Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 43
________________ तृतीयसमुद्देशः। ४१ साध्यधर्मिणि साधनधर्मावबोधनाय पक्षधर्मोपसंहारवत् ॥ ३५॥ - साध्येन विविष्टो धर्मी पर्वतादिस्तत्र साधनधर्मावबोधनाय पक्षधर्मोपसंहारवत् । पक्षधर्मस्य हेतोरुपसंहार उपनयस्तद्वदिति । अयमर्थः- साध्यव्याप्तसाधनप्रदर्शनेन तदाधारावगतावपि नियतधार्मिसम्बन्धिताप्रदर्शनार्थ यथोपनयस्तथा साध्यस्य विशिष्टधर्मिसम्बन्धितावबोधनाय पक्षवचनमपीति । किञ्च हेतुप्रयोगेऽपि समर्थनमवश्यं वक्तव्यम् । असमर्थितस्य हेतुत्वायोगात् । तथा च समर्थनोपन्यासादेव हेतोः सामर्थ्यसिद्धत्वाद्धेतुप्रयोगोऽनर्थकः स्यात् । हेतुप्रयोगाभावे कस्य समर्थनमिति चेत् —पक्षप्रयोगाभावे व हेतुवर्ततामिति समानमेतत् । तस्मात्कार्यस्वभावानुपलम्भभेदेन पक्षधर्मत्वादिभेदेन च त्रिधा हेतुमुक्त्वा समर्थयमानेन पक्षप्रयोगोऽप्यभ्युपगन्तव्य एवेति । अमुमेवार्थमाहको वा त्रिधा हेतुमुक्त्वा समर्थयमानो न पक्षयति ॥ ३६॥ __को वा वादी प्रतिवादी चेत्यर्थः । किलार्थे वा शब्दः । युक्त्या पक्षप्रयोगस्यावश्यंभावे कः किल न पक्षयति ? पक्ष न करोत्यपि तु करोत्येव । किं कुर्वन्समर्थयमानः । किं कृत्वा हेतुमुक्त्वैव । न पुनरनुक्त्वेत्यर्थः । समर्थनं हि हेतोरसिद्धत्वादिदोषपरिहारेण स्वसाध्यसाधनसामर्थ्यप्ररूपणप्रवणं वचनम् । तच्च हेतुप्रयोगोत्तरकालं परेणाङ्गीकृतमित्युक्त्वेति वचनम् । ननु भवतु पक्षप्रयोगस्तथापि पक्षहेतुदृष्टान्तभेदेन त्र्यवयवमनुमानमिति सांख्यः । प्रतिज्ञाहेतूदाहरणोपनयभेदेन चतुरवयवमिति मीमांसकः । प्रतिज्ञाहेतूदाहरणोपनयनिगमनभेदात्पञ्चावयवामिति यौगः । तन्मतमपाकुर्वन्स्वमतसिद्धमवयवद्वयमेवोपदर्शयन्नाह एतद्वयमेवानुमानाङ्गं नोदारहरणमिति ॥ ३७ ।। - एतयोः पक्षहेत्वोर्द्वयमेव नातिरिक्तमित्यर्थः । एवकारेणैवोदाहरणादिव्यव

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92