Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
तृतीयसमुद्देशः। तदुदाहरणं परं केवलमभिधीयमानं साध्यमिणि साध्यविशिष्टेधर्मिणि साध्यसाधने सन्देहयति सन्देहवती करोति । दृष्टान्तधर्मिणि साध्यव्याप्तसाधनोपदर्शनेऽपि साध्यधर्मिणि तन्निर्णयस्य कर्तुमशक्यत्वादिति शेषः । अमुमेवार्थ व्यतिरेकमुखेन समर्थयमानः प्राह
कुतोऽन्यथोपनयनिगमने ॥ ४३ ॥ अन्यथा संशयहेतुत्वाभावे कस्माद्धेतोरुपनयनिगमने प्रयुज्यते । अपरः प्राह-उपनयनिगमनयोरप्युमानाङ्गत्वमेव, तदप्रयोग निरवकरसाध्यसंवित्तेरयोगादिति । तनिषेधार्थमाह
न च ते तदङ्गे । साध्यधर्मिणि हेतुसाध्य
__ योर्वचनादेवासंशयात् ॥ ४४ ॥ ते उपनयनिगमने अपि वक्ष्यमाणलक्षणे तस्यानुमानस्याङ्गे न भवतः ! साध्यधर्मिण हेतुसाध्ययोर्वचनादेवत्येवकारेण दृष्टान्तादिकमन्तरेणेत्यर्थः । किञ्चाभिधायापि दृष्टान्तादिक समर्थनमवश्यं वक्तव्यमसमर्थितस्याहेतुत्वादिति तदेव वरं हेतुरूपमनुमानावयवो वाऽस्तु साध्यसिद्धौ तस्यैवोपयोगानोदाहरणादिकमेतदेवाह-- ___ समर्थन वा वरं हेतुरूपमनुमानावयवो
वाऽस्तु साध्ये तदुपयोगात् ॥ ४५ ॥ प्रथमो वाशब्द एवकारार्थे । द्वितीयस्तु पक्षान्तरसूचने । शेषं सुगमम् । ननु दृष्टान्तादिकमन्तरेण मन्दधियामवबोधयितुमशक्यत्वात्कथं पक्षहेतुप्रयोगमात्रेण तेषां साध्यविप्रतिपतिरिति तत्राह
बालव्युत्पत्त्यर्थ तत्रयोपगमे शास्त्र एवासौ
न वादेऽनुपयोगादिति ॥ ४६॥ बालानां अल्पप्रज्ञानां व्युत्पत्त्यर्थं तेषामुदाहरणादीनां त्रयोपगमे शास्त्र

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92