Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
तृतीयसमुद्देशः।
सति युगपदिन्द्रियसम्बद्धत्वात् । घटादिवत् । उपपत्तिपक्षेऽप्ययं दोषः समान इति न वाच्यं मृत्पिण्डदीपदृष्टान्ताभ्यां कारकव्यञ्जकपक्षयोर्विशेषसिद्धरित्यलमतिजल्पितेन । यच्चान्यत्प्रवाहनित्यत्वेन वेदस्यापौरुषेयत्वमिति तत्र किं शब्दमात्रस्यानादिनित्यत्वमुत विशिष्टानामिति ? आद्यपक्षे य एव शब्दा लौकिकास्त एव वैदिका इत्यल्पमिदमभिधीयते वेद एवापौरुषेय इति । किन्तु सर्वेषामपि शास्त्राणामपौरुषेयतति । अथ “विशिष्टानुपूर्विका एव शब्दा अनादित्वेनाभिधीयन्ते" तेषामवगतार्थानामनवगतार्थानां वा अनादिता स्यात् ? यदि तावदुत्तरः पक्षस्तदाऽज्ञानलक्षणमप्रामाण्यमनुषज्यते । अथ आद्यः पक्ष आश्रीयते तद्व्याख्यातारः किञ्चिज्ञा भवेयुः सर्वज्ञा वा ? प्रथमपक्षे दुरधिगमसम्बन्धानामन्यथाप्यर्थस्य कल्पयितुं शक्यत्वात् मिथ्यात्वलक्षणमप्रामाण्यं स्यात् । तदुक्तम्-अयमों नायमर्थ इति शब्दा वदन्ति न । कल्प्योऽयमर्थः पुरुषैस्ते च रागादिविप्लुताः ॥ १ ॥ किञ्च किञ्चिज्ज्ञन्याख्यातार्थाविशेषात् अग्निहोत्रं जुहुयात् स्वर्गकाम इत्यस्य खादेच्छ्वमांसमित्यपि वाक्यार्थः किं न स्यात् संशयलक्षणमप्रामाण्यं वा । अथ सर्वविद्विदितार्थ एव वेदोऽनादिपरंपराऽयात इति चेत् । हन्त धर्मे चोदनैव प्रमाणमिति हतमेतत् । अतीन्द्रियार्थप्रत्यक्षीकरणसमर्थस्य पुरुषस्य सद्भावे च तद्वचनस्यापि चोदनावत्तदवबोधकत्वेन प्रामाण्याद्वेदस्य पुरुषाभावसिद्धे. स्तत्प्रतिबन्धकं स्यात् । अथ तद्वयाख्यातॄणां किञ्चिज्ञत्वेऽपि यथार्थव्याख्यानपरम्पराया अनवच्छिन्नसन्तानत्वेन सत्यार्थ एव वेदोऽवसीयत इति चेन्न किंचिज्ञानामतीन्द्रियार्थेषु निःसंशयव्याख्यानायोगादन्धेनाकृष्यमाणस्यान्धस्यानिष्टदेशपरिहारेणाभिमतपथप्रापणानुपपत्तः। किञ्चानादिव्याख्यानपरम्प-. रागतत्वेऽपि वेदार्थस्य गृहीतविस्मृतसम्बन्धवचनाकौशलदुष्टाभिप्रायतया
• १ उत्पत्तिपक्षे, इत्यपि पाठभेदः ॥ २ तर्हि इति शेषः...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92