Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 68
________________ ६६ प्रमेयरत्नमाला। कार्यनानात्वे अन्यत्र कार्यभेदात् कारणभेदकल्पना विफलैव स्यात् । तादृशमेकमेव किञ्चित्कारणं कल्पनीयं, येनैकस्वभावेनैकेनैव चराचरमुत्पद्यत इति । अथ स्वभावनानात्वमेव तस्य कार्यभेदादिष्यत इति चेत्तर्हि, ते स्वभावास्तस्य सर्वदा सम्भविनस्तदा कार्यसायम् । नो चेत्तदुत्पत्तिकारणं वाच्यम् । तस्मादेवमित्येकस्वभावात्तदुत्पत्तौ तत्स्वभावानां सदा सम्भवात्सैव कार्याणां युगपत्प्राप्तिः । सहकारिक्रमापेक्षया तत्स्वभावानां क्रमेण भावान्नोक्तदोष इति चेत्तदपि न साधुसङ्गतम् । समर्थस्य नित्यस्य परापेक्षायोगात् । तैः सामर्थ्यकरणे नित्यताहानिः । तस्माद्भिन्नमेव सामर्थ्य तैर्विधीयत इति न नित्यताहानिरिति चेत्तर्हि नित्यमकिंचित्करमेव स्यात् । सहकारिजनितसामर्थ्यस्यैव कार्यकारित्त्वात्तत्सम्बन्धात्तस्यापि कार्यकारित्वे तत्सम्बधस्यैकस्वभावत्वे सामर्थ्यनानात्वाभावान्न कार्यभेदः । अनेकस्वभावत्वे क्रमवत्त्वे च कार्यवत्तस्यापि साङ्कर्यमिति सर्वमावर्तत इति चक्रकप्रसङ्गः । तस्मान्न क्रमेण कार्यकारित्वं नित्यस्य । नापि युगपत् अशेषकार्याणां युगपदुत्पत्तौ द्वितीयक्षणे कार्याकरणादनर्थक्रियाकारित्वेनावस्तुत्वप्रसंगादिति नित्यस्य क्रमयोगपद्याभावः सिद्ध एवेति सौगताः प्रतिपेदिरे । तेऽपि न युक्तवादिनः-सजातीयेतरव्यावृत्तात्मनां विशेषाणामनंशानां ग्राहकस्य प्रमाणस्याभावात् । प्रत्यक्षस्य स्थिरस्थूलसमारणाकारवस्तुग्राहकत्वेन निरंशवस्तुग्रहणायोगात् । न हि परमाणवः परस्परासंबद्धाश्चक्षुरादिबुद्धौ प्रतिभान्ति तथा सत्यविवादप्रसंगात् । अथानुभूयन्त एव प्रथमं तथाभूताः क्षणाः पश्चात्तु विकल्पवासनाबलादान्तरादन्तरालानुपलम्भलक्षणाद्वाह्याच्चाविद्यमानोऽपि स्थूलाद्याकारो विकल्पबुद्धौ चकास्ति । स च तदाकारणानुरज्यमानः स्वव्यापारं तिरस्कृत्य प्रत्यक्षव्यापारपुरःसरत्त्वेन प्रवृत्तत्त्वात्प्रत्यक्षारत इति । तदप्यतिबालविलसितम् । निर्विकल्पच.बेधस्यानुपलक्षणात् । गृहीते हि निर्विकल्पकेतरयोर्भेदे अन्याकारानुराग

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92