Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 74
________________ ७२ : प्रमेयरत्नमाला। प्रमाणबाध आश्रयासिद्धिश्च न वाच्येति । तस्याश्रितत्त्वेऽप्येतदभिधीयते न समवाय एकः सम्बन्धात्मकत्वे सत्याश्रितत्वात् संयोगवत् । सत्तयाऽनेकान्त इति सम्बन्धविशेषणम् । अथ संयोगे निबिडशिथिलादिप्रत्ययनानात्वान्नानात्वं नान्यत्र विपर्ययादिति चेत् न, समवायेऽप्युत्पत्तिमत्त्वनश्वरत्वप्रत्ययनानात्वस्य सुल भत्वात् । सम्बन्धिभेदानेदोऽन्यत्रापि समान इति नैकत्रैव पर्यनुयोगो युक्तः । तस्मात्समवायस्थ परपरिकल्पितस्य विचारासहत्वान्न तद्वशाद्गुणगुण्यादिष्वभेदप्रतीतिः । अथ भिन्न प्रतिभासादवयवायवयव्यादीनां भेद एवेति चेन्न, भेदप्रतिभासस्याभेदाविरोधात् । घटपटादं नामपि कथञ्चिदभेदोपपत्तेः । सर्वथा प्रतिभासभेदस्यासिद्धेश्च । इदमित्याद्यभेदप्रतिभासस्यापि भावात्ततः कथंचिद्भेदाभेदात्मकं द्रव्यपर्यायात्मकं सामान्यविशेषात्मकं च तत्त्वं तीरादर्शिशकुनिन्यायेनायातमित्यलमतिप्रसङ्गेन । इदानीमनेकान्तात्मकवस्तुसमर्थनार्थमेव हेतुद्वयमाह- . अनुवृत्तव्यात्तप्रत्ययगोचरत्वात्पूर्वोत्तराकारपरिहारावाप्तिस्थितिलक्षणपरिणामेनार्थक्रियोपपत्तेवेति ॥ २॥ अनुवृत्ताकारो हि गौॉरित्यादिप्रत्ययः । व्यावृत्ताकारः श्यामः शबल इत्यादिप्रत्ययः । तयोर्गोचरस्तस्य भावस्तत्वं तस्मात् । एतेन तिर्यक्सामान्यव्यतिरेकलक्षणविशेषद्वयात्मकं वस्तु साधितम् । पूर्वोत्तराकारयोर्यथासंख्येन परिहारावाप्ती, ताभ्यां स्थितिः, सैव लक्षणं यस्य, स चासौ परिणामश्च, तेनार्थक्रियोपपत्तेश्चेत्यनेन तूर्खतासामान्यपर्यायाख्यविषद्वयरूपं वस्तु समर्थित भवति । अथ प्रथमोद्दिष्टसामान्यभेदं दर्शयन्नाह-- ___सामान्यं द्वेधा तिर्यगूर्ध्वताभेदात् ॥ ३॥ प्रथमभेदं सोदाहरणमाहसदृशपरिणामस्तिर्यक्, खण्डमुण्डादिषु गोस्ववत् ॥ ४ ॥

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92