Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 66
________________ प्रमयरत्नमाला। इति । यदपि परिमाणाख्यं साधनं, तदप्येकप्रकृतिकेषु घटवटीशरात्रोदञ्चनादिष्वनेक प्रकृतिकषु पटकुटमकुटशकटादिषु चोपलम्भादनकान्तिकमिति न ततः प्रकृतिसिद्धिः । तदेवं प्रधानग्रहणोपायासम्भवात्सम्भवे वा ततः कार्योंदयायोगाच । यदुक्तं परेण-प्रकृतेर्महान् ततोऽहंकारस्तस्माद्गणश्च षोडशकः । तस्मादपि षोडशकात्पञ्चभ्यः पंच भूतानीति ॥ १ ॥ सृष्टिक्रमे, मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्तषोडशकःश्च विकारो, न प्रकृतिर्नविकृतिः पुरुषः ॥ २ ॥ इति स्वरूपाख्यानं च, वन्ध्यासुतसौरूप्यवर्णनमिवासद्विषयत्त्वादुपेक्षामर्हति । अमूर्तस्याकाशस्य मूर्तस्य पृथिव्यादेश्चैककारणकत्त्वायोगाच्च । अन्यथा अचेतनादपि पंचभूतकदम्बकाचैतन्यसिद्धेश्चार्वाकमतसिद्धिप्रसङ्गात् सांख्यगन्ध एव न भवेत् । सत्कार्यवादप्रतिषेधश्चान्यत्र विस्तरेणोक्त इति नेहोच्यते संक्षेपस्वरूपादस्येति । तथा विशेषा एव तत्त्वं तेषामसमानेतरविशेषेभ्योऽशेषात्मना विश्लेषात्मकत्वात्सामान्यस्यैकस्यानेकत्र न्याप्त्यावर्तमानस्य सम्भवाभावाच्च । तस्यैकव्यक्तिनिष्ठस्य सामस्त्येनोपलब्धस्य तथैव व्यक्त्यन्तरेऽनुपलम्भप्रसङ्गात् । उपलम्भे वा तन्नानात्वापत्तयुगपत् भिन्नदेशतया सामस्त्येनोपलब्धेस्तद्वयक्तिवत् , अन्यथा व्यक्तयोऽपि भिन्ना माभूवन्निाति । ततो बुद्धयभेद एव सामान्यम् । तदुक्तम्-एकत्र दृष्टो भावो हि कचिनान्यत्र दृश्यते । तस्मान्न भिन्नमस्त्यन्यत्सामान्य बुद्धयभेदतः ॥१॥ इति । तेच विशेषाः परस्परासम्बद्धा एव, तत्सम्बन्धस्य विचार्यमाणस्यायो. गात् । एकदेशेन सम्वन्धे अणुषट्केन युगपद्योगादणोः षडंशतापत्तेः । सर्वात्मनाभिसम्बन्धे पिण्डस्याणुमात्रकत्वापत्तेः । अवयविनिषेधाच्चासम्बद्धत्वमेषामुपपद्यत एव । तन्निषेधश्च वृत्तिविकल्पादिबाधनात् । तथाहि अवयवा अवयविनि वर्तन्त इति नाभ्युपगतम् । अवयवी चावयवेषु वर्तमानः किमेकदेशेन वर्त्तते सर्वात्मना वा ? एकदेशेन वृत्ताववयवान्तरप्रसङ्गः। तत्राप्ये

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92