Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
४०
प्रमेयरत्नमाला। साध्ये इति शब्दः प्राक् द्विवचनान्तोऽप्यर्थवशादेकवचनान्ततया सम्बध्यते । प्रमाणं चोभयं च विकल्पप्रमाणद्वयं, ताभ्यां सिद्ध धर्मिणि साध्यधमविशिष्टता साध्या । अयमर्थः--प्रमागप्रतिपन्नमपि वस्तु विशिष्टधर्माधारतया विवादपदमारोहतीति साध्यतां नातिवर्तत इति । एवमुभयसिद्वेऽपि योज्यम् । प्रमाणोभयसिद्धं धर्मिद्वयं क्रमेण दर्शयन्नाह-~
अग्निमानयं देशः परिणामी शब्द इति यथा ॥ ३१ ॥ देशो हि प्रत्यक्षेण सिद्धः शब्दस्तुभयसिद्धः । नहि प्रत्यक्षेणाग्दिार्शभिरनियतदिग्देशकालावच्छिन्नाः सर्वे शब्दा निश्चेतुं पर्यन्ते । सर्वदर्शिनस्तु तन्निश्चयेऽपि के प्रत्यनुमानानर्थक्यात् । प्रयोगकालापेक्षया धर्मावेशिष्टधर्मिणः साध्यत्त्वमभिधाय व्यातिकालापेक्षया साध्यनियमं दर्शयन्नाह
___ व्याप्तौ तु साध्यं धर्म एवेति ॥ ३२ ॥ सुगमम् । धर्मिणोऽपि साध्यत्त्वे को दोष इत्यत्राह
___ अन्यथा तदघटनादिति ॥ ३३ ॥ उक्तविपर्ययेऽन्यथाशब्दः । धर्मिणः साध्यत्वे तदघटनात् व्याप्त्यबटनादिति हेतुः । न हि धूमदर्शनात्सर्वत्र पर्वतोऽग्निमानिति व्याप्तिः शक्या कर्तुं प्रमाणविरोधात् । नन्वनुमाने पक्षप्रयोगस्यासम्भवात् प्रसिद्धो धर्मीत्यादिवचनमयुक्तम् । तस्य सामर्थ्यलब्धत्वात् । तथापि तद्वचने पुनरुक्तताप्रसङ्गात् । अर्थादापन्नस्यापि पुनर्वचनं पुनरुक्तमित्यभिधानादिाते सौगतस्तत्राह--
साध्यधर्माधारसन्देहापनोदाय गम्यमान
स्यापि पक्षस्य वचनम् ।। ३४ ॥ साध्यमेव धर्मस्तस्याधारस्तत्र सन्देहो महानसादिः पर्वतादिति । तस्यापनोदो व्यवच्छेदस्तदर्थ गम्यमानस्यापि साध्यसाधनयोाप्यव्यापकभावप्रदर्शनान्यथानुपपत्तेस्तदाधारस्य गम्यमानस्यापि पक्षस्य वचनं प्रयोगः । अत्रोदाहरणमाह

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92