Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 51
________________ .. तृतीयसमुद्देशः। कारणहेतुमाह अस्त्यत्रच्छाया छत्रात् ॥ ६७ ॥ अथ पूर्वचरहेतुमाह. उदेष्यति शकटं कृत्तिकोदयात् ॥ ६८ ॥ मुहूर्तान्ते इतिसम्बन्धः । अथोत्तरचरः उदगाद्भरणिः प्राक्तत एव ॥ ६९ ॥ अत्रापि मुहूर्ताप्रागिति सम्बन्धनीय, तत एव कृत्तिकोदयादेवेत्यर्थः । सहचरालिङ्गमाह- अस्त्यत्र मातुलिङ्गे रूपं रसात् ॥ ७० ॥ विरुद्धोपलब्धिमाह विरुद्ध तदुपलब्धिः प्रतिषेधे तथेति ॥ ७१ ॥ प्रतिषेधे साध्येऽप्रतिध्येन विरुद्धानां सम्बन्विनस्ते व्याप्यादयस्तेषामुपलब्धय इत्यर्थः । तथेति षोढेति भावः । तत्र साध्यविरुद्धव्याप्योपलब्धिमाह नास्त्यत्र शीतसार्श औष्ण्यात् ।। ७२ ॥ शीतस्पर्शप्रतिषेधेन हि विरुद्धोऽग्निस्तद्व्याप्यमौष्ण्यमिति । विरुद्धकार्योपलम्भमाह नास्त्यत्र शीतस्पर्शो धृमात् ।। ७३ ॥ अत्रापि प्रतिषेध्यस्य साध्यस्य शीतस्पर्शस्य विरुद्धोऽग्निस्तस्यकार्य धूम इति । विरुद्धकारणोपलब्धिमाह नास्मिन् शरीरिणि सुखमस्ति हृदयशल्यात् ॥ ७४॥ सुखविरोधि दुःखं, तस्य कारणं हृदयशल्यमिति । विरुद्धपूर्वचरमाह नोदेष्यति मुहूर्तान्ते शकटं रेवत्युदयात् ॥ ७५ ॥ शकटोदयविरुद्धो ह्यश्विन्युदयस्तत्पूर्वचरो रेवत्युदय इति । विरुद्धोत्तरचरं लिङ्गमाह

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92