Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
प्रमेयरत्नमाला। दिना व्यभिचारः । तस्यातिदविष्ठतयैकदेशस्थितस्यापि भ्रान्तिवशादनेकदेशस्थत्वेन प्रतीतेः । न चाभ्रान्तस्यभ्रान्तेन व्यभिचरकल्पना युक्तेति । नापि जलपात्रप्रतिबिम्बेन । तस्यापि चन्द्रार्कादिसन्निधिमपेक्ष्य तथापरिणममानस्यानेकत्वात् तस्मादनेकप्रदेशे युगपत्सर्वात्मनोपलभ्यमानविषयस्यैकस्यासम्भाव्यमानत्वात्तत्र प्रवर्त्तमानं प्रत्यभिज्ञानं न प्रमाणमिति स्थितम् । तथा नित्यत्वमपि न प्रस्यभिज्ञानेन निश्चीयत इति । नित्यत्वं हि एकस्यानेकक्षणव्यापित्वं । तच्चान्तराले सत्तानुपलम्भेन न शक्यते निश्चेतुम् । न च प्रत्यमिज्ञानबलेनैवान्तराले सत्तासम्भवः । तस्य सादृश्यादपि सम्भवाविरोधात् । न च घटादावस्येवं प्रसङ्गः । तस्योत्पत्तावपरापरमृत्पिण्डान्तरलक्षणस्य कारणस्यासम्भाव्यमानत्वेनान्तराले सत्तायाः साधयितुं शक्यत्वात् । अत्र तु कारणानामपूर्वाणां व्यापारसम्भावनातो नान्तराले सत्तासम्भव इति । यच्चान्यदुक्तं संकेतान्यथानुपपत्तेः शब्दस्य नित्यत्वमिति । इदमप्यनात्मज्ञभाषितमेव । अनित्येऽपि योजयितुं शक्यत्वात् । तथा हि गृहीतसंकेतस्य दण्डस्य प्रध्वंसे सत्यगृहीतसंकेत इदानीमन्य एव दण्डः समुपलभ्यत इति दण्डीति न स्यात् । तथा धूमस्यापि गृहीतव्याप्तिकस्य नाशे अन्यधूमदर्शनाद्वन्हिविज्ञानाभावश्च । अथ सादृश्यात्तथाप्रतीतेन दोष इति चेदत्रापि सादृश्यवशादप्रत्यये को दोषः ? येन नित्यत्वेऽत्र दुरभिनिवेश आश्रीयते । तथा कल्पनायामन्तराले सत्त्वमप्यदृष्टं न कल्पितं स्यादिति । यच्चान्यदभिहितं व्यञ्जकानां प्रतिनियतत्वान्न युगपत् श्रुतिरिति तदप्यशिक्षितलक्षितम् । समानेन्द्रियग्राह्यषु समानधर्मसु समानदेशेषु विषयिविषयेषु नियमायोगात् । तथाहि-श्रोत्रं समानदेशसमानेन्द्रियग्राह्यसमानधर्मापन्नानामानां ग्रहणाय प्रतिनियतसंस्कारकसंस्कार्य न भवति । इन्द्रियत्वात् चक्षुर्वत् । शब्दा वा प्रतिनियतसंस्कारकसंस्कार्या न भवन्ति । समानदेशसमानेन्द्रियग्राह्यसमानधर्मापन्नत्त्वे

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92