Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
प्रमेयरत्नमाला।
तत्प्रतिपादकानुमानं हेतुर्यस्य तत्तद्धेतुस्तस्य भावस्तत्त्वं ततस्तद्वचनमपि तथेति सम्बन्धः । अस्मिन्पक्षे कार्ये कारणस्योपचार इति शेषः । वचनस्यानुमानत्वे च प्रयोजनमनुमानावयवाः प्रतिज्ञादय इति शास्त्रे व्यवहार एव । ज्ञानामत्मन्यनशे तद्वयवहारस्याशक्यकल्पनत्वात् । तदेव साधनात् साध्यविज्ञानमनुमानमित्यनुमानसामान्यलक्षणम् । तदनुमानं द्वेधेत्यादिना तत्प्रकारं च सप्रपञ्चमभिधाय साधनमुक्तलक्षणापेक्षयैकमप्यतिसंक्षेपेण भिद्यमानं द्विविधमित्युपदर्शयति
स हेतुधोपलब्ध्यनुपलब्धिभेदादिति ॥ ५७ ॥ सुगममेतत् । तत्रोपलब्धिर्विधिसाधिकैव । अनुपलब्धिः प्रतिषेधसाधिकैवेति । परस्य नियमं विघटयन्नुपलब्धेरनुपलब्धेश्चाविशेषेण विधिप्रतिषेधसाधनावमाह
. उपलब्धिर्विधिप्रतिषेधयोरनुपलब्धिश्चेति ॥ ५८ ॥ गतार्थमेतत् । इदानीमुपलब्धेरपि संक्षेपेण विरुद्धाविरुद्धभेदात् द्वैविध्यमुपदर्शयन्नाविरुद्धोपलब्धेर्विधौ साध्ये विस्तरतो भेदमाहअविरुद्धोपलब्धिर्विधौ षोढा व्याप्यकार्यकारण :
पूर्वोत्तरसहचर भेदादिति ॥ ५९॥ पूर्व च उत्तरं च सह चेति द्वंद्वः । पूर्वोत्तरसह इत्येतेभ्यश्चर इत्यनुकरणनिर्देशः द्वन्द्वात् श्रूयमाणश्चरशब्दः प्रत्येकमभिसम्बध्यते । तेनायमर्थः पूर्वचरोत्तरचरसहचरा इति । पश्चाद्व्याप्यादिभिः सह द्वन्द्वः । अत्राह सौगतःविधिसाधनं द्विविधमेव । स्वभावकार्यभेदात् । कारणस्य तु कार्याविनाभावाभावादलिङ्गत्वम् । नावश्यं कारणानि कार्यवन्ति भवन्तीति वचनात् । अप्रतिबद्धसामर्थ्यस्य कार्यम्प्रति गमकत्वमित्यपि नोत्तरम् । सामर्थ्यस्यातीन्द्रियतया विद्यमानस्यापि निश्चेतुमशक्यत्त्वादिति । तदसमीक्षिताभिधानमिति दर्शयितुमाह

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92