Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 60
________________ प्रमेयरत्नमाला | व्याख्यानस्यान्यथैव करणादविसंवादायोगादप्रामाण्यमेव स्यात् । दृश्यन्ते ह्यधुनातना अपि ज्योतिःशास्त्रादिषु रहस्यं यथार्थमवयन्तोऽपि दुरभिसंधेरन्यथा व्याचक्षाणाः । केचिज्जानन्तोऽपि वचनाकौशलादन्यथोपदिशन्तः । केचिद्विस्मृतसम्बन्धा अयाथातथ्यमभिदधाना इति । कथमन्यथा भावनाविधिनियोगवाक्यार्थप्रतिपत्तिर्वेदे स्यान्मनुयाज्ञवल्क्यादीनां श्रुत्यर्थानुसारिस्मृतिनिरूपणायां वा ? तस्मादनादिप्रवाहपतितत्वेऽपि वेदस्य यथार्थत्वमेव स्यादिति स्थितम् । यच्चोक्तमतीतानागतावित्यादि तदपि स्वमतनिर्मूलन हेतुत्वेन विपरीतसाधनात्तदाभासमेवेति । तथाहि--" अतीतानागतौ कालौ वेदार्थज्ञविवर्जितौ । कालशब्दाभिधेयत्वादधुनातनकालवदिति ॥ १ ॥ किञ्च कालशब्दाभिधेयत्वमतीतानागतयोः कालयोर्ग्रहणे सति भवति । तद्ग्रहणं च नाध्यक्षतस्तयोरतीन्द्रियत्वात् । अनुमानतस्तद्ग्रहणेऽपि न साध्येन सम्बन्धस्तयोर्निश्वेतुं पार्यते । प्रत्यक्षगृहीतस्यैव तत्संबन्धाभ्युपगमात् । न च कालाख्यं द्रव्यं मीमांसकस्यास्ति । प्रसङ्गसाधनाददोष इति चेन्न । परम्प्रति साध्यसाधनयोर्व्याप्यव्यापकभावाभावादिदानीमपि देशान्तरे वेदकारस्याष्टकादेः सौगतादिभिरभ्युपगमात् । यदप्यपरं वेदाध्ययनमित्यादि तदपि विपक्षेऽपि समानम् – “ भारताध्ययनं सर्वे गुर्वध्ययनपूर्वकं । तदध्ययनवाच्यत्त्वा- दधुनाध्ययनं यथेति ॥ १ ॥" यच्चान्यदुक्तम् — अनवच्छिन्नसम्प्रदायत्वे -सत्यस्मर्यमाणकर्तृत्वादिति जीर्णकूपारामादिभिर्व्याभिचारनिविशेष्यस्यास्मर्यमाणकर्तृकत्वस्य 1 त वृत्पर्थमनवच्छिन्न सम्प्रदायत्त्वविशेषणेपि विचार्यमाणस्यायोगादसाधनत्वम् । कर्तुरस्मरणं हि वादिनः प्रतिवावदनश्च सर्वस्य वा ? वादिनश्चेदनुपलब्धेरभावाद्वा ? आधे पक्षे पिटकत्रयेऽपि स्यादनुपलब्धेरविशेषात् । तत्र परैः कतुरङ्गीकरणान्नो चेत् । अत एवात्रापि न तदस्तु | अभावादिति चेदस्मात्तदभावसिद्धावितरेतरा55 ५८

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92