Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 46
________________ प्रमेयरत्नमाला। एवासौ तत्रयोपगमो न वादे नहि वादकाले शिष्या व्युत्पाद्याः । व्युत्पन्नानामेव तत्राधिकारादिति । बालव्युत्पत्त्यर्थं तत्रयोपगम इत्यादिना शास्त्रेऽभ्युपगतमेवोदाहरणादित्रयमुपदर्शयति___दृष्टान्तो द्वेधा । अन्वयव्यतिरेकभेदादिति ॥४७॥ दृष्टावन्तौ साध्यसाधनलक्षणौ धर्मावन्वयमुखेन व्यतिरेकद्वारेण वा यत्र स दृष्टान्त इत्यन्वर्थसंज्ञाकरणात् । स द्वेधैवोपपद्यते । तत्रान्वयदृष्टान्तं दर्शयन्नाहसाध्यव्याप्तं साधनं यत्र प्रदश्यते सोऽन्वयदृष्टान्तः ॥ ४८ ॥ साध्येन व्याप्तं नियत साधनं हेतुर्यत्र दयते व्याप्तिपूर्वकतयेति भावः । द्वितीयभेदमुपदर्शयतिसाध्याभावे साधनाभावो यत्र कथ्यते स व्यतिरेकदृष्टान्तः ॥४९॥ असत्यसद्भावो व्यतिरेकः । तत्प्रधानो दृष्टान्तो व्यतिरेकदृष्टान्त: । साध्याभावे साधनस्याभाव एवेति सावधारणं द्रष्टव्यम् । क्रमप्राप्तमुपनयस्वरूपं निरूपयति हेतोरुपसंहार उपनयः ॥ ५० ॥ ___ पक्षे इत्यध्याहारः । तेनायमर्थः-हेतोः पक्षधर्मतयोपसंहार उपनय इति । निगमनस्वरूपमुपदर्शयति प्रतिज्ञायास्तु निगमनमिति ॥ ५१ ॥ उपसंहार इति वर्तते । प्रतिज्ञाया उपसंहारः साध्यधर्मविशिष्टत्वेन प्रदर्शनं निगमनमित्यर्थः । ननु शास्त्रे दृष्टान्तादयो वक्तव्या एवति नियमानभ्युपगमात्कथं तत्रयमिह सूरेभिः प्रपञ्चितमिति न चोद्यम् । स्वयमनभ्युपगमेऽपि प्रतिपाद्यानुरोधेन जिनमतानुसारािभः प्रयोगपरिपाट्याः प्रतिपन्नत्वात् । सा चाज्ञाततत्स्वरूपैः कर्तुं न शक्यत इति तत्स्वरूपमपि शास्त्रेऽभिधातव्य

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92