Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 70
________________ प्रमेयरत्नमाला। न सर्वथा पदार्थानां विनाशस्वभावासिद्धः । पर्यायरूपेणैव हि भावानामुत्पादविनाशावङ्गीक्रियेते न द्रव्यरूपेण- समुदेति विलयमृच्छति भावो नियमेन पर्ययनयस्य । नोदोत नो विनश्यति भावनयालिङ्गितो नित्यम् ॥ १ ॥ इति वचनात् । नहि निरन्वयविनाशे पूर्वक्षणस्य ततो मृताच्छिखिनः केकायितस्यवोत्तरक्षणस्योत्पत्तिर्घटते । द्रव्यरूपेण कथाञ्चदत्यक्तरूपस्यापि सम्भवात् न सर्वथा भावानां विनाशस्वभावत्वं युक्तम् । न च द्रव्यरूपस्य गृहीतुमशक्यत्वादभावस्तगृहणोपायस्य प्रत्यभिज्ञानस्य ब लमुपलम्भात्तत्प्रामाण्यस्य च प्रागेवोक्तत्वादुत्तरकार्योत्पत्यन्यथानुपपत्तेश्च सिद्धत्वात् । यच्चान्यत्साधनं सत्त्वाख्यं तदपि विपक्षवत्स्वपक्षेऽपि समानत्वान्न साध्यसिद्धिनिबन्धनम् । तथा हि सत्त्वमर्थक्रियया व्याप्तमर्थक्रिया च क्रमयोगपद्याभ्यां ते च क्षणिकान्निवर्तमाने स्वव्याप्यामर्थक्रियामादाय निवर्तेते । सा च निवर्तमाना स्वव्याप्यं सत्वमिति नित्यस्येव क्षणिकस्यापि खरविषाणवदसत्त्वमिति न तत्र सत्वव्यवस्था । न च क्षाणकस्य वस्तुनः क्रमयोगपद्याभ्यामर्थक्रियाविरोधोऽसिद्धस्तस्य देशकृतस्य कालकृतस्य वा क्रमस्यासम्भवात् । अवस्थितस्यैकस्य हि नानादेशकालकलाव्यापित्वं देशक्रमः कालक्रमश्चाभिधीयते । न च क्षणिके सोऽस्ति, “ यो यत्रैव स तत्रैव यो यदैव तदैव सः। न देशकालयोर्व्याप्तिर्भावानामिह विद्यत" इति स्वयमेवाभिधानात् । न च पूर्वोत्तरक्षणानामेकसन्तानापेक्षया क्रमः सम्भवति, सन्तानस्य वास्तवत्वे तस्यापि क्षणिकत्वेन क्रमायोगादक्षणिकत्वेऽपि वास्तवत्वे तनव सत्त्वादिसाधनमनैकान्तिकम् । अवास्तवत्वे न तदपेक्षः क्रमो युक्त इति । नापि योगपद्येन तत्राक्रिया सम्मवति, युगपदेकेन स्वभावेन नानाकार्यकरणे तत्कार्यैकत्वं स्यात् । नानास्वभावकसनायां ते स्वभावास्तेन च्यापनीयाः । तत्रैकेन स्वभावेन तद्व्याप्तौ तेषामेकरूपता, नानास्वभावेन

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92