेधेन परिमाणसामान्याधिकरणत्वमात्मन इत्युक्तम् । तच्चानुपपन्नं, व्यधिकरणासिद्धिप्रसङ्गात् । न हि परिमाणसामान्यमात्मनि व्यवस्थितं किन्तु परिमाणव्यक्तिष्वेवेति । न चावान्तरमहापरिमाणद्वयाधारतयाऽऽत्मन्यप्रतिपन्ने परिमाणमात्राधिकरणता तत्र निश्चेतुं शक्या । दृष्टान्तश्च साधनविकलः । आकाशस्य महापरिमाणाधिकरणतया परिमाणमात्राधिकरणत्वायोगात् । नित्यद्रव्यत्वं च सर्वथाऽसिद्धम् । नित्यस्य क्रमाक्रमाभ्यामर्थक्रियाविरोधादिति । प्रसज्यपक्षेऽपि तुच्छामावस्य ग्रहणोपायासम्भवात् न विशेषणत्वम् । न चागृहीतविशेषणं नाम न चागृहीतविशेषणाविशेष्ये बुद्धिरितिवचनान्न प्रत्यक्षं तद्ग्रहणोपायः सम्बन्धाभावादिन्द्रियार्थसन्निकर्षजं हि प्रत्यक्षं तन्मते प्रसिद्धम् । विशेषणविशेष्यमावकल्पनायाममावस्य नागृहीतस्य विशेषणत्वमिति तदेव दूषणम् । तस्मान्न व्यापकमात्मद्रव्यम् । नापि वटकणिकामात्रं कमनीयकान्ताकुचजधनसंस्पर्शकाले प्रतिलोमकूपमाल्हादनाकारस्य सुखस्यानुभवनात् । अन्यथा सर्वाङ्गीण रोमाञ्चादिकार्योदयायोगात् । आशुवृत्त्यालातचक्रवत् क्रमेणैव तत्सुखमिय. 'नुपपन्नम् । परापरान्तःकरणसम्बन्धस्य तत्कारणस्य परिकल्पनायां व्यवधानप्रसङ्गात् । अन्यथा सुखस्य मानसप्रत्यक्षत्वायोगादिति । नापि पृथिव्यादि. चतुष्टयात्मकत्वमात्मनः सम्भाव्यते । अचेतनेभ्यश्चैतन्योत्पत्त्ययोगाद्धारणेरणद्रवोष्णतालक्षणान्वयाभावाच्च । तदहर्जातबालकस्य स्तनादावभिलाषाभाव. प्रसङ्गाच्च । अभिलाषो हि प्रत्यभिज्ञाने भवति, तच्च स्मरणे, स्मरणं चानुभवे भवतीति पूर्वानुभवः सिद्धः । मध्यदशायां तथैव व्याप्तेः । मृताना रक्षोयक्षादिकुलेषु स्वयमुत्पन्नत्वेन कथयता दर्शनात् । केषाञ्चित् भवस्मृतेरुपलम्भाच्चानादिश्चेतनः सिद्ध एव । तथा चोक्तम्-तदहर्जस्तनेहातो रक्षोदृष्टर्भवस्मृतेः । भूतानन्वयनासिद्धः प्रकृतिज्ञः सनातनः ॥ १ ॥ इति ।

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92