Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
प्रमेयरत्नमाला।
पोहाश्रयः सम्बन्धी भवतां भवितुमर्हति । तथाहि यदि शाबलेयादिषु वस्तुभूतसारूप्याभावोऽश्वादिपरिहारेण तत्रैव विशिष्टाभिधानप्रत्ययौ कथं स्याताम् । ततः सम्बधिभेदाढ़ेदामिच्छतापि सामान्यं वास्तवमङ्गीकर्तव्यमिति । किञ्चापोहशब्दार्थपक्षे संकेत एवानुपपन्नस्तद्हणोपायासम्भवात् । न प्रत्यक्ष तद्गहणसमर्थ तस्य वस्तुविषयत्त्वात् । अन्यापोहस्य चावस्तुत्वात् । अनुमानमपि न तत्सद्भावमवबोधयति तरय कार्यस्वभावलिङ्गसम्पाद्यत्वात् । अपोहस्य निरुपाख्येयत्वेनानर्थक्रियाकारित्वेन च स्वभावकार्ययोरसम्भवात् । किञ्च गोशब्दस्यागोपोहाभिधायित्त्वेऽगौरित्यत्र गोशब्दस्य किमभिधेयं स्यादज्ञातस्य विधिनिषेधयोरनधिकारात् । अगोव्य वृत्तिरिति चेदितरेतराश्रयत्वमगोव्यवच्छेदो हि अगोनिश्चये भवति स चागौ!निवृत्त्यात्मा गौश्चागोव्यवच्छेदरूप इति । अगौरित्यत्रोत्तरपदार्थोऽप्यनयैव दिशा चिन्तनीयः । नन्वगौरित्यत्रान्य एव विधिरूपो गोशब्दाभिधेयस्तदाऽपोहः शब्दार्थ इति विघटेत । तस्मादपोहस्योक्तयुक्त्या विचार्यमाणस्यायोगान्नान्यापोहः शब्दार्थ इति, स्थितं सहजयोग्यता सङ्केतवशाच्छब्दादयो वस्तुप्रतिपत्तिहेतव इति ।
स्मृतिरनुपहतेयं प्रत्यभिज्ञानवज्ञा ।
प्रमितिनिरतचिन्ता लैङ्गिक सङ्गतार्थम् । प्रवचनमनवद्यं निश्चितं देववाचा ।
रचितमुचितवाग्भिस्तथ्यमेतेन गीतम् ॥ १ ॥ - इति परीक्षामुखस्य लघुवृत्तौ परोक्षप्रपञ्चस्तृतीयः समुद्देशः ॥ ३ ॥
अथ स्वरूपसङ्ख्याविप्रतिपत्तिं निराकृत्त्य विषयविप्रतिपत्तिनिरासार्थमाह
सामान्यविशेषात्मा तदर्थो विषयः ॥ १॥ तत्य प्रमाणस्य ग्राह्योऽर्थों विषय इति यावत् । स एव विशिष्यते

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92