Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 73
________________ चतुर्थसमुद्देशः। कारेण मेदस्तयोश्वार्थक्रियामेदावेदश्च शक्तिभेदात् । सोऽपि सहकारिमेदादित्यनन्तधर्माणामङ्गीकरणात् कुतोऽनवस्था । तथा चोक्तम् । मूलक्षतिकरीमाहुरनवस्था हि दूषणम् । वस्त्वानन्त्येप्यशक्तौ च नानवस्था विचार्यते ॥१॥ इति । यौ च सङ्करव्यतिकरौ तावपि मेचकज्ञाननिदर्शनेन सामान्यविशेषदृष्टान्तेन च परिहतौ । अथ तत्र तथा प्रतिमासनं परस्यापि वस्तुनि तथैव प्रतिमासोऽस्तु तस्य पक्षपाताभावानिणीते संशयोऽपि न युक्तः तस्य चलितप्रतिपत्तिरूपत्वादचलितप्रतिमासे दुर्घटत्त्वात् । प्रतिपन्ने वस्तुन्यप्रतिपत्तिरित्यतिसाहसम् । उपलब्ध्यभिधानादनुपलम्भोऽपि न सिद्धस्ततो नामाव इति दृष्टेष्टाविरुद्धमनेकान्तशासनं सिद्धम् । एतेनावयवावयविनोगुणगुणिनोः कर्म. तद्वते.श्च कथंचिद्भेदाभेदौ प्रतिपादितौ बौद्धव्यौ । अथ समवायवशाद्भिन्नेध्वप्यभेदप्रतीतिरनुपपन्नब्रह्मतुलाख्यज्ञानस्येति चेत् न, तस्यापि ततोऽभिन्नस्य व्यवस्थापयितुमशक्तेः । तथा हि-समवायवृत्तिः स्वसमवायिषु वृत्तिमती स्यादवृत्तिमती वा ? वृत्तिमत्त्वे स्वेनैव वृत्त्यन्तरेण वा ? न तावदाद्यः पक्षः समवाये समवायानभ्युपगमात् । पञ्चानां समवायित्त्वमिति वचनात् । वृत्यन्तरकल्पनायां तदपि स्वसम्बन्धिषु वर्तते न वेति कल्पनायां वृत्त्यन्तरपरम्पराप्राप्तेरनवस्था । वृत्त्यन्तरस्य स्वसंबन्धिषु वृत्त्यन्तरानभ्युपगमान्नानवस्थति चेत्, तर्हि समवायेऽपि वृत्त्यन्तरं माभूत् । अथ समवायो न स्वाश्रयवृत्तिररङ्गीक्रियते, तर्हि षण्णामाश्रितत्वमिति ग्रन्थो विरुध्यते । अथ समवायिषु सत्स्वेव समवायप्रतीतेस्तस्याश्रितत्वमुपकल्प्यते तर्हि मूर्तद्रव्येषु सत्स्वेव दिग्लिङ्गस्येदमतः पूर्वेण इत्यादिज्ञानस्य काललिङ्गस्य च परापरादिप्रत्ययस्य सद्भावात्तयोरपि तदाश्रितत्वं स्यात् । तथा चायुक्तमेतदन्यत्रनित्यद्रव्येभ्य इति । किञ्च समवायस्यानाश्रितत्त्वे • सम्बन्धरूपतैव न घटते । तथा च प्रयोगः-समनायो न सम्बन्धः । अनाश्रितत्त्वादिगादिवदिति । अत्र समवायस्य धर्मिणः कथंचित्तादात्म्यरूपस्यानेकस्य च परैः प्रतिपन्नत्त्वार्मिग्राहक

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92