Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 72
________________ प्रमेयरत्नमाला। सत्वं निजं रूपमिति चेन्न, तस्यापि सत्तासम्बन्धादेव तद्वयपदेशकरणात् । एवं गुणादिष्वपि वाच्यम् । केवलं सामान्यविशेषसमवायानामेव स्वरूपसत्त्वेन तथाव्यपदेश.पपत्तेस्तत्रयव्यवस्थैव स्यात् । ननु जीवादिषदार्थानां सामान्यविशेषात्मकत्वं स्याद्वादिभिरभिधीयते तयोश्च वस्तुनोर्मेदाभेदाविति । तौच विरोधादिदोषोपनिपातान्नैकत्र सम्भविनाविति । तथाहि-भेदाभेदयोर्विधिनिषे. धयोरेकताभिन्ने वस्तुन्यसम्भवः शीतोष्णस्पर्शयोति ॥ १ ॥ भेदस्यान्यदधिकरणमभेदस्य चान्यदिति वैयधिकरण्यम् ॥ २ ॥ यमात्मानं पुरोधाय मेदो यं च समाश्रित्याभेदः तावात्मानौ मिन्नौ चामिन्नौ च तत्रापि तथा परिकल्पनादनवस्था ॥३॥ येन रूपेण मेदस्तेन मेदश्चाभेदश्चेति सङ्करः॥४॥ येन मेदस्तेनाभेदो येनाभेदस्तेन मेद इति व्यतिकरः ॥ ५ ॥ मेदामेदात्मकत्वे च वस्तुनोऽसाधारणाकारेण निश्चेतुमशक्तेः संशयः ॥ ६ ॥ ततश्च:प्रतिपत्तिस्ततोऽमावः ॥ ७-८॥ इत्यनेकान्तात्मकमपि न सौस्थ्यमाभजतीति केचित् । तेऽपि न प्रातीतिकवादिनः । विरोधस्य प्रतीयमानयोरसम्भवादनुपलम्भसाध्यो हि विरोधः, तत्रोपलभ्यमानयोः को विरोधः? यच्च शीतोष्णस्पशयोर्वेति दृष्टान्ततयोक्तं तच्च धूपदहनायेकावयविनः शांतोष्णस्पस्विमावस्योपलब्धेरयुक्तमेव । एकस्य चलाचलरक्तारक्तावृतानावृतादिविरुद्धधर्माणां युगपदुपलब्धेश्च प्रकृतयोरपि न विरोध इति । एतेन वैयधिकरण्यमप्यपास्तम् । तयोरेकाधिकरणत्वेन प्रतीतेः । अत्रापि प्रागुक्तनिदर्शनान्येव बोद्धव्यानि । यच्चानवस्थानं दूषणं तदपि स्याद्वादिमतानभिज्ञैरेवापादितम् । तन्मतं हि सामान्यविशेषात्मके वस्तुनि सामान्यविशेषावेव भेदः । भेदध्वनिना तयोरेवाभिधानात् । द्रव्यरूपेणाभेद इति । द्रव्यमेवाभेद एकानेकात्मकत्वाद्वस्तुनः । यदि वा भेदनयप्राधान्येन वस्तुधर्माणामानन्यामानवस्था । तथा हि-यत्सामान्यं यश्च विशेषस्तयोरनुवृत्तव्यावृत्ता

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92