Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
४८
प्रमेयरत्नमाला।
__ष्टोद्धोधौ प्रति हेतुत्वम् ॥ ६२ ॥ सुगममेतत् । अत्रैवोपपत्तिमाह--
तयापाराश्रितं हि तद्भावभावित्वम् ॥ ६३ ॥ हिशब्दो यस्मादर्थे । यस्मात्तस्य कारणस्य भावे कार्यस्य भावित्वं तद्भावभावित्त्वं तच्च तद्वयापाराश्रितं तस्मान्न प्रकृतयोः कार्यकारणभाव इत्यर्थः । अयमर्थःअन्वयव्यतिरेकसमधिगम्यो हि सर्वत्र कार्यकारणभावः । तौ च कार्यम्प्रति कारणव्यापारसव्यपेक्षावेवोपपद्यते कुलालस्येव कलशम्प्रति । न चातिव्यवहितेषु तद्वयापाराश्रितत्त्वमिति । सहचरस्याप्युक्तहेतुष्वनन्तर्भावं दर्शयति-- सहचारिणोरपि परस्परपरिहारेणावस्थानात्सहोत्पादाच ॥ ६४ ॥ __ हेत्वन्तरत्वमिति शेषः । अयमभिप्रायः परस्परपरिहारेणोपलम्भात्तादारम्यासम्भवात्स्वभावहेतावनन्तर्भावः । सहोत्पादाच्च न काय कारणे वेति । न च समानतमयवर्तिनोः कार्यकारणभावः सव्येतरगोविषाणवत् । कार्यकारणयोः प्रतिनियमाभावप्रसङ्गाच्च । तस्माद्धत्वन्तरत्वमेवेति । इदानी च्याप्यहेतुं क्रमप्राप्तमुदाहरन्नुक्तान्वयव्यतिरेकपुरस्सर प्रतिपाद्याशयवशात्प्रतिपादितप्रतिज्ञाद्यवयवपञ्चकं प्रदर्शयतिपरिणामी शब्दः कृतकत्त्वात् । य एवं स एवं दृष्टो, यथा घटः, कृतकवायं, तस्मात्परिणामीति, यस्तु न परिणामी स न कृतको दृष्टो यथा वन्न्यास्तनन्धयः, कृतकश्चार्य, तस्मात्प रिणामीति ।। ६५॥
स्वोत्पत्ती अपेक्षितव्यापारो हि भावः कृतक उच्यते । तच्च कृतकत्वं न कूटस्थानित्यपक्षे नापि क्षणिकपक्षे किन्तु परिणामित्त्वे सत्येवेत्यो वक्ष्यते। कार्यहेतुमाह
अस्त्यत्र देहिनि बुदिाहारादेः ॥ ६६ ॥

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92