Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 55
________________ तृतीयसमुद्देशः । वाऽवधार्यते दृष्टान्तादिकमन्तरेणैवेत्यर्थः । यथा दृष्टान्तादेर्व्याप्तिप्रतिपत्तिम्प्रत्यनङ्गत्वं तथा प्राक् प्रपञ्चितमिति नेह पुनः प्रतन्यते । नापि दृष्टान्तादिप्रयोगः साध्यसिद्धयर्थं फलवानित्याह | ५३ तावता च साध्यसिद्धिः ॥ ९७ ॥ चकार एवकारार्थे । निश्चितविपक्षासम्भवहेतु प्रयोगमात्रेणैव साध्यसिद्धिरित्यर्थः । तेन पक्षप्रयोगोऽपे सफल इति दर्शयन्नाह - तेन पक्षस्तदाधारसूचनायोक्तः ॥ ९८ ॥ यतस्तथोपपत्त्यन्यथानुपपत्तिप्रयोगमात्रेण व्याप्तिप्रतिपत्तिस्तेन हेतुना पक्षस्तदाधारसूचनाय साध्यव्याप्त साधनाधारसूचनायोक्तः । ततो यदुक्तं परेणतद्भावहेतुभावौ हि दृष्टान्ते तदवेदिनः । ख्याप्येते विदुषां वाच्यो हेतुरेव हि केवलः ॥ १ ॥ इति तन्निरस्तम् । व्युत्पन्नं प्रति यथोक्तहेतुप्रयोगोऽपि पक्षप्रयोगाभावे साधनस्य नियताधारतानवधारणात् । अथानुमानस्वरूप प्रतिपाद्येदानीं क्रमप्राप्तमागमस्वरूपं निरूपयितुमाह आप्तवचनादिनिबन्धनमर्थज्ञानमागमः ॥ ९९ ॥ यो यत्रावञ्चकः स तत्राप्तः । आप्तस्य वचनम् । आदिशब्देनांगुल्यादिसंज्ञापरिग्रहः । आप्तवचनमादिर्यस्य तत्तथोक्तं तन्निबन्धनं यस्यार्थज्ञानस्येति । आतशब्दोपादानादपौरुषेयत्वव्यवच्छेदः । अर्थज्ञानमित्यनेनान्यापोहज्ञानस्याभिप्रायसूचनस्य च निरासः । नन्वसम्भवीदं लक्षणं, शब्दस्य नित्यत्वेनापौरुषेयत्वादाप्तप्रणीतत्वायोगात् । तन्नित्यत्वं च तदवयवानां वर्णानां व्यापकत्वान्नित्यत्वाच्च । न च तद्व्यापकत्वमसिद्धम् । एकत्र प्रयुक्तस्य गकारादेः प्रत्यभिज्ञया देशान्तरेऽपि ग्रहणात् । स एवायं गकार इति नित्यत्वमपि तयैवावसीयते । कालान्तरेऽपि तस्यैव गकारादेर्निश्चयात् । इतो वा नित्यत्वं शब्दस्य सङ्केतान्यथानुपपत्तेरिति । तथाहि गृहीतसङ्केतस्य शब्दस्य प्रध्वंसे -

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92