Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
चतुर्थसमुद्देशः। चेदनवस्था । अथैकत्रैकस्योपादानभाव एवान्यत्र सहकारिभाव इति न स्वमावभेद इष्यते । तर्हि नित्यस्यैकरूपस्यापि वस्तुनः क्रमेण नानाकार्यकारिणः स्वभावभेदः कार्यसाङ्कय वा माभूत् । अक्रमात् क्रमिणामनुत्पत्तेनैवमिति चेदेकानंशकारणायुगपदनेककारणस.ध्यानेककार्यविरोधादक्रमिणोऽपि न क्षाणकस्य कार्यकारित्वमिति । किञ्च भवत्पक्षे सतोऽसतो वा कार्यकारित्वम् ? सतः कार्यकर्तृत्वे सकलकालकलाव्यापिक्षणानामेकक्षणवृत्तिप्रसङ्गः । द्वितीयपक्षे खरविषाणादेरपि कार्यकारित्वमसत्त्वाविशेषात् सत्वलक्षणस्य व्यभिचारश्च, तस्मान्न विशेषकान्तपक्षः श्रेयान् ॥ नापि सामान्यविशेषौ परस्परानपेक्षाविति योगमतमपि युक्तियुक्तमवभाति, तयोरन्योन्यभेदे द्वयोरन्यतरस्यापि व्यवस्थापयितुमशक्तः । तथा हि-विशेषास्तावत् द्रव्यगुणकर्मात्मनः सामान्यं तु परापरभेदावविध, तत्र परसामान्यात्सत्तालक्षणाद्विशेषाणां भेदेऽसत्वापत्तिरिति । तथाच प्रयोगः । द्रव्यगुणकर्माण्यसद्रूपाणि सत्त्वादत्यन्तं भिन्नत्वात्प्रागभावादिवदिति । न सामान्यविशेषसमवायैर्व्यभिचारः । तत्र स्वरूपसत्वस्याभिनस्य परैरभ्युपगमात् । ननु द्रव्यादीनां प्रमाणोपपन्नत्वे धर्मिग्राहकप्रमाणबाधितो हेतुर्येन हि प्रमाणेन द्रव्यादयो निश्चीयन्ते तेन तरूत्वमपीति । अथ 'न प्रमाणप्रतिपन्ना द्रव्यादयस्तर्हि हेतोराश्रयासिद्धिरिति' तदयुक्तम् । प्रसङ्गसाधनात्प्रागभावादौ हि सत्त्वाद्भेदोऽसत्त्वेन व्याप्त उपलभ्यते ततश्च व्याप्यस्य द्रव्यादावभ्युपगमो व्यापकाभ्युपगमनान्तरयिक इति प्रसङ्गसाधने अस्य दोषस्याभाव त् । एतेन द्रव्यादीनामप्यद्रव्यादित्त्वं द्रव्यत्त्वादेर्भेदे चिन्तितं बोद्धव्यम् । कथं वा षण्णां पदार्थानां परस्परं भेदे प्रतिनियतस्वरूपव्यवस्था ? द्रव्यस्य हि द्रव्यामिति व्यपदेशस्य द्रव्यत्वाभिसम्बन्धाद्विधाने ततः पूर्व द्रव्यस्वरूपं किञ्चिद्वाच्यं, येन सह द्रव्यत्त्वाभिसम्बन्धः स्यात् । द्रव्यमेव स्वरूपमिति चेन्न, तद्वयपदेशस्य द्रव्यत्त्वाभिसम्बन्धनिबन्धनतया स्वरूपत्वायोगात् ।

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92