Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 41
________________ - तृतीयसमुद्देशः । ३९ न्येन वा व्यवस्थापितः पर्वतादिर्विषयभावं भजन्नेव धर्मितां प्रतिपद्यत इति स्थितं प्रसिद्ध धर्मीति । तत्प्रसिद्धिश्च कचिद्विकल्पतः कचित्प्रमाणतः कचिचोभयत इति नैकान्तेन विकल्पाधिरूढस्य प्रमाणप्रसिद्धस्य वा धर्मित्वम् । ननु धर्मिणो विकल्पात्प्रतिपत्तौ किं तत्र साध्यमित्याशङ्कायामाह - विकल्पसिद्धे तस्मिन्सत्तेतरे साध्ये ॥ २८ ॥ तस्मिन्धर्मिणि विकल्पसिद्धे सत्ता च तदपेक्षयेतराऽसत्ता च ते द्वे अपि साध्ये, निर्णीतासम्भवद्वाधकप्रमाणत्रलेन योग्यानुपलब्धिबलेन चेति शेषः । अत्रोदाहरणमाह अस्ति सर्वज्ञो नास्ति खरविषाणमिति ॥ २९ ॥ सुगमम् । ननु धर्मिण्यसिद्धसत्ता के भावाभावोभयधर्माणामसिद्धविरुद्धानैकान्तिकत्त्वादनुमानविषयत्वायोगात् कथं सत्तेतरयोः साध्यत्त्वम् ? तदुक्तम्—असिद्धो भावधर्मश्चेव्यभिचार्युभयाश्रितः । विरुद्धो धर्मों भावस्य सा सत्ता साध्यते कथम् । इति तदयुक्तम् - मानसप्रत्यक्षे भावरूपस्यैव धर्मिणः प्रतिपन्नत्वात् । न च तत्सिद्धौ तत्सत्त्वस्यापि प्रतिपन्नत्वाद्वयर्थमनुमानम् । तदभ्युपेतमपि वैय्यात्याद्यदा परो न प्रतिपद्यते तदाऽनुमानस्य साफल्यात् । न च मानसज्ञानाद्गगनकुसुमादेरपि सद्भावसम्भावनाऽतोऽतिप्रसङ्गः । तज्ज्ञानस्य वाधकप्रत्ययव्यपाकृतसत्ताकवस्तुविषयतया मानसप्रत्यक्षाभासत्त्वात् । कथं तर्हि तुरगशृङ्गादेर्धर्मिश्वमिति न चोद्यम्---धर्मिप्रयोगकाले बाधकप्रत्ययानुदयात्सत्त्वसम्भावनोपपत्तेः । न च सर्वज्ञादौ साधकप्रमाणासवेन सत्त्वप्रति संशीतिः सुनिश्चितासम्भवद्बाधकप्रमाणत्वेन मुखादाविव सत्वनिश्चयात्तत्र संशयायोगात् । इदानीं प्रमाणोभयसिद्धे धर्मिणि किं साध्यमित्याशङ्कायामाह - प्रमाणोभयसिद्धे तु साध्यधर्मविशिष्टता ॥ ३० ॥

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92