Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 65
________________ चतुर्थसमुद्देशः। सामान्यविशेषात्मा । सामान्यविशेषौ वक्ष्यमाणलक्षणी तावात्मानौ यस्येति विग्रहः । तदुभयग्रहणमात्मग्रहणं च वे वलस्य सामान्यस्य विशेषस्य तदुभयस्य वा स्वतन्त्रस्य प्रमाणविषयत्वप्रतिषेधार्थम् । तत्र सन्मात्रदेहस्य परब्रह्मणो निरस्तत्त्वात्तदितरद्विचार्यते। तत्र सांख्यैः प्रधानं सामान्यमुकं " त्रिगुणमविवेकिविषयः, सामान्यमचेतनं प्रसवधर्मि । व्यक्तं तथा प्रधानं, तद्विपरीतस्तथा च पुमानिति ॥ १ ॥” वचनात् । तच्च केवलं प्रधानं महदादिकार्यनिष्पादनाय प्रवर्तमानं किमप्यपेक्ष्य प्रवर्तते निरपेक्ष्य वा ? प्रथमपक्ष तन्निमित्तं वाच्यं यदपेक्ष्य प्रवर्तते । ननु पुरुषार्थ एव तत्र कारणं, पुरुषार्थेन हेतुना प्रधानं प्रवर्तते । पुरुषार्थश्च द्वेधा, शब्दाद्यपलब्धिर्गुणपुरुषान्तरविवेकदर्शनं चेत्यभिधानादिति चेत् सत्यम् । तथा प्रवर्तमानमपि बहुधानकं पुरुषकृतं कञ्चिदुपकारं समासादय प्रवर्तेतानासादयद्वा ? प्रथमपक्षे स उपकारस्तस्माद्भिन्नोऽभिन्नो वा ? यदि भिन्नस्तदा तस्येति व्यपदेशाभावः । सम्बन्धाभावात्तदभावश्च समवायादेरनभ्युपगमात् । तादात्म्य च भेदविरोधीति । अथाभिन्न उपकार इति पक्ष आश्रीयते तदा प्रधानमेव तेन कृतं स्यात् । अथोपकारनिरपेक्षमेव प्रधानं प्रवर्तते तर्हि मुक्तात्मानम्प्रत्यपि प्रवतेताविशेषात् । एतेन निरपेक्षप्रवृत्तिपक्षोऽपि प्रत्युक्तस्तत एव । किञ्च सिद्धे प्रधाने सर्वमेतदुपपन्नं स्यात् न च तत्सिद्धिः कुतश्चिन्निश्चीयत इति । ननु कार्याणामेकान्त्रयदर्शनादेककारणप्रभवत्त्वंभेदानां परिमाणदर्शनाच्चेति । तदप्यचारुचर्वितं सुखदुःखमोहरूपतया घटादेरन्वयाभावादन्तस्तत्वस्यैव तथोंपलम्भात् । अथान्तस्तत्वस्य न सुखादिपरिणामः किन्तु तथापरिणममानप्रधानसंसर्गादात्मनोऽपि तथा प्रतिभास इति तदप्यनुपपन्नम् । अप्रतिभासमानस्यापि संसर्गकल्पनायां तत्त्वेयत्ताया निश्चेतुमशक्तेः तदुक्तम्-संसर्गाद.. विभागश्चेदयोगोलकवह्निवत् । मेदाभेदव्यवस्थैवमुच्छिन्ना सर्ववस्तुषु ॥ १।।

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92