Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
४२
.
.
.
प्रमेयरत्नमाला। च्छेदे सिद्धऽपि परमतनिरासार्थं पुनर्नोदाहरणमित्युक्तम् । तद्धि किं साध्यप्रतिपत्त्यर्थमुतस्विद्धतोरविना भावनियमार्थमाहोस्विद्व्याप्तिस्मरणार्थमिति विकल्पान् क्रमेण दूषयन्नाहन हि तत्साध्यमतिपत्त्यङ्गं तत्र यथोक्तहेतारेव व्यापारात् ॥३८॥
तदुदाहरणं साध्यप्रतिपत्तेरङ्गं कारणं नेति सम्बन्धः । तत्र साध्यप्रतिपत्तौ यथोक्तस्य साध्याविनाभावित्वेन निश्चितस्य हेतोव्यापारादिति । द्वितीयविकल्पं शोधयन्नाह-- तदविनाभावनिथयार्थं वा विपक्षे वाधकादेव तत्सिद्धेः ॥ ३९ ॥
तदिति वर्तते । नेति च । तेनायमर्थः तदुदाहरणं तेन साध्येनाविनाभावनिश्चयार्थ वा न भवतीति । विपक्षे बाधकादेव तसिद्धरविनाभावनिश्चयसिद्धेः । किञ्च व्यक्तिरूपं निदर्शनं तत्कथं साकल्येन व्याप्तिं गमयेत् । • व्यक्त्यन्तरेषु व्याप्त्यर्थं पुनरुदाहरणान्तरं मृग्यम् । तस्यापि व्यक्तिरूपत्त्वेन
सामान्येन व्याप्तरवधारयितुमशक्यत्त्वादपरापरतदन्तरापेक्षायामनवस्था स्यात् । 'एतदेवाह
व्यक्तिरूपं च निदर्शनं सामान्येन तु व्याप्तिस्तत्रापितद्विप्रति पत्तावनवस्थानं स्यात् दृष्टान्तान्तरापेक्षणात् ॥ ४० ॥
तत्रापि उदाहरणेऽपि । तद्विप्रतिपत्तौ सामान्यव्याप्तिविप्रतिपत्ताविल्यर्थः । शेषं व्याख्यातम् । तृतीयविकल्ये दूषणमाह - नापि व्याप्तिस्मरणार्थ तथाविधेहतुपयोगादेव तत्स्मृतेः ॥४१॥
गृहीतसम्बन्धस्य हेतुप्रदर्शनेनैव व्याप्तिसिद्धिरगृहीतसम्बन्धस्य दृष्टान्तशतेनापि न तत्स्मरणमनुभूतविषयत्त्वात्स्मरणस्येति--भावः । तदेवमुदाहरणप्रयोगस्य साध्यार्थप्रति नोपयोगित्वं प्रत्युत संशयहेतुत्वमेवेति दर्शयतितत्परमभिधीयमानं साध्यधर्मिणिसाध्यसाधने सन्देहयति ॥४२॥

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92