Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 54
________________ प्रमेयरत्नमाला। अभूदत्र चक्रे शिवकः स्थासात् ॥ ९१ ॥ एतच्च किं संज्ञिक कान्तर्भवतीत्यारेकायामाह कार्यकार्यमविरुद्धकार्योंपलब्धौ ॥ ९२ ॥ अन्तर्भावनीयमिति सम्बन्धः । शिवकस्य हि कार्य छत्रकं, तस्य कार्य स्थास इति । दृष्टान्तद्वारेण द्वितीयहेतुमुदाहरति-- नास्त्यत्र गुहायां मृगक्रीडनं मृगारिसंशब्दनात् । कारणविरुद्धकार्य विरुद्धकार्योपलब्धौ यथेति ॥ ९३ ॥ मृगक्रीडनस्य हि कारणं मृगस्तस्य विरोधी मृगारिस्तस्य कार्यं तच्छब्दनमिति । इदं यथा विरुद्धकार्योपलब्धावन्तर्भवति तथा प्रकृतमपीत्यर्थः । बालव्युत्पत्त्यर्थं पञ्चावयवप्रयोग इत्युक्तं व्युत्पन्न प्रति कथं प्रयोगनियम इति शङ्कायामाह-- ___व्युत्पन्नपयोगस्तु तथोपपत्त्याऽन्यथानुपपत्त्यैव वा ॥ ९४ ॥ व्युत्पन्नस्य व्युत्पन्नाय वा प्रयोगः क्रियते इति शेषः । तथोपपत्त्या तथा साध्ये सत्येवोपपत्तिस्तया अन्यथानुपपत्त्यैव वा अन्यथा साध्याभावेऽनुपपत्तिस्तया । तामेवानुमानमुद्रामुन्मुद्रयति __ अग्निमानयं देशस्तथैव धूमवत्त्वोपपत्तेधूमवत्त्वान्यथानुपप. त्तेर्वेति ॥ ९५॥ ननु तदतिरिक्तदृष्टान्तादेरपि व्याप्तिप्रतिपत्तावुपयोगित्वात् । व्युत्पन्नापेक्षया कथं तदप्रयोग इत्याह हेतुप्रयोगो हि यथाव्याप्तिग्रहणं विधीयते सा च तावन्मात्रेण व्युत्पनैरवधार्यते इति ॥ ९६ ॥ हिशब्दो यस्मादर्थे, यस्माद्यथाव्याप्तिग्रहणं व्याप्तिग्रहणानतिक्रमेणैव हेतुप्रयोगो विधीयते । सा च तावन्मात्रेण व्युत्पन्नस्तथोपपत्त्याऽन्यथानुपपत्त्या

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92