Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 56
________________ प्रमेयरत्नमाला। सत्वगृहीतसंकेतः शब्द इदानीमन्य एवोपलभ्यते इति तत्कथमर्थप्रत्ययः स्थात् ? न चासौ न भवतीति स एवायं शब्द इति प्रत्यभिज्ञानस्यात्रापि सुलमत्वाच्च । न च वर्णानां शब्दस्य वा नित्यत्व सर्वैः सर्वदा श्रवणप्रसङ्गः । सर्वदा तदभिव्यक्तेरसम्भवात् । तदसम्भवश्वाभिव्यञ्जकवायूनां प्रतिनियतत्वात् । नच तेषामनुपपन्नत्वम् । प्रमाणप्रतिपन्नत्वात् तथाहिवक्तृमुखनिकटदेशवर्तिभिः स्पार्शनेनाध्यक्षेण व्यञ्जका वायवो गृह्यसे । दूरदेशस्थितेन मुखसमीपस्थिततूलचलनादनुमीयन्ते । श्रोतृश्रोत्रदेशे शब्दश्रवणान्यथानुपपत्तेरर्थापत्त्यापि निश्चीयन्ते । किञ्चोत्पत्तिपक्षेऽपि समानोऽयं दोषः । तथाहि-वाय्वाकाशसंयोगादसमवायिकारणादाकाशाच्च समवायिकारणादिग्देशाद्यविभागेनोत्पद्यमानोऽयं शब्दो न सर्वैरनुभूयते । अपि तु नियतदिग्देशस्थैरेव तथाऽभिव्यज्यमानोऽपि । नाप्यभिव्यक्तिसांकर्यमुमयत्रापि समानत्वादेव । तथाहि-अन्यैस्ताल्वादिसंयोगैर्यथान्योव! न क्रियते तथा ध्वन्यन्तरसारिभिस्ताल्वादिभिरन्यो ध्वनिरिभ्यते इत्युत्पत्त्यभिव्यक्त्योः समानत्वेनैकत्रैव पर्यनुयोगावसर इति सर्व सुस्थम् । माभूद्वर्णानां तदात्मकस्य वा शब्दस्य कौटस्थ्यनित्यत्वम् । तथाप्यनादिपरम्परायातत्वेन वेदस्य नित्यत्वात्प्रकृतलक्षणस्याव्यापकत्वम् । न च प्रवाहनित्यावमप्रमाणकमेवास्येति युक्तं वक्तुम् । अधुना तत्कर्तुरनुपलम्भादतीतानागतयोरपि कालयोस्तदनुमापकस्य लिङ्गस्याभावात्तदभावोऽपि सर्वदाप्यतीन्द्रियसाध्यसाधनसम्बन्धस्येन्द्रियग्राह्यत्वायोगात् । प्रत्यक्ष प्रतिपन्नमेव हि लिङ्गम् । अनुमानं हि गृहीतसम्बन्धस्यैकदेशसन्दर्शनादसन्निकृष्टऽर्थे बुद्धिरित्यभिधानात् । नाप्यर्थापत्तेस्तसिद्धिः । अन्यथाभूतस्यार्थस्याभावादुपमानोपमेययोरप्रत्यक्षत्वाच्चनाप्युपमानं साधकम् । केवलमभाव प्रमाणमेवावशिष्यते तच्च तदभावसाधकमिति । न च पुरुषसद्भाववदस्यापि दुःसाध्यत्वात्संशयापत्तिस्तद

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92