Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 47
________________ तृतीयसमुद्देशः । ४५ मेवेति । तदेवं मतभेदेन द्वित्रिचतुः पंचावयवरूपमनुमानं द्विप्रकारमेवेति दर्शयन्नाह - तदनुमानं द्वेधा ॥ ५२ ॥ स्वार्थपरार्थभेदादिति ॥ ५३ ॥ स्वपरविप्रतिपत्तिनिरासफलत्वाद्विविधमेवेति भावः । स्वार्थानुमानभेदं दर्श तद्वैविध्यमेवाह—— यन्नाह— स्वार्थमुक्तलक्षणम् ॥ ५४ ॥ साधनात्साध्य विज्ञानमनुमानमिति प्रागुक्तं लक्षणं यस्य तत्तथोक्तमित्यर्थः । द्वितीयमनुमानभेदं दर्शयन्नाह- परार्थ तु तदर्थपरामर्शिवचनाज्जातमिति ॥ ५५ ॥ " तस्य स्वार्थानुमानस्यार्थः साध्यसाधनलक्षणः । तं परामृशतीत्येवं शीलं तदर्थपरामर्श । तच्च तद्वचनं च तस्माज्जातमुत्पन्नं विज्ञानं परार्थानुमान - मिति । ननु वचनात्मकं परार्थानुमानं प्रसिद्धं तत्कथं तदर्थप्रतिपादकवचनजनितविज्ञानस्य परार्थानुमानत्वमभिदधता न संग्रहीतमिति न वाच्यम् । अचेतनस्य साक्षात्प्रमितिहेतुत्वाभावेन निरुपचरितप्रमाणभावाभावत् । मुख्यनुमानहेतुत्वेन तस्योपचरितानुमानव्यपदेशो न वार्यत एव । तदेवोपचरितं परार्थानुमानत्वं तद्वचनस्याचार्यः प्राह तद्वचनमपि तद्धेतुत्वादिति ॥ ५६ ॥ · उपचारो हि मुख्याभावे सति प्रयोजने निमित्ते च प्रवर्त्तते । तत्र वच नस्य परार्थानुमानत्वे निमित्तं तद्धेतुत्वम् । तस्य प्रतिपाद्यानुमानस्य हेतुस्तद्वेतुस्तस्य भावस्तत्त्वम् । तस्मान्निमित्तात्तद्वचनमपि परार्थानुमानप्रतिपादकवचनमपि परार्थानुमानमिति सम्बन्धः । कारणे कार्यस्योपचारात् । अथवा

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92